________________
सू० १।१०] आत्मप्रत्यक्षत्ववादः
१२९ त्रादिस्वरूपप्रदर्शनपरं नाऽनालम्बनमर्थवत्, अन्यथा 'सुख्यहम्' इत्यादिप्रतिभासस्याप्यनालम्बनॆत्वप्रसङ्गः।
नेनु यथा सुखादिप्रतिभासंः सुखादिसंवेदनस्याप्रत्यक्षत्वेप्युपपनस्तथार्थसंवेदनस्याप्रत्यक्षत्वेयर्थप्रतिभासो भविष्यति इत्यप्यविचारितरमणीयमः सुखादेः संवेदनादर्थान्तरस्वभावस्याप्रतिभा-५ सनादालादनाकारपरिणतज्ञानविशेषस्यैव सुखत्वात् , तस्य चाध्यक्षत्वात् तस्यानध्यक्षत्वेऽत्यन्ताप्रत्यक्षानग्राह्यत्वे च-अनुग्रहोपंघातकारित्वासम्भवः, अन्यथा परकीयसुखादीनामप्यात्मनोऽत्यन्ताप्रत्यक्षज्ञानग्राहाणां तत्कारित्वप्रसङ्गः । ननु पुत्रादिसुखाद्यप्रत्यक्षत्वेपि तत्सद्भावोपलम्भमात्रादात्मनोऽनुग्रहाद्युपलभ्यते १० तत्कथमयमेकान्तः ? इत्यप्यशिक्षितलक्षितम् ; नहि तत्सुखाद्युपलम्भमात्रात् सौमनस्यादिजनिताभिमानिकसुखैपरिणतिमन्तरेणात्मनोऽनुग्रहादिसम्भवः, शत्रुसुखाद्युपलम्भाहुश्चेष्टितादिनी परित्यक्तपुत्रसुखाद्युपलम्भाञ्च तत्प्रसङ्गात् । विग्रेहादिकमतिसनिहितमपि आभिमानिकसुखमन्तरेणानुग्रहादिकं न विदधाति-१५ किमङ्ग पुनरतिव्यवहिताः पुत्रसुखादयः।
अस्तु नाम सुखादेः प्रत्यक्षता, सा तु प्रमाणान्तरेण न स्वतः 'स्वात्मनि क्रियाविरोधात्' इत्यन्यः, तस्यापि प्रत्यक्षविरोधः । ने खलु घटादिवत् सुखाद्यविदितस्वरूपं पूर्वमुत्पन्नं पुनरिन्द्रियेण सम्बद्ध्यते ततो झाँनं ३ ग्रहणं चेति लोके प्रतीतिः। प्रथममेवेष्टी-२०
१ निर्विषय । २ ईप् (सप्तमी)। ३ शब्दद्वारस्य । ४ शब्दोच्चारणपूर्वकत्वात् । ५ भाट्ट। ६ करणशानं प्रत्यक्षमर्थप्रकाशनिमित्तत्वात्प्रदीपवदात्मवदा। ७ अर्धशप्तिनिमित्तत्वादित्यस्य साधनस्यानैकान्तिकत्वम् । ८ करणशानस्य । ९ परिच्छित्तिः । १० दुःखादि । ११ करणशानस्य । १२ करणशानस्य । १३ भिन्न । १४ करण। १५ दुःखात्स्वस्य । १६ स्वस्य । १७ अनैकान्तिकत्वं । १८ प्रमाणमात्रात् । १९ स्वस्य । २० पितुः । २१ कथं । २२ वैमनस्य । २३ आत्मनः आत्मनि । २४ स्वस्य । २५ तातस्य । २६ अन्यथा । २७ अनैकान्तिकत्वपरिहारः कृतः । २८ सुचेष्टित । २९ शरीर । ३० उदासीनपुरुषस्य । ३१ पु(कु)त्र । ३२ विशेषे । ३३ नैयायिको वैशेषिको वा। ३४ अशात । ३५ पश्चात् । ३६ इन्द्रियसम्बन्धात् । ३७ करणरूपमुत्पद्यते । ३८ ज्ञानेन । ३९ परिच्छित्तिरूपं । ४० स्रक्चन्दनादि ।
mm...m
1 "न हि सुखाद्यविदितस्वरूपं पूर्व घटादिवदुत्पन्नं पुनरिन्द्रियसम्बन्धोपजातज्ञा. नान्तराद् वेद्यते इति लोकप्रतीतिः, अपि तु प्रथममेव स्वप्रकाशरूपं तदुदयमासादयदुपलभ्यते।"
सन्मति० टी० पृ० ४७६ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org