________________
१८४
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरिक धर्मी धर्मविशिष्टश्च लिङ्गीत्येतञ्च साधितम् ॥ ने तावदनुमानं हि यावत्तद्विषयं न तत्।"
[मी० श्लो० शब्दपरि० श्लो० ५५-५६] "अथ शब्दोऽर्थवत्त्वेन पक्षः कस्मान्न कल्प्यते ॥ प्रतिज्ञार्थंकदेशो हि हेतुस्तत्र पँसज्यते।"
[मी० श्लो० शब्दपरि० श्लो० ६२-६३] "शब्दत्वं गमकं नात्र गोशब्दत्वं निषेत्स्यते ॥ व्यक्तिरेव विशेष्यातो हेतुश्चैका प्रसज्यते।"
[मी० श्लो० शब्दपरि० श्लो०६४] १. न चार्थान्वयोस्यास्ति व्यापारेण हि सद्भावेन सत्तयेति यावत्। विद्यमानस्य ह्यन्वेतृत्वं, नाविद्यमानस्य । 'यत्र हि धूमस्तत्रावश्यं वह्निरस्ति' इत्यस्तित्वेन प्रसिद्धोऽन्वेती भवति धूमस्य । न त्वेवं शब्दस्यार्थेनान्वयोस्ति, न हि तत्र शब्दाक्रान्ते देशेऽर्थस्य सद्भावः । न खलु यत्र पिण्डखजूरादिशब्दः श्रूयते तत्र पिण्ड१५खर्जूराद्यर्थोप्यस्ति । नापि शब्दकालेऽर्थोऽवश्यं सम्भवति; रावणशङ्खचक्रवर्त्यादिशब्दा हि वर्तमानास्तदर्थस्तु भूतो भविष्यश्चै, इति कुतोऽथैः शब्दस्यान्वेतृत्वम् ? नित्यविभुत्वाभ्याम् तत्त्वे चौतिसङ्गः। तदुक्तम्
"अन्वयो न च शब्दस्य प्रमेयेण निरूप्यते । व्यापारेण हि सर्वेषामन्वेतृत्वं प्रतीयते ॥१॥ यत्र धूमोस्ति तत्राग्निरस्तित्वेनान्वयः स्फुटः। न त्वेवं यत्र शब्दोस्ति तत्रार्थोस्तीति निश्चयः॥२॥
१ अनुमानविषयः । २ स्वग्रन्थापेक्षया। ३ उभयस्य (शाब्दानुमानयोः) उभय(सामान्यविशेष )विषयत्वं यद्यपि तथापि शब्दस्यानुमानरूपता भविष्यतीत्युक्ते सत्याह । ४ धर्मविशिष्टधर्मिविषयम्। ५ शाब्दम् । ६ बौद्धन न समर्थ्यते । ७ गोशब्दस्य नित्यविभुत्वाविशेषाभावात् । ८ खग्रन्थापेक्षया। ९ शब्दखलक्षणा । १० धर्मिणी। ११ शब्दत्वं न गमकं गोशब्दत्वत्य प्रतिषेधो वा यतः। १२ ततश्च प्रतिशार्थैकदेशासिद्धो हेतुरित्यभिप्रायः। १३ अर्थेन सहाविनाभावः। १४ शब्दस्य । १५ शब्दस्य। १६ व्यापारेणेति पदस्य सद्भावेनेति सत्तयेति वा पर्यायशब्दौ। १७ व्यापकत्वमन्वयश्च । १८ व्यापकः । १९ धूमाग्निप्रकारेण । २० इति देशान्वयाभावः। २१ कालान्वयाभावः। २२ अन्वयो व्यापकत्वं वा। २३ गोशब्दादश्वार्थप्रतीति: स्यात् । २४ शब्दस्य सर्वेष्वर्थेष्वनुगमो यतः। २५ सम्बन्धः। २६ विद्वद्भिः। २७ कुतस्तथाहि । २८ सद्भावेन सत्तया वा। २९ अर्थानाम् । ३० धूमाग्निप्रकारेण ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org