________________
८४
[ प्रथमपरि०
श्चेत्; स्वरूपमात्रप्रकाश निमग्नत्वाद्बहिरर्थप्रकाशकत्वाभाव एंव स्यात् । परतश्चेदनवस्था; तस्यापि ज्ञानान्तरेण ग्रहणात् । न च पूर्वज्ञानाग्रहणेप्यर्थस्यैव ज्ञानान्तरेण ग्रहणमित्यभिधार्तव्यम्; तस्यासन्नत्वेन जनकत्वेन च ग्राह्यलक्षणप्राप्तत्वात् । तदाह५ " त ग्राह्यलक्षणप्राप्तामासन्नां जनिकां धियम् ।
१४
अगृहीत्वोत्तरं ज्ञानं गृह्णीयादपरं कथम् ॥” [ प्रमाणवा० ३।५१३] अगृहीतश्चेद्राहकोऽतिप्रसङ्गः । न च निर्व्यापारो बोधोऽर्थनाहकः अर्थस्यापि बोधं प्रति ग्राहकेत्वानुषङ्गात् । व्यापारवत्त्वे चातोऽव्यतिरिक्तो व्यापारः, व्यतिरिक्तो वा ? आद्यविकल्पे-बोध१० स्वरूपमात्रमेव नापरो व्यापारः कश्चित् । न चानयोरभेदो युक्तः; धर्मधर्मितया भेदप्रतीतेः । द्वितीयविकल्पे तु सम्बन्धासिद्धिः; ततस्तस्योपकाराभावात् । उपकारे वानवस्था तन्निर्वर्तने व्यापारस्यापरव्यापारपरिकल्पनात् । निराकारत्वे वा बोधस्यः अतः प्रतिकर्मव्यवस्था न स्यात् । साकारत्वे वा - बाह्यार्थपरिकल्पना१५ नर्थक्यं नीलाद्याकारेण बोधेनैव पर्याप्तत्वात् । तदुक्तम्
१५
२०
प्रमेयकमलमार्त्तण्डे
२१
"धियो (योs)लादिरूपत्वे बाह्योऽर्थः किन्निबन्धनः । धियो (यो) नीलादिरूपत्वे बाह्योऽर्थः किन्निबन्धनः ॥ १ ॥" [ प्रमाणवा० ३।४३१] तथा न भिन्नकालोऽसौ तेड्राहकः; बोधेन स्वकालेऽविद्यमानार्थस्य २० ग्रहणे निखिलस्य प्राणिमात्रस्याशेषज्ञत्वप्रसङ्गात् । नापि सम
રહ
-
१ अहम्प्रत्ययस्य । २ द्वितीयेन । ३ जैनैः । ४ पूर्वशानस्य । ५ उत्तरशानस्य । ६ प्राक्तनीं । ७ कर्तृ । ८ नीलादिकम् । ९ नाशातं शापकं नाम । १० देवदत्तशानं जिनदत्तेमाशातं सत् जिनदत्तस्यार्थग्राहकं भवेत् । ११ अन्यथा । १२ निर्व्यापारत्वा
विशेषात् । १३ बोधात् । १४ बोधव्यापारयोः । १५ स्वरूप । १६ बोध
I
१७ बोधस्यायं व्यापार इति । १८ व्यापारात् । १९ बोधस्य । २० घटशानस्य घटः पटज्ञानस्य पटो विषयः, इति प्रतिनियतविषय | २१ ज्ञानस्य । २२ निराकारत्वे । २३ ग्राहकव्यवस्थापकाभावात् । २४ किम्प्रयोजनः । किं निबन्धनं निमित्तं व्यवस्थापकं यस्य बाह्यार्थस्य सः । २५ नीलादि । २६ अन्यथा ।
I " न च पूर्वज्ञानाग्रहणेऽपि अर्धस्यैव ग्रहणमिति वाच्यम्, तेषामासन्नत्वे सति ग्राह्यलक्षणप्राप्तत्वात् । तदाह - तां ग्राह्यलक्षण व्योमवती पृ० ५२४ /
2
Jain Educationa International
“धियोऽसितादिरूपत्वे सा तस्यानुभवः कथम् ।
धियः सितादिरूपत्वे बाह्योऽर्थः किं प्रमाणकः ॥ २०५१ ॥”
तत्त्वसं० ० पृ० ५७४ ।
For Personal and Private Use Only
www.jainelibrary.org