________________
१८०
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० ऽनुपलब्धेः स्यात् ? सोयं चार्वाकः “प्रमाणस्यागौणत्वादनुमानादर्थनिश्चयो दुर्लभः"[ ] इत्याचंक्षाणः कथमत एवाध्यक्षादेः प्रामाण्यादिकं प्रसाधयेत् ? प्रसाधयन्वा कथमतीन्द्रियेतरार्थविषयमनुमानं न प्रमाणयेत् ? उक्तं च५ "प्रमाणेतरसामान्यस्थितेरन्यधियो गतेः।
प्रमाणान्तरसद्भावः प्रतिषेधाच कस्यचित् ॥" [ ] इति । तम्नानुमानस्याप्रामाण्यम्।।
अस्तु नाम प्रत्यक्षानुमानभेदात्प्रमाणद्वैविध्यमित्यारेकापनोदा. र्थम्
प्रत्यक्षतरभेदात् ॥२॥ इत्याह । न खलु प्रत्यक्षानुमानयोर्व्याख्येयागमादिप्रमाणभेदानामन्तर्भावः सम्भवति यतः सौगतोपकल्पितः प्रमाणसंख्यानियमो व्यवतिष्ठेत।
प्रमेयद्वैविध्यात् प्रमाणस्य द्वैविध्यमेवेत्यप्यसम्भाव्यम् , तदै१५ विध्यासिद्धेः, एक एव हि सामान्यविशेषात्मार्थः प्रमेयःप्रमाणस्य'
इत्यग्रे वक्ष्यते । किश्चानुमानस्य सामान्यमात्रगोचरत्वे ततो विशेषेष्वप्रवृत्तिप्रसङ्गः । न खल्वन्यविषयं ज्ञानमन्यत्र प्रवर्तकम् अतिसङ्गात् । अथ लिङ्गानुमितात्सामांन्याद्विशेषप्रतिपत्तेस्तंत्र प्रवृत्तिः, नन्वेवं लिङ्गादेव तत्प्रतिपत्तिरस्तु किं पैरम्परया ? २० ननु विशेषेषु लिङ्गस्य प्रतिबन्धप्रतिपत्तेरभावात्कथमतस्तेषां प्रतिपत्तिः? तदेतत्सामान्यपि समानम् । अथाप्रतिपन्नप्रतिवन्धमपि सामान्यं तेषां गमकम् । लिङ्गमप्येवंविधं तद्गमकं किन्न स्यात् ?
१ प्रत्यक्षं प्रमाणमगौणत्वात् , अनुमानमप्रमाणं गौणत्वादित्याचक्षाणः । २ आदिपदेनानुमानस्याप्रामाण्यम् । ३ इन्द्रियाण्यतिक्रान्ताः स्वर्गादयः । ते च इतरे च प्रत्यक्षग्राह्या अन्यादयः । अतीन्द्रियेतरे ते च ते अर्थाश्च ते विषया यस्यानुमानस्य तत्। ४ अप्रमाण । ५ त्व। ६ का । ७ परिज्ञानात् । ८ परोक्ष। ९ स्वर्गादेः। १० आह सौगतः। ११ परोक्ष । १२ अपि तु न कुतोपि स्थिति कुर्यात् । १३ चतुर्थाध्याये। १४ (ततोऽनुमानादित्यर्थः) अग्निपरमाणुलक्षणस्वलक्षणेषु । १५ घटविषयं ज्ञानं पटे प्रवर्तकं स्यात् । १६ धूम। १७ अग्निमत्त्वात्। १८ विशेषेषु पुरुषत्वस्य । १९ यथा लिङ्गात्सामान्यस्य प्रतिपत्तिरेवं तेषां विशेषाणाम् । २० प्रयोजनम् । २१ लिङ्गासामान्यप्रतिपत्तिः सामान्याद्विशेषप्रतिपत्तिरिति । २२ विशेषेषु सामान्यस्य प्रतिबन्धप्रतिपत्तेरभावात्कथं ततस्तेषां प्रतिपत्तिरिति । २३ अप्रतिपन्नप्रतिबन्धत्वाविशेषात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org