________________
७८
प्रमेयकमलमार्तण्डे [प्रथमपरि० विज्ञप्तिमात्रस्याप्यभावानुषङ्गात् । न च तैमिरिकप्रतिभासे प्रतिभासमानेन्दुद्वयवनिर्मलमनोऽक्षप्रभवप्रतिभासविषयस्याप्यसत्त्व. मित्यभिधातव्यम् । यतस्तैमिरिकप्रतिभासविषयस्यार्थस्य बाध्यमानप्रत्ययविषयत्वादसत्त्वं युक्तम्, न पुनः सत्यप्रतिभासविषय५स्याऽवाध्यमानप्रत्ययविषयत्वेन सत्त्वसम्भवात् । बाध्यबाधकभावश्चानन्तरमेव ब्रह्माद्वैतप्रघट्टके प्रपञ्चितः। तन्नार्थाभावोऽध्यक्षेणाधिगम्यः।
नाप्यनुमानेन अध्यक्षविरोधेऽनुमानस्याप्रामाण्यात् । “प्रत्यक्षनिराकृतो न पक्षः" [ ] इत्यभिधानात् । न च बाह्यार्था१० वेदकाध्यक्षस्य भ्रान्तत्वान्न तेनानुमानबाधेत्यभिधातव्यम् ; अन्योऽन्याश्रयात्-सिद्धार्थाभावे तद्रोह्यध्यक्षंभ्रान्तं सिद्ध्येत् , तत्सिद्धौ चार्थाभावानुमानस्य तेनाऽबाँधेति । किञ्च, तदनुमानं कार्यलिङ्गप्रभवम् , स्वभावहेतुसमुत्थं वा, अनुपलब्धिप्रसूतं वा? न ताव
प्रथमद्वितीयविकल्पो; कार्यस्वभावहेत्वोर्विधिसाधकत्वाभ्युप१५ गमात्। “अत्र द्वौ वस्तुसाधनौ" [न्यायबि० पृ० ३९] इत्यभिधानात्। तृतीयविकल्पोप्ययुक्तः, अनुपलब्धेरसिद्धत्वाद्बाह्यार्थस्याध्यक्षादिनोपलम्भात् । किञ्च, अदृश्यानुपलब्धिस्तदभावसाधिका स्यात् , दृश्यानुपलब्धिर्वा ? प्रथमपक्षेऽतिप्रसङ्गः। द्वितीयपक्षे तु
सर्वत्र सर्वदा सर्वथार्थाभावाऽप्रसिद्धिः, प्रतिनियतदेशादीवेवा२० स्यास्तभावसाधकत्वसम्भवात् ।
एतेन बहिरर्थसद्भावबाधकप्रमाणावष्टम्भेन विज्ञप्तिमात्रं तत्त्वमभ्युपगम्यत इत्येतन्निरस्तम्। तत्सद्भाववाधकप्रमाणस्योक्तप्रकारेणासम्भवात् ।
१ यत्प्रतिभासते तदस्तीति अनैकान्तिको न । (१) २ प्रतिभासमानत्वाविशेषात् । ३ शान। ४ बाद्यार्थस्य । ५ परेण । ६ नेमो द्वौ चन्द्रौ। ७ शानाद्वैतवादिनां बाध्यबाधकभावो नास्तीत्युक्ते आह। ८ पूर्व। ९ मा (तृतीया, तृतीयासमास इत्यर्थः)। १० परेण । ११ अनुमानात् । १२ अर्थ। १३ सिद्धा। १४ अस्तित्व । १५ त्रिषु हेतुषु मध्ये । १६ पिशाचादेरप्यभाबसाधिका। १७ कालप्रकार । १८ बहिराभावसाधकप्रमाणनिराकरणपरेण ग्रन्थेन ।
1 "नाप्यनुमानं बाह्याभावमावेदयति, प्रत्यक्षाभावे तस्यायोगात् । न च प्रत्यक्षविरोधे अनुमानप्रामाण्यं संभवति 'प्रत्यक्षनिराकृतो न पक्षः' इति वचनात् ।"
सन्मति० टी० पृ० ३५१ । 2 "स्वरूपेणैव स्वयमिष्टोऽनिराकृतः पक्ष इति । (पृ० ७९) अनिराकृत इति । एतल्लक्षणयोगेऽपि यः साधयितुमिष्टोऽप्यर्थः प्रत्यक्षानुमानप्रवीतिस्ववचनैर्निराक्रियते न स पक्ष इति प्रदर्शनार्थम् ।" न्यायबि० पृ. ७९,८३ ।
-
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org