________________
सू० ११७] भूतचैतन्यवादः
११९ दिविवर्त्तमवतिष्ठेत सहकारिभावोपंगमे तु तेषों चैतन्येपि सोऽस्तु । यथैव हि प्रथमाविर्भूतपावकादेस्तिरोहितपावकान्तरादिपूर्वकत्वं तथा गर्भचैतन्यस्याविर्भूतखभावस्य तिरोहितचैतन्य पूर्वकत्वमिति।
न चानाघेकानुभवितव्यतिरेकेणेष्टानिष्टविषये प्रत्यभिज्ञानाभि-५ लाषादयो जन्मादौ युज्यन्ते; तेषामभ्यासपूर्वकत्वात् । न च मात्रुदैरेस्थितस्य बहिर्विषयादर्शनेऽभ्यासो युक्तः, अतिप्रसङ्गात् । न चावलग्नावस्थायामभ्यासपूर्वकत्वेन प्रतिपन्नानामप्यनुसन्धानादीनां जन्मादावतत्पूर्वकत्वं युक्तम् ; अन्यथा धूमोऽग्निपूर्वको. दृष्टोप्यनग्निपूर्वकः स्यात् । मातापित्रभ्यासपूर्वकत्वात्तेषामदोषो-१० यमित्यप्यसम्भाव्यम् ; सन्तानान्तराँभ्यासादन्यत्र प्रत्यभिज्ञानेऽतिप्रसङ्गात् । तदुपलब्धे 'सर्व मैयैवोपलब्धमेतत्' इत्यनुसन्धानं चौखिलापत्यानां स्यात् । परस्परं वा तेषां प्रत्यभिज्ञानप्रसङ्गः स्यात्, एकसैंन्तानोद्भूतदर्शनस्पर्शनप्रत्ययवत् ।
'ज्ञानेनाहं घटादिकं जानामि' इत्यहम्प्रत्ययप्रसिद्धत्वाश्चात्मनो १५ नॉपलापो युक्तः । अत्र हि यथा कर्मतया विषयस्यावभासस्तथा कर्तृतयात्मनोपि। न चाँत्र देहेन्द्रियादीनां कर्तृता; घटादिवत्तेषामपि कर्मयाऽवभासनात्, तदप्रतिभासनेप्यहम्प्रत्ययस्यानुभवात् । न हि बहलतमःपटलपटावगुण्ठितविग्रॅहस्योपरतेन्द्रिय
१ बसः । २ परेण । ३ अनि प्रत्यरणिरूपपृथ्व्यादीनाम्। ४ दधि । ५ शक्तिरूपस्थित । ६ उपादान । ७ शक्तिरूपस्थित । ८ उपादान । ९ किञ्च । १० आत्म । ११ संस्कार । १२ बालकस्य । १३ त्रिविप्रकृष्टेप्यर्थेऽभ्यासो भवत्वदर्शनाविशेषात् । १४ मध्यमावस्थायां । १५ प्रत्यभिज्ञानादीनाम् । १६ अनभ्यास । १७ अपत्यस्य । १८ मातापितृलक्षण। १९ अपत्ये । २० वस्तुनि। २१ अपत्येन । २२ किञ्च । २३ एकापत्येन दृष्टेऽर्थे द्वितीयापत्यस्य प्रत्यभिज्ञानप्रसङ्गः स्यात्। २४ आत्मलक्षण । २५ किञ्च । २६ निवः। २७ ज्ञानेनाहं घटादिकं जानामीति प्रत्यये । २८ ज्ञानेनाहं घटादिकं जानामीति प्रत्यये। २९ देहेन्द्रियादिकं जानामि । ३० नरस्य । 1 "पूर्वानुभूतस्मृत्यनुबन्धाजातस्य हर्षभयशोकसम्प्रतिपत्तेः।"
न्यायसू० ३।१।१९ । न्यायमं० पृ० ४७० । "जातिस्मराणां संवादादपि संस्कारसंस्थितेः। अन्यथा कल्पयंल्लोकमतिकामति केवलम् ॥ नाऽस्मृतेऽभिलाषोऽस्ति न विना सापि दर्शनात् । तद्धि जन्मान्तरान्नायं जातमात्रेऽपि लक्ष्यते ॥"
न्यायविनि० २।७९,८० । न्यायकुमु० पृ० ३४७ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org