________________
२२१
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० विद्यमानैस्तैरपरेन्द्रियस्य सन्निकर्षोस्ति यतस्तत्र प्रत्यक्षमुत्पद्येत, अनवस्थाप्रसङ्गात्। .. अथानुमानात्तेषां सिद्धिः, किमत एव, अनुमानान्तराद्वा? प्रथ
मपक्षेऽन्योन्याश्रयः-अनुमानोत्थाने ह्येतस्तत्सिद्धिः, अस्याश्चा५नुमानोत्थानमिति । अथानुमानान्तरात्तत्सिद्धिस्तदानस्था, तत्रा प्यनुमानान्तरात्तत्सिद्धिप्रसङ्गात्।
यदि च गोलकान्तर्भूतात्तेजोद्रव्यादहिभूता रश्मयश्चक्षुःशब्द. वार्ष्याः पदार्थप्रकाशकाः; तर्हि गोलकस्योन्मीलनमञ्जनादिना
संस्कारश्च व्यर्थः स्यात् । अथ गोलकांद्याधयपिधाने तेषां विषय १० प्रति गमनासम्भवात्तदर्थ तदुन्मीलनम् , घृतादिना च पादयोः
संस्कारे तत्संस्कारो भवति स्वाश्रयगोलकसंस्कारे तु नितरां स्यात् इत्यस्यापि न वैयर्थ्यम्; तदापि गोलकादिलग्नस्य कामलादेः प्रकाशकत्वं तेषां स्यात् । न खलु प्रदीपकलिकाश्रयास्तद्ग
श्मयस्तत्कलिकावलग्नं शलाकादिकं न प्रकाशयन्तीति युक्तम् । १५ न चात्र चक्षुषः सम्बन्धो नास्तीत्यभिधातव्यम्; यतो व्यक्तिः
रूपं चक्षुस्तत्रासम्बद्धम् , शक्तिस्वभावं वा, रश्मिरूपं वा? प्रथमपक्षे प्रत्यक्षविरोधः, व्यक्तिरूपचक्षुषः काचकामलादौ सम्बन्धप्रतीतेः । द्वितीयपक्षेपि तच्छक्तिरूपं चक्षुर्व्यक्तिरूपचक्षुषो भिन्नदेशम्, अभिन्नदेशं वा? न तावद्भिनदेशम्। तच्छक्तिरू२०पताव्याघातानुषङ्गानिरौधारत्वप्रसङ्गाच्च । न हन्यशक्तिरन्याधारा युक्ता । तदेशद्वारेणैवार्थोपलब्धिप्रसङ्गश्च । ततोऽभिन्नदेशं चेत् तत्तत्रं सम्बद्धम् , असम्बद्धं वा? सम्बद्धं चेत्, बहिरर्थवत्वाश्रयं तत्सम्बद्धं चाञ्जनादिकमपि प्रकाशयेत् । असम्बर्द्ध
चेत्कथमाधेय नाम अतिप्रेसङ्गात् ? । २५ अथ रश्मिरूपं चक्षुः, तस्यापि काचकामलादिना सम्बन्धोस्त्येव । न खलु स्फटिकाँदिकूपिकामध्यगतप्रदीपोंदिरश्मयस्ततो
१ अपरलोकानां लोचनस्य । २ अन्यथा उत्पद्यते चेत्तहिं । ३ ग्रन्थानवस्था । ४ प्रथमानुमानात् । ५ अनुमानात् । ६ रश्मिरूपं चक्षुस्तैजसत्वात्प्रदीपवदित्यस्मात् । ७ ग्रन्थानवस्था । ८ भवत्प्रक्रियामात्रेण । ९ बसः । १० गोलकान्तर्भूततेजोद्रव्यस्य । ११ खस्य रश्मिरूपचक्षुषः। १२ रश्मिरूपचक्षुषः संस्कारः। १३ गोलकस्याअनादिना संस्कारस्य । १४ गोलकरूपम् । १५ शक्तेः । १६ व्यक्तिरूपचक्षुषः । १७ शक्तिस्वभावम् । १८ व्यक्तिरूपे चक्षुषि । १९ शक्तिरूपेन्द्रियस्याभयं गोलकम् । २० उभयत्र सम्बन्धाविशेषात् । २१ शक्तिरूपम् । २२ सदस्य विध्याषेयता स्वादसम्बन्धत्वाविशेषात् । २३ तृतीयपक्षे । २४ काचादि । २५ अदिपदेन रखादि। २६ स्फटिकादिकूपिकायाः सकाशात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org