________________
१५९
सू० १११३]
प्रामाण्यवादः तंत्र ज्ञानान्तरोत्पादः प्रतीक्ष्यः कारणान्तरात् । यावद्धि न परिच्छिन्ना शुद्धिस्तावदसत्समा ॥२॥ तस्यापि कारणे शुद्ध तज्ज्ञानस्य प्रमाणता। तस्याप्येवमितीत्थं च न कंचियवतिष्ठते ॥३॥"
[मी० श्लो० सू० २ श्लो० ४९-५१] इति ।५ अत्र प्रतिविधीयते । यत्तावदुक्तम्-'प्रत्यक्षं न तोन्प्रत्येतुं समर्थम्' इति; तंत्रेन्द्रिये शक्तिरूपे, व्यक्तिरूपे वा तेषामनुपलम्मेनाभावः साध्यते ? प्रथमपक्षे-गुणवद्दोषाणामप्यभावः । नहाधाराप्रत्यक्षत्वे आँधेयप्रत्यक्षता नामातिप्रसङ्गात् । अथ व्यक्ति रूपे; तत्रापि किमात्मप्रत्यक्षेण गुणानामनुपलम्भः, परप्रत्यक्षेण १० वा? प्रथमविकल्प दोषाणामप्यसिद्धिः । न ह्यात्मीयं प्रत्यक्षं खचक्षुरादिगुणदोषविवेचने प्रवर्त्तते इत्येतत्प्रातीतिकम् । स्पार्शनादिप्रत्यक्षेण तु चक्षुरादिसद्भावमात्रमेव प्रतीयते इत्यतोपि गुणदोषसद्भावासिद्धिः । अथ परप्रत्यक्षेण ते नोपलभ्यन्ते; तदसिद्धम् ; यथैव हि काचकामलादयो दोषाः परचक्षुषि प्रत्य-१५ क्षतः परेण प्रतीयन्ते तथा नैर्मल्यादयो गुणा अपि ।
जातमात्रस्यापि नैर्मल्याद्युपेतेन्द्रियप्रतीतेः तेषां गुणरूपत्वाभावे जातितैमिरिकस्याप्युपलम्भादिन्द्रियस्वरूपव्यतिरिक्ततिमिरादिदोषाणामप्यभावः । कथं वौँ रूपादीनां घटादिगुणस्वभावता
१ तदा। २ शाब्दलक्षणस्य। ३ अन्वेक्ष्यः। ४ शब्दलक्षणात् । ५ प्रथमशानकारण(नेत्र)स्य । ६ द्वितीयस्य तृतीयज्ञानस्यापि । ७ दोषरहिते। ८ द्वितीयस्य तृतीयस्यापि । ९ शाने। १० जैनः। ११ जैनैः। १२ स्वकारणाश्रितान्गुणान्। १३ ग्रन्थे । १४ गोलके । १५ गुणानाम् । १६ शक्तिरूपे इन्द्रिये । १७ शक्तिरूपेन्द्रियस्य । १८ गुणदोष। १९ अन्यथा आत्मान्तरप्रत्यक्षत्वाभावेपि तज्ज्ञानप्रत्यक्षताप्रसङ्गात् । २० गुणानाम् । २१ गुणाः। २२ प्राणिनः। २३ किन्तु नयनस्वरूपतैव । २४ प्राणिनः । २५ कामलादिकं नयनस्वरूपानतिरेकि जातमात्रस्य नयनविशिष्टत्वेनोपलभ्यमानत्वाद्गुणवत् । २६ न नैर्मल्यादयो गुणा इति । २७ किन्न स्यात् । २८ घटादिरूपादयो धर्मिणो गुणा न भवन्तीति साध्यम् ।।
1"तत्र किमिन्द्रिये परोक्षशक्तिरूपे गुणानां प्रत्यक्षेणानुपलम्भादभावः साध्यते, आहोस्वित् प्रत्यक्षे चक्षुर्गोलकादौ बाह्यरूपे?" स्या० रत्ना० पृ० २४४ ।
2"जातमात्रस्यापि नैर्मल्यादिनेन्द्रियप्रतीते मल्यादीनां गुणरूपत्वाभाव इत्युच्यते; तर्हि जाततैमिरिकस्य जातमात्रस्यापि तिमिरादिपरिकरितेन्द्रियप्रतीतेरिन्द्रियस्वरूपातिरिक्ततिमिरादिदोषाणामप्यभावः कथन्न स्यात् ? कथश्चैवं रूपादीनामपि कुम्भादिगुणस्वभावता उत्पत्तेरारभ्य कुम्मे तेषां प्रतीयमानत्वाविशेषात् ।” स्या० रत्ना० पृ०२४५।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org