________________
१८२
प्रमेयकमलमार्तण्डे
[२. प्रत्यक्षपरि०
विन्ध्यस्य तद्तद्वित्वप्रतिपत्तिरस्ति । परस्पराश्रयानुषङ्गश्च-सिद्ध हि प्रमाणद्वित्वेऽतः प्रमेयद्वित्वसिद्धिः, तस्याश्च प्रमाणद्वित्वसिद्धिरिति । अथान्यतःप्रमाणद्वित्वस्य सिद्धिः, व्यर्थस्तर्हि प्रमेयद्वित्वोपन्यासः। तदप्यन्यदेकं वा स्यात्, अनेकं वा? एकं चेद्विषयसँङ्करः। ५प्रत्यक्षं हि स्खलक्षणाकारमनुमानं तु सामान्याकारम् , तद्दयस्यैकज्ञानवेद्यत्वे सुप्रसिद्धो विषयसङ्करः । अथानेकज्ञानवेद्यम्; तंदप्यपरेणानेकज्ञानेन वेद्यं तदप्यपरेणेत्यनवस्था । . ननु स्खलक्षणाकरिता प्रत्यक्षेणात्मभूतैव वेद्यते सामान्याकारता त्वनुमानेन, तयोश्च स्वसंवेदनप्रत्यक्षसिद्धत्वात् प्रत्यक्षसिद्धमेव १० प्रमाणद्वित्वं प्रमेयद्वित्वं च, केवलम् यस्तथों प्रतिपद्यमानोपि न व्यवहरति स प्रसिद्धेन प्रमेयद्वैविध्येन प्रमाणद्वैविध्यव्यवहारे 4वय॑ते; तदप्यसारम् ; ज्ञानादर्थान्तरस्यानर्थान्तरस्य वा केवलस्य सामान्यस्य विशेषस्य वा क्वचिज्ज्ञाने प्रतिभासाभावात्, उभयाँत्मन एवान्तर्बहिर्वा वस्तुनोऽध्यक्षादिप्रत्यये प्रतिभासमानत्वात् । १५प्रेयोगः-असति बाधके यद्यथा प्रतिभासते तत्तथैवाभ्युपगन्तव्यम् यथा नीलं नीलतया, प्रतिभासते चाध्यक्षादि प्रमाणं सामान्यविशेषात्मार्थविषयतयेति ।
ननु मा भूत्प्रमेयभेदः, तथाप्यागमादीनां नानुमानादर्थान्तरत्वम् । शब्दादिकं हि परोक्षार्थ संम्वद्धम् , असम्बद्धं वा गम२० येत् ? न तावदसम्बद्धम् ; गवादेरप्यश्वादिप्रतिभासप्रसङ्गोत् ।
सम्बद्धं चेत् ; तल्लिङ्गमेव, तजनितं च ज्ञानमनुमानमेव । इत्यप्यसाम्प्रतम् ; प्रत्यक्षस्याप्येवमनुमानत्वप्रसङ्गात्-तदपि हि स्वविषये
१ नरस्य । २ सह्यविन्ध्यपर्वतगत। ३ इतरेतराश्रयपरिहारार्थ परः प्राह । ४ शानात् । ५ किञ्च । ६ तयोः। ७ ज्ञानम् । ८ युगपद्वयोः प्रतिपत्तिविषयसङ्करः। ९ विषयसङ्करः कथमित्युक्ते सत्याह । १० तहीति शेषः। ११ अनवस्था परिहरति परः। १२ प्रत्यक्षस्य । १३ वरूपगतेव। १४ अनुमानस्य । १५ वेद्यते। १६ सामान्यं विशेषं वा। १७ इति । १८ नरः (शिष्यः)। १९ स्वसंवेदनप्रत्यक्षेण प्रमेयद्वित्वं प्रमाणद्वित्वं च। २० प्रमाणं द्विविधं प्रमेयद्वैविध्यादित्यनुमानं प्रदय । २१ आचार्येण । २२ अर्धगतस्य । २३ झानगतस्य । २४ सामान्यविशेषात्मनः । २५ प्रत्यक्षादि प्रमाणं धर्मि सामान्यविशेषार्थविषयत्वेनाभ्युपगन्तव्यं भवतीति साध्यो धर्मः। असति बाधके तथा प्रतिभासमानत्वादिति हेतुः । २६ सम्बद्धार्थविषयत्वात् । २७ आदिशब्देन सादृश्यार्थापत्त्युत्थापकार्थादि । २८ कर्तृ । २९ परोक्षार्थे । ३० परोक्षार्धम् । ३१ गवादिशब्दात् । ३२ असम्बद्धत्वाविशेषात् । ३३ आगमादीनामनुमानत्वप्रकारेण ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org