________________
१४८
प्रमेयकमलमार्तण्डे [प्रथमपरि० ननु 'येनात्मना ज्ञानमात्मानं प्रकाशयति येन चार्थ तौ चेत्ततोऽभिन्नौ; तर्हि तोवेव न ज्ञानं तस्य तत्रानुप्रवेशात्तत्स्वरूपवत्, ज्ञानमेव वा तयोस्तत्रानुप्रवेशात् , तथा च कथं तस्य खपरप्रकाशनशक्तिद्वयात्मकत्वम् ? भिन्नौ चेत्स्वसंविदितौ, स्वाश्रय५ज्ञानविदितौ वा । प्रथमपक्षे स्वसंविदितज्ञानत्रयप्रसङ्गस्तत्रापि प्रत्येकं स्वपरप्रकाशस्वभावद्वयात्मकत्वे स एव पर्यनुयोगोऽनवस्था च । द्वितीयपक्षेऽपि स्वपरप्रकाशहेतुभूतयोस्तयोर्यदि ज्ञानं तथाविधेन स्वभावद्वयेन प्रकाशकं तीनवस्था । तदप्रकाशकत्वे
प्रमाणत्वायोगैस्तयोर्वा तत्स्वभावत्वविरोध इति' एकान्तादिना१०मुपलम्भो नास्माकम् ; जोत्यन्तरत्वात्स्वभावतद्वतोर्मेदाभेदं प्रत्य
नेकान्तात् । ज्ञानात्मना हि खभावतद्वतोरभेदः, स्वपरप्रकाशैस्वभौवात्मना च भेदै इति ज्ञानमेवाभेदोऽतो भिन्नस्य ज्ञानात्मनोऽप्रेतीतेः । स्वपरप्रकाशस्वभावे च भेदस्तयतिरिक्तयोस्तरप्रतीयमानत्वादियुक्तदोषानवकाशः । कल्पितयोस्तु भेदाभेदैकान्त१५योस्तषणप्रवृत्तौ सर्वत्र प्रवृत्तिप्रसङ्गात् न कस्यचिदिष्टतत्त्वव्यवस्था स्यात् । खैपरप्रकाशस्वभावौ च प्रमाणस्य तत्प्रकाशनसामर्थ्यमेव, तद्रूपतया चांस्य परोक्षता तत्प्रकाशनलक्षण
१ स्वभावेन । २ भवतः। ३ तौ। ४ शानात् । ५ द्वौ स्वभावौ शानं च । ६ प्रत्येकं स्वपरप्रकाशनस्वभावौ भिन्नावभिन्नौ वा । अभिन्नपक्षे प्रागुक्तमेव दूषणं भिन्नपक्षे स्वसंविदितौ स्वाप्रयज्ञानविदितो वेत्यादि । ७ भावयोः। ८ मिनेन । ९ स्वभावद्वयप्रकाशनात् । १० ज्ञानस्य । ११ ज्ञानस्य । १२ शान। १३ भा। १४ परेषां भवताम् । १५ जनानाम् । १६ प्रकारान्तरत्वात् । १७ कश्चिद् भेदाभेदरूपत्वात् । १८ अस्मत्प्रत्यक्षस्य। १९ अनियमात् । २० स्वरूपेण । २१ ईयेकः। २२ वा द्विः। २३ ज्ञानस्य । २४ ता। २५ ता। २६ इति । २७ ज्ञानरूपस्वभावरूपामेदायां । २८ स्वभावतद्वतोः। २९ स्वपरप्रकाशनस्वभावभेदाभेदपक्षयोः । ३० भवत्पक्षे मया योगेन । ३१ सुखात्मनोरभेदो ब्रह्माद्वैतवादिना कल्पितस्तत्राभेदे त्वया दूषणमुद्भाव्यते भेदप्रतिभासो न स्यादेकात्मनि सौगतेन भेदः कल्पितस्तत्र भेदे त्वया दूषणमुद्भाव्यते अनुसन्धानं न स्यादिति । तथापि भेदाभेद. पक्षदूषणं स्यात् । कथं त्वया द्रव्यगुणयोर्भेदोऽभ्युपगतः आत्मन्यभेदस्त्वत्पक्षेपि परेणोदाव्यमानं दूषणं प्रसज्येत । ३२ वस्तुनि । ३३ कारको न झापको शाप्यस्य । ३४ ज्ञानस्य।
-
1 "यच्चान्यदुक्तं येनैवात्मना शानमात्मानं प्रकाशयति तेनैवार्थम् इत्यादि। तदसमीक्षिताभिधानम् ; स्वभावतद्वतोः भेदाभेदं प्रत्यनेकान्तात् ।" न्यायकुमु० पृ० १८९ । स्था० रत्ना० पृ. २३२ । (तत्वाधश्लो० पृ० १२५)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org