________________
सू० २।१] प्रत्यक्षैकप्रमाणवादः
१७९ सिद्धप्रतिबन्धं सत् प्रत्यक्षस्य प्रामाण्यमनुमापयेदतिप्रसङ्गात् । प्रतिवन्धप्रसिद्धिश्चानवयवेनाभ्युपगन्तव्या, अन्यथा यस्यामेव प्रत्यक्षव्यक्तौ प्रामाण्येनांगौणत्वादेरसौ सिद्धस्तस्यामेवागौणत्वादेस्तत्सिध्येत्, न व्यत्यन्तरे तत्र तस्यासिद्धत्वात् । न चासौ साकल्येनाध्यक्षात्सिध्येत्तस्य सन्निहितमात्रविषयकत्वात् । अथैकत्र ५ व्यक्तौ प्रत्यक्षेणानयोः सम्बन्ध प्रतिपद्यान्यत्राप्येवंविधं प्रत्यक्ष प्रमाणमित्यगौणत्वादिप्रामाण्ययोः सर्वोपसंहारेण प्रतिबन्धप्रैसिद्धिरित्यभिधीयते; नै अविषये सर्वोपसंहारेण प्रतिपत्तेरयो. गौत् । सर्वोपसंहारेण प्रतिपत्तिश्च नामान्तरेणोह एवोक्तः स्यात् । अग्निधूमादीनां चैवेमविनाभावप्रतिपत्तिः किन्न स्यात् ? येन १० 'अनुमानमप्रमाणमविनाभावस्याखिलपदार्थाक्षेपे प्रतिपत्तुमशक्यत्वात्' इत्युक्तं शोभेत।
किश्चानुमानमात्रस्याप्रामाण्यं प्रतिपादयितुमभिप्रेतम् , अती. न्द्रियार्थानुमानस्य वा? प्रथमपक्षे प्रतीतिसिद्धसकलव्यवहारोच्छेदः । प्रतीयन्ते हि कुतश्चिदविनाभाविनोऽर्थादर्थान्तरं प्रति-१५ नियतं प्रतियन्तो लौकिकाः, न तु सर्वस्मात्सर्वम् । द्वितीयपक्षे तु कथमतीन्द्रिय प्रत्यक्षतरप्रमाणानामगौणत्वादिनों प्रामाण्येतरव्यवस्था? कथं वा परचेतसोऽतीन्द्रियस्य व्यापारव्याहारादिकायविशेषात् प्रतिपत्तिः?, स्वर्गापूर्वदेवतादेस्तथाविधंस्य प्रतिषेधो
१ साध्येनाज्ञाताविनाभावम्। २ शापयेत् । ३ भूभवनवर्द्धितोत्थितस्यापि धूमलिङ्गात्साध्यप्रतिपत्तिः स्यादशातसम्बन्धत्वाविशेषात् । ४ साकल्येन। ५ परेण । ६ साकल्येन प्रतिबन्धसिद्धरनभ्युपगमे । ७ अग्निप्रत्यक्षविशेषे महानसाग्निशाने । ८ सह । ९ अविसंवादित्व । १० अविनाभावः। ११ प्रत्यक्षप्रामाण्यम्। १२ प्रकृतव्यक्तेरन्यव्यक्तौ । १३ घटप्रत्यक्षविशेषे। १४ अविनाभावस्य । १५ अग्निप्रत्यक्षविशेषे । १६ अगौणत्वादिप्रामाण्ययोः साध्यसाधनयोः। १७ अविनाभावम् । १८ घटादिसकलप्रत्यक्षे व्यक्तयन्तरे। १९ अगौणमविसंवादकम् । २० यावत्प्रत्यक्षं तावत्सर्वमगौणमविसंवादकमिति। २१ अविनाभावज्ञप्तिः। २२ परेण। २३ इति चेन्न। २४ स्वीकारेण । २५ अविनाभावस्य । २६ किञ्च । २७ प्रत्यक्षप्रमाणप्रकारेण । २८ स्वीकारेण । २९ भवता। ३० तवेष्टम् । ३१ नाशः । ३२ शायन्ते । ३३ धूमलक्षणात् । ३४ अग्मिलक्षणम् । ३५ जानन्तः। ३६ प्रत्यक्षाणि चेतराणि चानुमानादीनि प्रत्यक्षतराणि अतीन्द्रियाणि च तानि प्रत्यक्षतराणि चातीन्द्रियप्रत्यक्षे. तराणि । तानि च तानि प्रमाणानि च । सन्तानान्तरवत्तित्त्वेन प्रत्यक्षानुमानयोरतीन्द्रियत्वम् । ३७ अविसंवादित्वविसंवादित्वेन । ३८ किञ्च । ३९ शिष्यादिज्ञानस्य । ४० कथं वा । ४१ अदृष्ट । ४२ सर्वज्ञ । ४३ अतीन्द्रियस्य । ..
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org