________________
सू० १।१३ ]
प्रामाण्यवादः
१५३
रादिसामग्रीतो विज्ञानोत्पत्तावप्यनुत्पत्युपगमे विज्ञानस्य स्वरूपं वैक्तव्यम् । न च तद्रूपव्यतिरेकेण तस्य स्वरूपं पश्यामो येन तेंदुपत्तावप्यनुत्पन्नमुत्तरकालं तत्रैवोत्पत्तिमदभ्युपगम्यते प्रामाण्यं भित्ताविव चित्रम् | विज्ञानोत्पत्तावप्यनुत्पत्तौ व्यतिरिक्त सामग्रीतश्चोत्पत्त्यभ्युपगमे विरुद्धधर्माध्यासात्कारण मेदाच्च ५ तयोर्भेदः स्यात् ।
किञ्च, अर्थतथात्वपरिच्छेदरूपा शैक्तिः प्रामाण्यम्, शक्तयच भावानां सत (स्वत) एवोत्पद्यन्ते नोत्पादककारणाधीनः । तदुक्तम्
“स्वतः सर्वप्रमाणानां प्रामाण्यमिति गम्यताम् ।
१९
न हि स्वतोऽसती शक्तिः कर्तुमैन्येन पार्यते ॥”
[मी० श्लो० सू० २ श्लो० ४७ ] न चैतत् सत्कार्यदर्शन समाश्रयणादभिधीयते किन्तु यः कार्यगतो धर्मः कारणे समस्ति स कार्यवैत्तत एवोदयमासादयति यथा मृत्पिण्डे विद्यमाना रूपादयो घटेपि मृत्पिण्डादुपजायमाने १५ मृत्पिण्डरूपादिद्वारेणोपजायन्ते । ये तु कार्यधर्माः कारणेष्वविद्यमाना न ते ततः कार्यवत् जायन्ते किन्तु स्वत एव, यथा तस्यैवोदाहरणशक्तिः । एवं विज्ञानेप्यर्थतथात्वपरिच्छेदशक्तिचक्षुरादिष्वविद्यमाना तेभ्यो नोदयमासादयति किन्तु स्वत एवाविर्भवति । उक्तं च
२०
"आत्मलाभे हि भवानां कारणापेक्षिता भवेत् । लब्धात्मनां स्वकार्येषु प्रवृत्तिः स्वयमेव तु ॥" [मी० श्लो० सू० २ श्लो० ४८ ] यथा - मृत्पिण्डदण्डचक्रादि घटो जन्मन्यपेक्षते । उदकाहरणे त्वस्य तदपेक्षा न विद्यते " ॥ [
]
२५
१ प्रामाण्यस्य । २ जैनैः । ३ वयं मीमांसकाः । ४ विज्ञानस्य । ५ विशाने । ६ भित्तिसद्भावे चित्रं नोत्पद्यते विनष्टे तु भवतीति । ७ प्रामाण्यस्य । ८ प्रामाण्यस्य । ९ विज्ञानस्य कारणमिन्द्रियं प्रामाण्यस्य गुण इति । १० उत्पत्त्यनुत्पत्तिलक्षण । ११ इन्द्रियगुणो । १२ प्रमाणप्रामाण्ययोः । १३ प्रमाणप्रामाण्ये भिन्ने । १४ इति परस्यानिष्टापत्तिः परेणाभेदाभ्युपगमात् । १५ प्रमाणस्य भावशक्तिः । १६ विज्ञानकारणातिरिक्तकारणाधीनो गुणः । १७ भवति । १८ निश्चीयताम् । १९ कारणे । २० स्वरूपेण । २१ विज्ञानकारणातिरिक्तकारणाधीनेन गुणेन । २२ अपरार्द्धस्थम् । २३ साङ्ख्यमत। २४ कारणधर्मादेव । २५ घटलक्षणकार्यस्य । २६ कार्याणां ।
1 "सर्वे हि भावा: स्वात्मलाभायैव करणमपेक्षन्ते । घटो हि मृत्पिण्डादिकं स्वजन्मन्येव अपेक्षते, नोदकाहरणेऽपि । तथा ज्ञानमपि स्वोत्पत्तौ गुणवदितरद्वा करणम
१०
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org