________________
सू० ११७] अचेतनज्ञानवादः नावधारयत्ययोगोलकादिवानेः । न चात्रापि भेदो नास्तीत्यभिधातव्यम् ; उभयंत्र रूपस्पर्शयोर्भेदप्रतीतेः । अयोगोलकस्य हि वृत्तसन्निवेशः कठिनस्पर्शश्वान्योऽग्नि(
ग्नेर्भासुररूपोष्ण पर्शाभ्यां प्रमाणतः प्रतीयते । ततो यथात्राँऽन्योऽन्यानुप्रवेशलक्षणसंसर्गाद्विभागप्रतिपत्त्यभावस्तथा कृतेपीत्यप्यसाम्प्रतम् वह्नययोगोल-५ कयोरप्यभेदात् । अयोगोलकद्रव्यं हि पूर्वाकारपरित्यागेनाग्निसनिधानाद्विशिष्टरूपस्पर्शपर्यायाधारमेकमेवोत्पन्नमनुभूयते आमाकारपरित्यागेन पाकाकाराधारघटद्रव्यवत् । कथं तर्हि तस्योत्तरकालं तत्पर्यायाधारताया विनाशप्रतीतिः? इत्यप्यचोद्यम्। उत्पत्त्यनन्तरमेव तद्विनाशाप्रतीतेः। किञ्चिद्ध्योपाधिकं वस्तुरूप-१० मुपोध्यपायानन्तरमेवापैति, यथा जपापुष्पसन्निधानोपनीतस्फटिकरक्तिमा । किञ्चित्तु कालान्तरे, मनोज्ञाङ्गनादिविषयोपनीतात्मसुखादिवत् । सकलभाँवानां स्वतोऽन्यतश्च निवर्त्तनप्रतीतेः । तन्नाग्ययोगोलकयोर्भेदः।
तद्वदिहोप्येकस्मिन् स्वपरप्रकाशात्मपर्यायेऽनुभूयमाने नान्य-१५ सद्भावोऽभ्युपगन्तव्यः, अन्यथा न केचिदेकत्वव्यवस्था स्यात् । सकलव्यवहारोच्छेदप्रसङ्गश्च; अनिष्टार्थपरिहारेणेष्टे वस्तुन्येकस्मिन्ननुभूयमानेप्यन्यसद्भावाशङ्कया क्वचित्प्रवृत्त्योद्यभावात् । ततोऽबाधितैकत्वप्रतिभासादपरपरिहारेणावभासमाने वस्तुन्ये
१ निश्चिनोति । २ अयोगोलकात्योः । ३ जैनेन भवता । ४ अयोगोलकाम्योः । ५ वर्तुलाकारः। ६ प्रत्यक्षात् । ७ अयोगोलकाम्योः । ८ मेद । ९ बुद्धिचैतन्ये (तन्ययोः)। १० कृष्णत्वादिलक्षण । ११ अयोगोलस्य । १२ करण । १३ विनाश । १४ अपगच्छति । १५ उपाध्यपाये सति । १६ अपैति । १७ स्वक्चन्दनादि । १८ पदार्थ । १९ परिणमन । २० चूतफलादिवत् । २१ अयोगोलकवत् । २२ बुद्धिचैतन्ये (तन्ययोः)। २३ स्वयम् । २४ चैतन्य । २५ परेण । २६ विषये । २७ कथम् । २८ अहिकण्टकादि । २९ वनितादौ । ३० अहिकण्टकादि । ३१ विषये । ३२ निवृत्ति ।
अनुष्णाशीतो घटः शीताभिरद्भिः संसृष्टः शीतो भवति, अग्मिना संयुक्त उष्णो भवति, एवं महदादिलिङ्गमचेतनमपि भूत्वा चेतनावद् भवति ।"
___ माठरवृत्ति, गौडपादभा० । 1 "वह्नययोगोलकयोरपि अन्योन्यं भेदाभावात् । अयोगोलकद्रव्यं हि पूर्वकारपरित्यागेन अग्निसन्निधानाद् विशिष्टरूपस्पर्शपर्यायाधारमेकमेवोत्पन्नमनुभूयते आमाकारपरित्यागेन पाकाकाराधारघटद्रव्यवत् ।"
न्यायकुमु० पृ० १९३ । स्या० रत्ना० पृ. २३७।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org