________________
सू० २/२ ]
अभावस्य प्रत्यक्षादावन्तर्भावः
२०३
तैत्सिद्धावितरेतराश्रयः- सिद्धे हि तया तस्यान्यत्र जीवने तद्विशेपितात्तत्प्रदेशाभावादर्थापत्युदयः, ततञ्च तत्सिद्धिरिति ।
अथ न निश्चितं सज्जीवनं तद्रहाभावविशेषणं येनायं दोषः, किन्तु 'यदि गृहेऽसन् जीवति तदान्यत्रास्ति' इत्यभिधीयते; तर्हि संशयरूपत्वात्तस्याः कथं प्रामाण्यम् ? या तु प्रमाणं सानु- ५ मानमेव । पञ्चावयवत्वमप्यत्र सम्भवत्येव । तथाहि - जीवतो देवदत्तस्य गृहेऽभावो बहिस्तत्सद्भावपूर्वकः जीवतो गृहेऽभावत्वात् प्राङ्गणे स्थितस्य गृहे जीवभाववत् । यद्वा, देवदत्तो बहिरस्ति गृहासंसृष्टजीवनाधारत्वात्खात्मवत् । कथं पुनर्देवदतस्यानुपलभ्यमानस्य जीवनं सिद्धं येन तद्धेतुविशेषणमित्यसत् ११० प्रसङ्गसाधनोपन्यासात् ।
१७
१९
यच्च निषेध्याधारवस्तुग्रहणादिसामग्रीत इत्यायुक्तम् ; तत्र निषेध्याधारो वस्वन्तरं प्रयोगिसंसृष्टं प्रतीयते, असंसृष्टं वा ? तत्राद्यपक्षोऽयुक्तः; प्रतियोगिसंसृष्टवस्त्वन्तरस्याध्यक्षेण प्रतीतौ तत्र तदभावग्राहकत्वेनाभावप्रमाणप्रवृत्तिविरोधात् । प्रवृत्तौ वा १५ न प्रामाण्यम्; प्रतियोगिनः सत्त्वेपि तत्प्रवृत्तेः । द्वितीयपक्षे तु अभावप्रमाणवैयर्थ्यम्, प्रत्यक्षेणैव प्रतियोगिनोऽभावप्रतिपन्तेः । अथ प्रतियोग्य संसृष्टतावगमो वस्त्वन्तरस्याभावप्रमाणसम्पाद्यः; तर्हि तदप्यभावप्रमाणं प्रतियोग्यसंसृष्टवस्त्वन्तरग्रहणे सति प्रैवचैत, तदसंसृष्टतावगमश्च पुनरप्यभावप्रमाणसम्पाद्य इत्यन- २० वस्था । प्रथमाभावप्रमाणात्तदसंसृष्टतावगमे चान्योन्याश्रयः ।
१ बहिर्जीवन । २ बहिजींवन । ३ गृह । ४ इतरेतराश्रयः । ५ यदि जीवति तदा बहिरस्ति यदि न जीवति तदा नास्तीत्यर्थः । ६ जीवनस्य संशयितत्वात् ! ७ अन्यत्र जीवनानिश्चयात् । ८ एषार्थापत्तिर्यथाऽप्रमाणं तथा सर्वाप्यप्रमाणं स्यादित्या - कायामाह । ९ पञ्चावयववत्त्वाभावे कथमर्थापत्तेरनुमानत्वमिति परेणोक्ते सत्याह । १० प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः । ११ मृतेन व्यभिचारपरिहारार्थमेतत् । १२ प्रमातृस्वरूपवत् । १३ अभावरूपहेतोः । १४ साध्यसाधनयोर्व्याप्यव्यापकभावसिद्धौ व्याध्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयको यत्र (अर्थे) प्रदश्यते तत्प्रसङ्गसाधनम् । १५ घट । १६ भूतल । १७ आदिपदेन प्रतिषेध्यस्मरणमुपलब्धिलक्षणप्राप्तस्य घटादेरनुपलम्भश्च । १८ भूतलम् । १९ घटेन । २० रहितम् । २१ घटाभाव | २२ अभावप्रमाणस्य । २३ अभावावगमः । २४ भूतलस्य ॥ २५ आद्यम् । २६ उत्पद्येत । २७ प्रथमाभावप्रमाणात्प्रतियोग्य संसृष्टतावगमः तदवगमश्च प्रथमाभावप्रमाणोदये इति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org