________________
२०२
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० प्रतिभासमानत्वाद्रूपादेः कथं कर्कटिकादिद्रव्यस्य तद्रहितत्वमिति चेत् ? तर्हि तैलशोषादिविचित्रकार्यानुमानवुद्धौ शक्तिनानात्वस्याप्यर्थानां प्रतीतेः कथं तद्रहितत्वं स्यात् ? प्रत्यक्षबुद्धौ प्रतिभासमाना रूपादय एव परमार्थसन्तो न त्वनुमानबुद्धौ प्रतिभासमानाः ५शक्तयः; इत्यपसु(प्यसु)न्दरम् ; अदृष्टेश्वरादेरपरमार्थसत्त्वप्रसङ्गात् । प्रदीपादिद्रव्यस्यैकस्य वर्तिकादिसहकारिसामग्रीभेदात्तहाहादिकार्यनानात्वं न पुनस्तच्छक्तिस्वभावभेदात् ; इत्यप्यविचारितरमणीयम्; रूपादेरप्यभावप्रसङ्गात् । शक्यं हि वक्तुं कर्कटिकादिद्रव्ये चक्षुरादिसामग्रीभेदादूपादिप्रत्ययप्रतिभासभेदो, न पुना १०रूपाद्यनेकखभावभेदादिति । तन्न प्रमाणप्रतिपन्नत्वाद्रूपादिवच्छ.
कीनामपलापो युक्त इति ।। . यत्पुनरर्थापत्त्यर्थापत्तेरुदाहरणं वाचकसामर्थ्यात्तन्नित्यत्वज्ञानमुक्तम् । तदप्ययुक्तम्; वाचकसामर्थ्यस्य तत्प्रत्यनन्याभवना. सिद्धेः । निराकरिष्यते चाग्रे नित्यत्वं शब्दस्येत्यलमतिप्रसङ्गेन । १५ याप्यभावार्थापत्तिः-जीवंश्चैत्रोऽन्यत्रास्ति गृहेऽभावादिति;
तत्रापि किं गृहे यत्तस्य जीवनं तदेव गृहे चैत्राभावस्य विशेषणम्, उतान्यत्र ? प्रथमपक्षे तत्राभावस्य विशेष्यस्यासिद्धिः, यदा हि चैत्रो गृहे जीवति कथं तदा तत्र तदभावो येनोसौ तेने विशेष्येत? यदा च तत्र तदभावो, न तदा तत्र तजीवनमिति । द्वितीयपक्षे २० तु विशेषणस्यासिद्धिः, न खलु चैत्रस्यान्यत्र यजीवनं तदर्थापत्युदयकाले तथाविधप्रदेशविशेषणत्वेन कुंतश्चित्प्रतीयते अर्थापत्तेवैयर्थ्यप्रसङ्गात् । येन हि प्रमाणेन तज्जीवनं प्रतीयते तेनैव तत्सद्भावोपि । न हाँप्रतिपन्ने देवदत्ते तद्धर्मो जीवनं प्रत्येतुं शक्यम् अतिप्रसङ्गात् । न चाप्रतीतस्य विशेषणत्वमत एव । अर्थापत्त्यैव
१ प्रदीपो नानाशक्तियुक्तः तैलशोषादिनानाकार्यान्यथानुपपत्तेरिति । २ दूषणभीसैवं वचः। ३ ज्ञाने। ४ निरंशत्वप्रतिपादनाय । ५ शब्द । ६ शब्दनित्यत्वं प्रति । ७ अन्यथा नित्यत्वं विना न भवनं तस्य । ८ अविनाभावस्यासिद्धः। ९ जीवतः । २० बहिर्जीवनम् । ११ विशेष्यस्यासिद्धिमुद्भावयन्ति । १२ चैत्राभावः। १३ गृहजीवनेन। १४ चैत्रस्य बहिर्जीवनं चैत्राभावविशेषणमित्यस्मिन्पक्षे । १५ जीवनस्य । १६ असिद्धिमेव प्रदर्शयन्ति। १७ बहिः। १८ अन्यप्रदेश। १९ प्रमाणात् । २० विद्वद्भिः। २१ अन्यथा । २२ अर्थापत्तेवैयर्थ्यप्रसङ्गभेव सूचयन्ति । २३ अतोर्थापत्या चैत्रसद्भावपरिकल्पनं व्यर्थम् । २४ जीवनमेव प्रतीयते न तत्सद्भाव इति परेणोक्त जैनः प्राह । २५ मेरुप्रतीत्यभावेपि तद्रूपादिप्रतिपत्तिप्रसङ्गात् । २६ जीवनस्य । २७ दण्डाऽज्ञाने दण्डिशानप्रसङ्गात् । .
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org