________________
प्रमेयकमलमार्तण्डे [प्रथमपरि० किञ्चिदेव प्रतिपद्यते न सर्वमिति विभागः किं नेष्यते ? अन्योन्याश्रयदोषैश्चोभयंत्र समानः। किञ्च, प्रतिनियतघटादिवत्सकलं वस्तु निखिलज्ञानस्य कारणं खाकारार्पकं वा किन्न स्यात् ? वस्तुसामर्थ्यात् किश्चिदेव कस्यचित् कारणं न सर्व सर्वस्येति चेत्; ५ तर्हि तत एव किञ्चित्कस्यचिद्राह्य ग्राहकं वा न सर्व सर्वस्येत्यलं प्रतीत्यपलापेन ।
प्रमाणत्वाचास्य तदभावः। अर्थाकारानुकारित्वे हि तस्य प्रमेयरूपतापत्तेः प्रमाणरूपताव्याघातः, न चैवम् , प्रमाणप्रमेययोर्बहि
रन्तर्मुखाकारतया भेदेन प्रतिभासनात् । न चाध्यक्षेण ज्ञान१० मेवाऽर्थाकारमनुभूयते न पुनर्बाह्योऽर्थ इत्यभिधांतव्यम् । ज्ञानरू
पतया बोधस्यैवाध्यक्षे प्रतिभासनानार्थस्य । न ह्यनहङ्कारास्पदत्वेनार्थस्य प्रतिभासेऽहङ्कारास्पबोधरूपवत् ज्ञानरूपता युक्ता, अहङ्कारास्पदत्वेनार्थस्यापि प्रतिभासोपेगमे तु 'अहं घटः' इति प्रतीतिप्रसङ्गः । न चान्यथाभूता प्रतीतिरन्यथाभूतमर्थ व्यवस्था१५ पयति; नीलप्रतीतेः पीतादिव्यवस्थाप्रसङ्गात्।
बोधस्यार्थीकारतां मुक्त्वार्थेन घटयितुमशक्तेः 'नीलस्यायं बोधः' इति, निराकारबोधस्य केनचित्प्रत्यासत्तिविप्रकर्षासिद्धेः सर्वार्थर्घटनप्रेसङ्गात्सर्वैकेंवेदनापत्तेः प्रतिकर्मव्यवस्था ततो न स्यादित्यर्थाकारो बोधोऽभ्युपेगन्तव्यः । तदुक्तम्
१ बस्तु । २ परेण ३ नियतार्थप्रतिपत्तौ नियतस्वभावसिद्धिस्तत्सिद्धौ च नियतार्थप्रतिपत्तिसिद्धिरिति, नियतनीलाकारानुकरणे च सिद्ध नियतानुकरणयोग्यतासिद्धिर्शनस्य तत्सिद्धौ च नियतनीलाकारानुकरणसिद्धिरिति । ४ नियतार्थग्रहणानुकरणयोः । ५ कस्यचित्पदार्थस्य । ६ किञ्च। ७ अर्थाकारानुकारित्वाभावः। ८ अस्तूभयं का 'नो हानिरिति चेत् । ९ इन्द्रिय। १० परेण । ११ अर्थस्य बोधरूपतया। १२ परेण । १३ अन्यथा। १४ पदार्थेन । १५ ताद्रूप्यतदुत्पत्तिलक्षणसम्बन्ध । १६ तदभाव । १७ ईप ( सप्तमी)। १८ निराकारबोधस्य सम्बन्धात् । १९ सम्बन्ध । २० सर्वार्थानाम् । २१ पटज्ञानस्य पटो विषयो घटशानस्य घट इत्यादि । २२ जैनेन भवता।
1 "प्रमाणरूपताविरोधानुषङ्गश्च ।"
न्यायकुमु० पृ० १६८। 2 "तदाकारं हि संवेदनमर्थ व्यवस्थापयति नीलमिति पीतश्चेति ।"
प्रमाणवा० अलं पृ० २। "किमर्थ तर्हि सारूप्यमिष्यते प्रमाणम् ? क्रियाकर्मव्यवस्थायास्तल्लोके स्यान्निबन्धनम् ।."सारूप्यतोऽन्यथा न भवति नीलस्य कर्मणः संवित्तिः पीतस्य वेति क्रियाकर्मप्रतिनियमामिष्यते ।"
प्रमाणवा० अलं पृ० ११९ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org