________________
प्रमेयकमलमार्तण्डे
[प्रथमपरि०
गुणदोषाणां च सद्भावं ज्ञानजनकत्वं च स्वतःप्रामाण्यप्रतिषेधप्रस्तावे प्रतिपादयिष्यामः। न च प्रभाकरमते विवेकाख्यातिः सम्भवति, तत्र हि 'इदम्' इति प्रत्यक्षं 'रजतम्' इति च स्मरणमिति संवितिद्वयं प्रसिद्धम् , तच्चाऽऽत्मप्राकट्येनैवोत्पद्यते । ५आत्मप्राकट्यं चान्योन्यभेदग्रहणेनैव संवेद्यते घटपटादिसंवित्तिवत् । किञ्च, विवेकख्यातेः प्रागभावो विवेकाख्यातिः । न चाभावः प्रभाकरमतेऽस्ति।
कश्चायं स्मृतेः प्रमोषः-किं स्मृतेरभावः, अन्यावभासो वा स्यात्, विपरीताकारंवेदित्वं वा, अतीतकालस्य वर्तमानतया १० ग्रहणं वा, अनुभवेन सह क्षीरोदकवदविवेकेनोत्पादो वा प्रकारान्तरासम्भवात् ? तत्र न तावदाद्यः पक्षः; स्मृतेरभावे हि कथं पूर्वदृष्टरजतप्रतीतिः स्यात् ? मूर्छाद्यवस्थायां च स्मृतिप्रमोषव्यपदेशः स्यात् तदभावाविशेषात् । अथात्र 'इदम्' इति भासाभा
वान्नासौ; नेनु 'इदम्' इत्यत्रापि किं प्रतिभातीति वक्तव्यम् ? १५पुरोव्यवस्थितं शुक्तिकाशकलैंमिति चेत्, नैनु खंधर्मविशिष्टत्वेन
तत्तत्र प्रतिभाति, रजतसन्निहितत्वेन वा? प्रथमपक्षे-कुतः स्मृतिप्रमोषः? शुक्तिकाशकले हि स्वगतधर्मविशिष्टे प्रतिभासमाने कुतो रजतस्मरणसम्भवो यतोऽस्य प्रमोषः स्यात् ? न खलु
१ किं च। २ ता (षष्ठी)। ३ भेदाप्रतिभास इत्यर्थः । ४ शानद्वयं। ५ स्वरूप। ६ आविर्भाव । ७ भेदस्याप्रतिभासः। ८ अभावः। ९ मर्यमाणाद्र जतादन्यस्य शुक्तिकाशकलस्यावभासः। १० स्मर्यमाणाद्रजतादस्पष्टाकारात्स्पष्टाकारः। ११ अतीतः कालो यस्य रजतस्य तदिदमतीतकालं तस्यातीतकालस्य रजलस्य । १२ प्रत्यक्षेण सह स्मृतेः। १३ स्मृतेरभेदेन । १४ अन्यथा। १५ स्मृतेः ? ( मूर्छायवस्थायाम् )। १६ जैममाशङ्कते प्राभाकरः। १७ प्रष्टव्यम् । १८ प्राभाकराभिप्रायः । १९ भो प्राभाकर। २० व्यस्रचतुरस्रादि । २१ सम्बद्धत्वेन। २२ न कुतोमि स्मृतिप्रमोषो भवेत् । २३ व्यस्रादि । २४ न कुतोपि ।
1तु.-"कोऽयं विप्रमोषो नाम-किमनुभवाकारस्वीकरणम् , सरणाकारमध्वंसो वा, पूर्वार्धगृहीतित्वं वा, इन्द्रियार्थसन्निकर्षजत्वं वा, इन्द्रियार्थसन्निकाजत्वं वा?"
तत्त्वोपप्लव लि. पृ० २५ । "कोऽयं स्मृतेः, प्रमोषोनाम-विनाशः, प्रत्यक्षेण सहैकत्वाध्यवसायाः, प्रत्यक्षमा सापत्तिः, तदित्यंशस्याऽनुभवः, तिरोभावमात्रं वा" न्यायकुमु० प्र० परि० ।
स्था० रना० १० ११०॥ "किं स्मृतेरमावः, उत अन्यावमासः, आहोखिदन्याकारवेदित्वम् इति विकल्पाः"
• सन्मति०टी० पु० २८ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org