________________
१७८
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० ग्रहणपुरस्सरत्वात् । तत्राप्यनुमानतो व्याप्तिग्रहणेऽनवस्थेतरेतराश्रयदोषप्रसङ्गः। न चान्यत्प्रमाणं तद्राहकमस्ति । तत्कुतोनुमानस्य प्रामाण्यम् ? इत्यसमीक्षिताभिधानम् । अनुमानादेरप्यध्यक्षवत्प्रतिनियतखविषयव्यवस्थायामविसंवादकत्वेन प्रामाण्यप्रसिद्धः । ५प्रत्यक्षेपि हि प्रामाण्यमविसंवादकत्वादेव प्रसिद्धम् , तच्चान्यत्रापि समानम् अनुमानादिनाप्यध्यवसितेथे विसंवादाभावात् ।
यच्च-अगौणत्वात्प्रमाणस्येत्युक्तम् , तत्रानुमानस्य कुतो [गौणत्वम्,] गौणार्थविषयत्वात् , प्रत्यक्षपूर्वकत्वाद्वा? न तावदाद्यो विकल्पः; अनुमानस्याप्यध्यक्षवास्तवसामान्यविशेषात्मकार्थवि१० षयत्वाभ्युपगमात् । न खलु कल्पितसामान्यार्थविषयमनुमानं
सौगतवजैनैरिष्टम् , तद्विषयत्वस्यानुमाने निराकरिष्यमाणत्वात् । प्रत्यक्षपूर्वकत्वाच्चानुमानस्य गौणत्वे प्रत्यक्षस्यापि कस्यचिदनुमानपूर्वकत्वाद्गौणत्वप्रसङ्गः, अनुमानात्साध्यार्थ निश्चित्य प्रवर्त्त:
मानस्याध्यक्षप्रवृत्तिप्रतीतेः। ऊहाख्यप्रमाणपूर्वकत्वाचास्याध्यक्ष१५ पूर्वकत्वमसिद्धम् ।
यञ्चोक्तम् 'न च व्याप्तिग्रहणमध्यक्षतः' इत्यादिः तदप्युक्तिमा. त्रम् ; व्याप्तेः प्रत्यक्षानुपलम्भबलोद्भूतोहाख्यप्रमाणात्प्रसिद्धः। न च व्यक्तीनामानन्त्यं देशादिव्यभिचारो वा तत्प्रसिद्धर्बाधकः, सामान्यद्वारेण-प्रतिबन्धावधारणात्तस्य चानुगताऽबाधितप्रत्यय२०विषयत्वादस्तित्वम् । प्रसाधयिष्यते च "सामान्यविशेषात्मा तदर्थः” [परीक्षामुख ४-१] इत्यत्र वस्तुभूतसामान्यसद्भावः।
नचोहप्रमाणमन्तरेण 'प्रत्यक्षमेव प्रमाणमगौणत्वात्' इत्याद्यभिधातुं शक्यम् । तथाहि-अगौणत्वमविसंवादित्वं वा लिङ्गं नाप्र. - १ आद्यानुमानेऽपरानुमानेन व्याप्तिप्रतिपत्तौ अनवस्था । आद्यानुमानेन द्वितीयानुमाने व्याप्तिप्रतिपत्तौ इतरेतराश्रयः। २ पक्षधर्मतावगमे च सत्यनुमानं प्रवर्तत इत्युक्तं तत्र पक्षप्रतिपत्तिश्च प्रत्यक्षतोऽनुमानतो वा । न तावत्प्रत्यक्षतः पक्षप्रतिपत्तिरनुमानानर्थक्यप्रसङ्गात् । नाप्यनुमानतः पक्षप्रतिपत्तिरनुमानेपि पक्षप्रतिपत्तिः प्रत्यक्षतोऽनुमानतो वा । न तावत्प्रत्यक्षतः उक्तदोषानुषगात् । नाप्यनुमानतोऽनवस्थाप्रसङ्गात् । कथमनुमानेप्यनुमानात्पक्षप्रतिपत्तिरिति। ३ व्याप्तिग्रहणाभावे सति। ४ ग्रन्थे। ५ उपचरित। ६ परमार्थरूप। ७ अन्यापोहरूप। ८ व्याप्तिशानं प्रत्यक्षम् । ९ नुः। १० ता। ११ किञ्च। १२ साधनम् । १३ अग्निधूमव्यक्तयोऽनन्ता अतः सम्बन्धोवधारयितुं न शक्यः, यो धूमवान् सोऽग्निमान् पर्वत इति देशादिव्यभिचारो वा तज्ज्ञप्तेर्बाधकः। १४ काल । १५ शप्तेः। १६ धूमत्वेनाग्नित्वेन। १७ साध्यसाधनयोरविनाभाव। १८ गौरित्याउनुस्यूत। १९ प्रमाणार्थः। २० किञ्च । २१ सर्वमनुमानमप्रमाणं गौणत्वादित्यादि च । २२ उक्तमेव समर्थयन्ते आचार्याः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org