SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ सू० १॥३] स्मृतिप्रमोषविचार: - अत्र प्रतिविधीयते-न दोषैः शैक्तेः प्रतिबन्धः प्रध्वंसो वा विधीयते, किन्तु दोषसमवधाने चक्षुरादिभिरिदं विज्ञानं विधीयते । दोषाणां चेदमेव सामर्थ्य यत्तत्सन्निधानेऽविद्यमानेप्यर्थे ज्ञानमुत्पादयन्ति चक्षुरादीनि । न चैवमसत्ख्यातिः स्यात् ; सादृश्यस्यापि तद्धेतुत्वात् । असत्ख्यातिस्तु न त तुका,५ खंपुष्पज्ञानवत् । रजताकारश्च प्रतिभासमानो न ज्ञानस्य; संस्कारस्यापि तद्धेतुत्वात् । दोषाद्धि संस्कारसहायादनुभूतस्यैव रजतस्यायमाकारः पुरोवर्तिन्यर्थे प्रतिभासते । न चैवं 'तद्रजतम्' इति स्यात् ; दोषवशात्पुरोव्यवस्थितार्थे रजताकारस्य प्रतिभासनात् । कथमन्यथा भवतोऽपि तद्रजतमिति प्रतिभासो न स्यात् ? ततो १० यथा तव स्मृतिप्रेमोषस्तथा दोषेभ्यः सीमानाधिकरण्येन पुरोवर्त्तिन्यवर्तमानरजताकारावभासः किन्न स्यात् ? अनेन 'तत्संसर्गः सैन्नसन्वा प्रतिभासते' इत्यपि निरस्तम् । न च विवेकौड़ख्यातिसहायाद्रजतज्ञानात् प्रवृत्तिर्घटते; 'घटोयम्' इत्याद्यभेदज्ञानात्प्रवृत्तिप्रतीतेः । विवेकाख्यातिश्च भेदे सिद्ध सियेत् । न १५ चौत्र होनभेदः कुंतश्चित् सिद्धः, तथापि तत्कल्पने 'घटोयम्' इत्यादावपि ज्ञानभेदः कल्प्यतामविशेषात् । अथोत्र सतो घटस्य ग्रहणान्नासौ कल्प्यते; तर्हि अन्यत्राप्यसतो ग्रहणात्तत्कल्पना माभूत् । यथैव हि गुणान्वितैश्चक्षुरादिभिः सति वस्तुन्येकं ज्ञानं जन्यते, तथा दोषान्वितैः सादृश्यवशादसत्येकं ज्ञानं जन्यते । २० .१ परोक्ते प्रत्युत्तरं दीयते जनैः। २ काचकामलादिभिः। ३ नेत्रादीनां । ४ रजतं । ५ रजते। ६ पूर्वदृष्टरजतेन शुक्तिकायाः सादृश्यं । ७ अन्यथाख्याति । ८ विपर्ययज्ञानस्य सादृश्यं हेतुः । ९ सादृश्यहेतुका । १० सादृश्यहेतु । ११ एवं तहिं आत्मख्याति: स्यात् । १२ न ज्ञानस्य आकारः आत्मख्यातिप्रसङ्गात् । २३ रजतशान। १४ शुक्तिकादौ । १५ रजतमिदमिति शानस्य सादृश्यनिबन्धनत्वेन । १६ पूर्व रजतानुभवाऽविशेषात् । १७ परस्य । १८ अभावः ।. १९ तद्रजतमित्येतसिन्निदं रजतमिति शानं यथा ते प्रमोषवशाज्जायते । २० इदं रजतमिति इदंरजतयोरेकाधिकरणत्वेन । २१ शुक्तिकादौ । २२ सर्वथासन्निति वक्तुं न शक्यते सदृशरूपस्यानुभूयमानत्वात्सर्वथाऽसन्निति वक्तुं न शक्यते अनुभूतरजतस्य पुरोदेशे असम्भवात् कथञ्चिदनुभव इति इति भावः । २३ भेदाऽग्रहणं । २४ इदं रजतमित्यत्र । २५ इदं प्रत्यक्षं रजतमिति सरणम् । २६ प्रमाणात् । २७ ज्ञानभेदसिद्ध्यभावश्च । २८ परः। २९ घटोयमित्यत्र । ३० इदं रजतमित्यत्र । ३१ नैर्मल्यादि । ---1 तु:-"यतो न तैस्तस्याः प्रतिबन्धः महंसो वा विधीयते, किन्तु स्वसन्निधाने रजतमिदमितिः शानमेवोत्पाग्रते" न्यायकुमु० प्र० परि.. Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy