________________
सू० १११३] प्रामाण्यवादः
१७५ वोधकान्तरमुत्पन्नं यद्यस्यान्विच्छतोऽपरम् । ततो मेध्यमबाधेन पूर्वस्येव प्रमाणता ॥ अथान्यदप्रयत्नेन सम्यगन्वेषणे कृते । {लाभावान्न विज्ञानं भवेद्वाधकबाधनम् ॥ ततो निरपवादत्वात्तेनैवौद्यं बलीयसा ।.. बाध्यते तेने तस्यैव प्रमाणत्वमपोद्यते ॥ एवं परीक्षकज्ञानं तृतीयं नातिवर्तते ।
ततश्चाजातबाधेन नाशयं वाधकं पुनः॥" कथं वा चोदनाप्रभवचेतसो निःशङ्क प्रामाण्यं गुणवतो वक्तुरभावेनाऽपवादकदोषाभावासिद्धेः ? ननु वक्तगुणैरेवापवादकदो-१० पाभावो नेष्यते तद्भावेप्यनाश्रयाणां तेषामनुपपत्तेः । तदुक्तम्
"शब्दे दोषोद्भवस्तावद्वक्रधीन इति स्थितम् । तभावः केचित्तावहुणवद्वक्तृकत्वतः॥ तहुणैरेपकृष्टानां शब्दे सङ्क्रान्त्यसम्भवात् । यद्वा वक्तुरभावेन न स्युर्दोषा निराँश्रयाः॥"
[ मी० श्लो० सू० २ श्लो० ६२-६३] इत्यपि प्रलापमात्रमपौरुषेयत्वस्यासिद्धेः । ततश्चेदमयुक्तम्
"तंत्रापाद निर्मुक्तिर्वक्रभावाल्लघीयैसी।। वेदे तेनाप्रमाणत्वं नाशङ्कामपि गच्छति ॥१॥"
[मी० श्लो० सू० २ श्लो० ६८] २० स्थितं चैतच्चोदनाजनिता बुद्धिर्न प्रमाणमनिराकृतदोपकारणप्रभवत्वात् द्विचन्द्रादिबुद्धिवत् । न चैतदसिद्धम् , गुणवतो वक्तुरभावे तत्र दोषाभावासिद्धेः । नाप्यनैकान्तिकं विरुद्धं वा; दुष्ट
१ बाधकप्रत्ययस्य सजातीयसंवादरूपापरबाधकोत्पत्त्यभावेन विजातीयं बाधकान्तरमुत्पद्यते यदा तदा किम् । २ ता । ३ तृतीयशानस्य बाधकं चतुर्थज्ञानं । ४ इच्छामन्तरेण । ५ उत्पद्यते। ६ प्रामाण्य । ७ तृतीयस्य । ८ तृतीयस्थानवत्तिं ज्ञानम् । ९ बाधकस्य द्वितीयज्ञानस्य । १० बाधकशानं न भवेद्यतः। ११ द्वितीयशानेन । १२ शानं। १३ कारणेन। १४ निराक्रियते । १५ द्वितीयज्ञानेन। १६ एवं चेदनवस्था कुतो न स्यादित्युक्ते सत्याह । १७ तृतीयं ज्ञानं नातिवर्तते यतः । १८ नरेण। १९ स्वतः प्रामाण्ये दूषणान्तरम् । २० किञ्च । २१ शानस्य । २२ परेण मया। २३ दोषाणां । २४ वाक्ये। २५ निराकृताना दोषाणाम् । २६ शब्दे । २७ पुरुष। २८ वेदे । २९ अप्रामाण्य । ३० अनाथा ससाध्या । ३१ स्यात् । ३२ कारणेन । ३३ शान । ३४ वेदे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org