________________
१९४
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० अथ प्रमाणान्तरातंदवगमः; तत्किं भूयोदर्शनम् , विपक्षेऽनुपलम्भो वा? आद्यविकल्पे काय भूयोदर्शनम्-साध्यधर्मिणि, दृष्टान्तधर्मिणि वा? न तावदाद्यः पक्षः, शक्तेरतीन्द्रियतया साध्यधर्मिण्यस्य तंदविनाभावित्वेन भूयोदर्शनासम्भवात् । द्वितीयपक्षो५प्यंत एवायुक्तः। किञ्च, दृष्टान्तधर्मिणि प्रवृत्तं भूयोदर्शनं साध्यधर्मिण्यप्यस्यान्यथानुपपन्नत्वं निश्चाययति, दृष्टान्तधर्मिण्येव वा? तत्रोत्तरः पक्षोऽयुक्तः, न खलु दृष्टान्तधर्मिणि निश्चितान्यथानुप• पद्यमानत्वोर्थोऽन्यत्र साध्यधर्मिणि तथात्वेनानिश्चितः खंसाध्यं
प्रसाधयति अतिप्रसङ्गीत् । प्रथमपक्षे तु लिङ्गार्थापत्त्युत्थापकार्थ१० योर्भेदाभावः स्यात्।
ननु लिङ्गस्य दृष्टान्तर्धर्मिणि प्रवृत्तप्रमाणवशात्सर्वोपसंहरिण स्वसाध्यनियतत्वनिश्चयः, अर्थापत्युत्थापकार्थस्य तु साध्यधर्मिण्येव प्रवृत्तप्रमाणात्सर्वोपसंहारेणादृष्टार्थान्यथानुपपद्यमानत्वनि
श्चय इत्यनयोर्भेदः, नैतद्युक्तम्, न हि लिङ्गं सँपक्षानुगममात्रेण १५गमकम् वैज्रस्य लोहलेख्यत्वे पार्थिवत्ववत्, श्यामत्वे तत्पुत्रत्व
वद्वा। किं तर्हि ? 'अन्तर्व्याप्तिवलेन' इति प्रतिपादयिष्यते, तत्र च किं सपक्षानुगमेनेति ? तदभावे गमकत्वमेवास्य कथमिति चेत् ? यथार्थापत्युत्थापकॉर्थस्य । तथा चार्थापत्तिरेवाखिलमनुमानमिति षट्प्रमाणसंख्याव्याघातः। भवतु वा सँपक्षानुगमान२० गमभेदः, तथापि नैतावता तयोर्भेदः, अन्यथा पक्षधर्मत्वसहि
१ अर्थापत्त्युत्थापकार्थाविनाभावावगमः। २ यत्र वृष्टिर्नास्ति स विपक्षस्तस्मिन् । ३ अर्थापत्त्युत्थापकार्थस्य कल्प्याविनाभूतकल्पकस्य । ४ साध्यधर्मो दहनशक्तिलक्षणो. स्याग्नेरस्तीति साध्यधी तस्मिन् । ५ दृष्टान्त एव धर्मी। ६ अग्नौ। ७ दाहस्य साधनस्य । ८ शक्क्या। ९ दृष्टान्ते धर्मिणि शक्तयाविनाभूतस्फोटलक्षणकल्पकाs. दर्शनादेव । १० दाहस्य । ११ शक्तिं विना। १२ शक्तिं विना। १३ दाहः । १४ दाहस्य शक्तिम् । १५ मैत्रपुत्रत्वादेरपि स्वसाध्यं प्रति गमकत्वप्रसङ्गात् । १६ महानसादौ। १७ प्रत्यक्ष । १८ यो यो धूमवान्स सोऽग्निमानिति । १९ अवि. नाभाव । २० पक्षे । २१ अर्थापात्तिरूपात्। २२ यो यः स्फोटः स सर्वोपि शक्तियुक्ताग्निकार्यः । २३ स्फोटस्य । २४ पाषाणकाष्ठादि । २५ अन्वय । २६ वज्रं लोहलेख्यं पार्थिवत्वात्पाषाणवद्यल्लोहलेख्यं न तत्पार्थिवं न, यथाकाशम् । २७ अन्त.
ाप्तिबलेनेति कोर्थः पक्षे एव साध्यसाधनयोर्व्याप्तिरन्तर्व्याप्तिः । २८ एतद्वयमेवानुमानाङ्गं नोदाहरणमित्यादि विचारावसरे। २९ अन्तर्व्याप्तिबलेनैव गमकत्वे च। ३० प्रतिपादयिष्यते। ३१ यथार्थापत्त्युत्थापकस्यान्ताप्तिबलेन गमकत्वं तथा लिङ्गस्यापि । ३२ दाहस्य । ३३ दृष्टान्ताभावे हेतोर्गमकत्वं च। ३४ दृष्टान्ते । ३५ अर्थापत्तः । ३६ अर्थापत्त्यनुमानयोः। ३७ एतावता भेदश्चेत् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org