________________
८६
प्रमेयकमलमार्तण्डे [प्रथमपरि० निमात्राभ्युपंगमे कथम् ? इत्यप्यपेशलम् ; तैमिरिकस्य द्विचन्द्रदर्शनवदस्या अप्युपपत्तेः । यथा हि तस्यार्थाभावेपि तदाकारं ज्ञानमुदेत्येवं कर्मादिष्वविद्यमानेष्वपि अनाद्यविद्यावासनावशात्तदाकारं ज्ञानमिति। ५ अत्र प्रतिविधीयते। यत्तावदुक्तम्-'अहंप्रत्ययो गृहीतोऽगृहीतो वा' इत्यादिः तत्र गृहीत एवार्थग्राहकोऽसौ, तनहँश्च स्वत एव । न च खतोऽस्य ग्रहणे स्वरूपमात्रप्रकाश निमग्नत्वाद्वहिरर्थप्रकाशकत्वाभावः, विज्ञानस्य प्रदीपवत्स्वपरप्रकाशस्वभावत्वात् ।
यच्चोक्तम्-'निर्व्यापारः सव्यापारो वेत्यादिः तदप्युक्तिमात्रम् । १० स्वपरप्रकाशस्वभावताव्यतिरेकेण ज्ञानस्य स्वपरप्रकाशनेऽपरव्या
पाराभावात्प्रदीपवत् । न खलु प्रदीपस्य स्वपरप्रकाशस्वभावताव्यतिरेकेणान्यस्तत्प्रकाशनव्यापारोऽस्ति । न च ज्ञानरूपत्वे नीलादेः सप्रतिघांदिरूपता घटते । न च तद्रूपतयाऽध्यवसीयमानस्य नीलादेः 'ज्ञानम्' इति नामकरणे काचिनः क्षतिः । नामकरण१५ मात्रेण सप्रतिघत्वबाह्यरूपत्वादेरर्थधर्मस्याव्यावृत्तेन च तद्रूपता
ज्ञानस्यैव खभावः; तद्विषयत्वेनानन्यवेद्यतया चास्यान्तःप्रतिभासनात्, सप्रतिघान्यवेद्यस्वभावतया चार्थस्य बहिःप्रतिभासनात् । न च प्रतिभासमन्तरेणार्थव्यवस्थायामन्यन्निबन्धनं पश्यामः।
यदप्यभिहितम्-निराकारः साकारो वेत्यादिः तदप्यभिधान२० मात्रम् ; साकारवादप्रतिक्षेपेण निराकारादेव प्रत्ययात् प्रतिकर्मव्यवस्थोपपत्तेः प्रतिपादयिष्यमाणत्वात्।
यच्चान्यदुक्तम्-न भिन्नकालोऽसौं तंद्राहक इत्यादि, तदप्यसारम् ; क्षेणिकत्वानभ्युपैगमात् । यो हि क्षणिकत्वं मन्यते गृहीतेरर्थेन सम्बन्धसिध्यर्थमन्धशानेनापरं गृहीत्यन्तरं क्रियते । अपरगृहीतिरपि अर्थाद्भिन्ना अभिन्ना वेत्यादिप्रकारेणानवस्था।
१ परेण । २ इदमपि शानं समकालं भिन्नकालं वेत्यादि । अन्यज्ञानमपि गृहीतमगृहीतमित्यादिप्रकारेण । ३ ग्रहणम् । ४ परेण । ५ ज्ञान । ६ अर्थ । ७ अर्थस्य । ८ काठिन्य। ९ छेदनाग्रहणादि । १० आस्माकं जैनानां । ११ बहिरर्थ । १२ शान । १३ वयं जैनाः। १४ परेण । १५ अहम्प्रत्ययः। १६ ज्ञानात् । १७ विषय । १८ जनैः । १९ अहम्प्रत्ययः। २० अर्थ । २१ ज्ञानार्थयोः। २२ जैनानाम् ।
1 "निराकारपक्षेऽपि भवदभिमतसाकारवादप्रतिक्षेपेण निराकारादेव प्रत्ययाद्यथा प्रतिकर्मव्यवस्था तथा प्रतिपादयिष्यते ।" स्या. रत्ना० पृ० १६३ ।
2 "यच्चेदं ग्राह्यग्राहकयोरेककालानुभवाभावेन दूषणम् ; तदप्यपास्तम् । क्षणिकत्वानभ्युपगमात् । यो हि क्षणिकत्वं मन्यते तस्यायं दोषो ज्ञानकालेऽर्थस्यासद्भावः अर्थकाले ज्ञानस्येति तयोर्लाह्यग्राहकभावानुपपत्तिरिति ।" व्योमवती पृ० ५२९ ।।
For Personal and Private Use Only . www.jainelibrary.org
Jain Educationa International