________________
प्रमेयकमलमार्त्तण्डे
[ प्रथमपरि०
समानविषयस्य संवादकत्वमेव न बाधकत्वम् । न खलु प्राक्तन घटज्ञानमुत्तरेण तद्विषयज्ञानेन बाध्यते । भिन्नविषयस्य बाधकत्वे चातिप्रसङ्गः । अर्थोऽपि प्रतिभातः, अप्रतिभातो वा बाधकः स्यात् । तत्राद्यविकल्पोऽयुक्तः प्रतिभातो ह्यर्थः खज्ञानस्य सत्य५ तामेवावस्थापयति, यथा पटः पटज्ञानस्य । द्वितीयविकल्पेऽपि 'अप्रतिभातो बाधकञ्च' इत्यन्योन्यविरोधः । न हि खरविषाणमप्रतिभातं कस्यचिद्बाधकम् । किञ्चे, कैचित्कदाचित्कस्यचिद्वाध्यबाधकभावाभावाभ्यां सत्येतरत्वव्यवस्था, सर्वत्र सर्वदा सर्वस्य वा ? प्रथमपक्षे - सत्येतरत्वव्यवस्थासङ्करः; मरीचिकाचक्रादौ १० जलादिसंवेदनस्यापि क्वचित्कदाचित्कस्यचिद्वाधकस्यानुत्पत्तेः सत्यसंवेदने तूत्पत्तेः प्रतीयमानत्वात् । द्वितीयपक्षे तु-सकलदेशकालपुरुषाणां बाधकानुत्पत्युत्पत्त्योः कथमसर्वविदा वेदनं तत्प्रतिपत्तुः सर्ववेदित्वप्रसङ्गात् ?
७६
इत्यप्यनल्पतमोविलसितम् ; रजतप्रत्ययैस्य शुक्तिकाप्रत्ययेनो१५ त्तरकालभाविनैकविषैयतया बौध्यत्वोपलम्भात् । ज्ञानमेव हि विपरीतार्थख्यापकं बाधकमभिधीयते, प्रतिपादितासदर्थ ख्यापनं तु बाध्यम् । ननु चैतद्गतसर्पस्य वृष्टिं प्रति यष्ट्यभिहननमिवाभासते, यतो रजतैशानं चेदुत्पत्तिमात्रेण चरितार्थ किं तस्याऽतीतस्य मिथ्यात्वापादनलक्षणयापि बाधया ? तदसत् एतदेव हि २० मिथ्याज्ञानस्यातीतस्यापि बाध्यत्वम् - यदस्मिन् मिथ्यात्वापदनम् केचित्पुनः प्रवृत्तिप्रतिषेधोऽपि फलम्, अन्यथा रजतज्ञानस्य बाध्यत्वासम्भवे शुक्तिकादौ प्रवृत्तिरविरता प्राप्नोति । कथं
२१
१ एक । २ अप्रतिभातत्वबाधकत्वयोः । ३ विषये । ४ असत्यत्व । ५ शानस्य । ६ शानस्य । ७ एकत्रानेकेषां युगपत्प्राप्तिः सङ्करः । ८ आदिपदेन शुक्तिका । ९ रजतादि । १० अज्ञान । ११ प्रभाचन्द्रदेवः परं प्रति ब्रूते । १२ इदं रजतमिति ज्ञानस्य । १३ शुक्तिकैकविषयः । १४ रजतादि । १५ उत्तरम् । १६ शुक्तिशकले प्रतिभातरजताद्विपरीतोऽर्थः शुक्तिशकलम् । १७ शुक्तिकैकविषयख्यापकम् । १८ उत्तरज्ञानेन । १९ बोधित । २० बोधितमसदर्थख्यापन ( प्रतिपादन ) मसदर्थग्रहणं यस्य पूर्वशानस्य । २१ बाध्यबाधकभावलक्षणम् । शुक्तिविषयप्रत्ययः उत्तरकालभावी बाधकः इति प्रतिपादनम् । २३ मिथ्याज्ञानं । २४ प्रयोजनम् । २५ प्रथमज्ञाने । २६ उत्तरज्ञानेन । २७ विषये । २८ मिथ्यावापादनाभावे ।
२२ रजतप्रत्ययस्य
1 "बाधाविरहः किं सर्वपुरुषापेक्षया आहोस्वित्प्रतिपत्र पेक्षया ?"
Jain Educationa International
तत्त्वोप० पृ० ३ ।
For Personal and Private Use Only
www.jainelibrary.org