________________
१५४
प्रमेयकमलमार्तण्डे [प्रथमपरि० चक्षुरादिविज्ञानकारणादुपजायमानत्वात्तस्य परतोऽभिधाने तु सिद्धसाध्यता। अनुमानादिबुद्धिस्तु गृहीताविनाभावादिलिङ्गादेरुपजायमाना प्रमाणभूतैवोपजायतेऽतोऽत्रापि तेषां न व्यापारः। तन्नोत्पत्तौ तदन्यांपेक्षम् । ५ नापि ज्ञप्तौ, तँद्धि तत्र किं कारणगुणानपेक्षते, संवादप्रत्ययं वा? प्रथमपक्षोऽयुक्तः; गुणानां प्रत्यक्षादिप्रमाणाविषयत्वेन प्रागेवासत्त्वप्रतिपादनात् । संवादज्ञानापेक्षाप्ययुक्ता; तत्खलु समानजातीयम् , भिन्नजातीयं वा ? प्रथमपक्षे किमेकसन्तानप्रैभवम् । भिन्नसन्तानप्रभवं वा? न तावद्भिन्नसन्तानप्रभवम् ; देवदत्तघ१० टशाने यज्ञदत्तघटज्ञानस्यापि संवादकत्वप्रसङ्गात् । एकसन्ता. नप्रभवमप्यभिन्न विषयम् , भिन्नविषयं वा ? प्रथमविकल्पे संवाद्यसंवादकभावाभावोऽविशेषात् । अभिन्नविषयत्वे हि यथोत्तरं पूर्वस्य संवादकं तथेदमप्यस्य किन्न स्यात् ? कथं चास्य प्रमाणत्वनिश्चयः? तदुत्तरकालभाविनोऽन्यस्मात् तथाविधादेवेति १५चेत्, तर्हि तस्याप्यन्यस्मात्तथाविधादेवेत्यनवस्था । प्रथमप्र
माणात्तस्य प्रामाण्यनिश्चयेऽन्योन्याश्रयः । भिन्नविषयमित्यपि वार्तम् । शुक्तिशकले रजतज्ञानं प्रति उत्तरकालभाविशुक्तिका. शकलज्ञानस्य प्रामाण्यव्यवस्थापकत्वप्रसङ्गात् ।
नापि भिन्नजातीयम्; तद्धि किमर्थक्रियाशीनम् , उतान्यत् ? न २० तावदन्यत् घटज्ञानात्पटज्ञाने प्रामाण्यनिश्चयप्रसङ्गात् । नाप्यर्थक्रियाज्ञानम्। प्रोमाण्यनिश्चयाभावे प्रवृत्त्याभावेनार्थक्रियाज्ञाना
१ प्रामाण्यस्य । २ आगम। ३ सङ्केतादि । ४ शब्द। ५ गुणानां । ६ प्रामाण्यं । ७ गुण। ८ प्रामाण्यं । ९ प्रामाण्यस्य । १० अर्थज्ञानेन समाना सदृशा जातिवि(वि)षयो यस्य तत्समानजातीयम् । ११ पुरुष । १२ अन्यथा । १३ भिन्नसन्तानप्रभवत्वाविशेषात् । १४ एकस्य जलज्ञानं जलशानमिति । १५ अभिनविषयस्य । १६ संवादकं । १७ किञ्च । १८ उत्तरज्ञानस्य । १९ द्वितीयज्ञानात् । २० ज्ञानात् । २१ अभिन्नविषयात् । २२ प्रथमप्रमाणादुत्तरस्य निश्चयः उत्तरज्ञानात्प्रथमनिश्चय इति । २३ ज्ञानात् । २४ पूर्वज्ञातं । २५ सदृशविषयत्वेन समानजातीयत्वे सति भिन्नविषयत्वस्याविशेषात् । २६ संवादज्ञानं। २७ द्वितीयविकल्पं प्रत्याह परः। २८ स्लानावगाहनादि । २९ ता। ३० मरीचिकाचके जलज्ञानात्पश्चान्मरीचिकाशानम् । ३१ अन्यथा । ३२ आद्यशानस्य ।
पेक्षतां नाम स्वकार्ये तु विषयनिश्चये अनपेक्षमेव ।"
मी० श्लो० न्यायरत्ना० पृ० ६० । कारिकेयं तत्त्वसंग्रहे (पृ० ७५७) पूर्वपक्षरूपेण वर्तते ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org