________________
अथ प्रमाणसामान्यलक्षणं व्युत्पाद्येदानीं तद्विशेषलक्षणं व्युत्पादयितुमुपक्रमते । प्रमाणलक्षणविशेषव्युत्पादनस्य च प्रतिनियतप्रमार्णव्यक्तिनिष्ठत्वात्तदभिप्रायवांस्तद्व्यक्तिसंख्याप्रतिपादनपूर्वकं तलक्षणविशेषमाह -
तद्वेधेति ॥ १ ॥
तत्स्वापूर्वेत्यादिलक्षणलक्षितं प्रमाणं द्वेधा द्विप्रकारम्, सकलप्रमाणभेदप्रभेदानामत्रान्तर्भावविभावनांत् । 'पैरपरिकल्पितैकद्वित्र्यादिप्रमाणसंख्यानियमे तद्घटनात्' इत्याचार्यः स्वयमेवाग्रे प्रतिपादयिष्यति । ये हि प्रत्यक्षमेकमेव प्रमाणमित्याचक्षते न तेषामनुमानादिप्रमाणान्तरस्यान्त्रान्तर्भावः सम्भवति तद्विलक्षण- १० त्वाद्विभिन्नसामग्रीप्रभवत्वाचे ।
१४
। श्रीः ।
२ अथ प्रत्यक्षोद्देशः
ननु चास्याप्रामाण्यान्नान्तर्भावविभावनया किञ्चित्प्रयोजनम् । प्रत्यक्षमेकमेव हि प्रमाणम्, अगौणत्वात्प्रमाणस्य । अर्थनिश्चायकं र्चे ज्ञानं प्रमाणम्, न चानुमानादर्थनिश्चयो घटते- सामान्ये सिद्धसाधनाद्विशेषेऽनुगमाभावात् । तदुक्तम् —
विशेषेऽनुगमाभावः सामान्ये सिद्धसाधनम् [
] इति ।
किञ्च, व्याप्तिग्रहणे पक्षधर्मतावगमे च सत्यनुमानं प्रवर्त्तते । न च व्याप्तिग्रहणमध्यक्षतः अस्य सन्निहितमात्रार्थ ग्राहित्वेनाखिलपदार्थाक्षेपेण व्याप्तिग्रहणेऽ सामर्थ्यात् । नाप्यनुमानतः अस्य व्याप्ति
१ अनन्तरम् । २ कथयित्वा । ३ विशदीकर्तुं । ४ प्रारभते । ५ परिच्छेदावतारः । ६ भेद | ७ आद्यं त्रिविधमन्त्यं पञ्चविधमित्यादिलक्षण | ८ व्यक्तिभेदेपि लक्षणैकत्वमन्तर्भावः । ९ निश्चयनात् । १० कुत एतत् । ११ तदघटनं कथमाचार्यः प्रतिपादयिष्यतीयुक्ते आह । १२ चार्वाकाः । १३ वैशद्यावैशद्य । १४ इन्द्रियलिङ्गे । १५ अनुमानादेः । १६ किञ्च । १७ साध्ये | १८ न हि अग्निमात्रे कस्यचिद्विप्रतिपत्तिरस्ति सामान्याच्च प्रवर्त्तमानः कथं नियतमभिमुखमेवावश्यं प्रवर्त्तेत । १९ यो यो धूमवान् स स तार्णेनाग्निमानित्यन्वयाभावः । २० नानुमानं प्रमाणं स्यान्निश्चयाभावतस्ततः । २१ हेतोः । २२ उत्पद्यते । २३ अभ्याधारधूमाधारमद्दानसादि । २४ स्वीकरणेन । २५ प्रत्यक्षस्य । २६ सर्वत्र धूमोऽग्निना व्याप्तः तदन्वयव्यतिरेकानुविधानात् । २७ व्याप्तिग्रहणम् ।
For Personal and Private Use Only
Jain Educationa International
१५
www.jainelibrary.org