________________
सू० १॥३] स्मृतिप्रमोषविचार: - अत्र प्रतिविधीयते-न दोषैः शैक्तेः प्रतिबन्धः प्रध्वंसो वा विधीयते, किन्तु दोषसमवधाने चक्षुरादिभिरिदं विज्ञानं विधीयते । दोषाणां चेदमेव सामर्थ्य यत्तत्सन्निधानेऽविद्यमानेप्यर्थे ज्ञानमुत्पादयन्ति चक्षुरादीनि । न चैवमसत्ख्यातिः स्यात् ; सादृश्यस्यापि तद्धेतुत्वात् । असत्ख्यातिस्तु न त तुका,५ खंपुष्पज्ञानवत् । रजताकारश्च प्रतिभासमानो न ज्ञानस्य; संस्कारस्यापि तद्धेतुत्वात् । दोषाद्धि संस्कारसहायादनुभूतस्यैव रजतस्यायमाकारः पुरोवर्तिन्यर्थे प्रतिभासते । न चैवं 'तद्रजतम्' इति स्यात् ; दोषवशात्पुरोव्यवस्थितार्थे रजताकारस्य प्रतिभासनात् । कथमन्यथा भवतोऽपि तद्रजतमिति प्रतिभासो न स्यात् ? ततो १० यथा तव स्मृतिप्रेमोषस्तथा दोषेभ्यः सीमानाधिकरण्येन पुरोवर्त्तिन्यवर्तमानरजताकारावभासः किन्न स्यात् ? अनेन 'तत्संसर्गः सैन्नसन्वा प्रतिभासते' इत्यपि निरस्तम् । न च विवेकौड़ख्यातिसहायाद्रजतज्ञानात् प्रवृत्तिर्घटते; 'घटोयम्' इत्याद्यभेदज्ञानात्प्रवृत्तिप्रतीतेः । विवेकाख्यातिश्च भेदे सिद्ध सियेत् । न १५ चौत्र होनभेदः कुंतश्चित् सिद्धः, तथापि तत्कल्पने 'घटोयम्' इत्यादावपि ज्ञानभेदः कल्प्यतामविशेषात् । अथोत्र सतो घटस्य ग्रहणान्नासौ कल्प्यते; तर्हि अन्यत्राप्यसतो ग्रहणात्तत्कल्पना माभूत् । यथैव हि गुणान्वितैश्चक्षुरादिभिः सति वस्तुन्येकं ज्ञानं जन्यते, तथा दोषान्वितैः सादृश्यवशादसत्येकं ज्ञानं जन्यते । २०
.१ परोक्ते प्रत्युत्तरं दीयते जनैः। २ काचकामलादिभिः। ३ नेत्रादीनां । ४ रजतं । ५ रजते। ६ पूर्वदृष्टरजतेन शुक्तिकायाः सादृश्यं । ७ अन्यथाख्याति । ८ विपर्ययज्ञानस्य सादृश्यं हेतुः । ९ सादृश्यहेतुका । १० सादृश्यहेतु । ११ एवं तहिं आत्मख्याति: स्यात् । १२ न ज्ञानस्य आकारः आत्मख्यातिप्रसङ्गात् । २३ रजतशान। १४ शुक्तिकादौ । १५ रजतमिदमिति शानस्य सादृश्यनिबन्धनत्वेन । १६ पूर्व रजतानुभवाऽविशेषात् । १७ परस्य । १८ अभावः ।. १९ तद्रजतमित्येतसिन्निदं रजतमिति शानं यथा ते प्रमोषवशाज्जायते । २० इदं रजतमिति इदंरजतयोरेकाधिकरणत्वेन । २१ शुक्तिकादौ । २२ सर्वथासन्निति वक्तुं न शक्यते सदृशरूपस्यानुभूयमानत्वात्सर्वथाऽसन्निति वक्तुं न शक्यते अनुभूतरजतस्य पुरोदेशे असम्भवात् कथञ्चिदनुभव इति इति भावः । २३ भेदाऽग्रहणं । २४ इदं रजतमित्यत्र । २५ इदं प्रत्यक्षं रजतमिति सरणम् । २६ प्रमाणात् । २७ ज्ञानभेदसिद्ध्यभावश्च । २८ परः। २९ घटोयमित्यत्र । ३० इदं रजतमित्यत्र । ३१ नैर्मल्यादि ।
---1 तु:-"यतो न तैस्तस्याः प्रतिबन्धः महंसो वा विधीयते, किन्तु स्वसन्निधाने रजतमिदमितिः शानमेवोत्पाग्रते"
न्यायकुमु० प्र० परि..
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org