________________
५४
प्रमेयकमलमार्तण्डे [प्रथमपरि० दोषैर्जन्यमानत्वात् । किञ्च, शुक्तिकायां रजतसंसर्गों न तावदसन् प्रतिभासते, खे खपुष्पसंसर्गवत् असत्ख्यातित्वप्रसङ्गात् । नापि सन् ; रजतस्य तत्रासत्त्वात् । ततो ज्ञानद्वयमेतत् इदम् इति हि पुराव्यवस्थितार्थप्रतिभासनम् , 'रजतम्' इति च पूर्वाव५ गतरजतस्मरणं सादृश्यादेः कुतश्चिन्निमित्तात् । तच्च स्मरणमपि
खरूपेण नावभासत इति स्मृतिप्रमोषोऽभिधीयते । यत्र हि 'स्मरामि' इति प्रत्ययस्तत्र स्मृतेरप्रमोषः, न पुनर्यत्रस्मृतित्वेऽपि 'स्मरामि' इति रूपाप्रवेदनम् । प्रवृत्तिश्च भेदाऽग्रहणादेवोपपन्ना।
ननु कोऽयं तदग्रहो नाम ? न तावदेकत्वग्रहः; तस्यैव विपर्यय१० रूपत्वात् । नापि तद्रहणप्रागभावः; तस्याऽप्रवृत्तिहेतुत्वात् ,
प्रवृत्तिनिवृत्त्योः प्रमाणफलत्वादिति चेत्, न; भेदाऽग्रहणसचिवस्य रजतज्ञानस्य प्रवृत्तिहेतुत्वोपपत्तेरिति ।
१ अन्यथा (असतः प्रतिभासे)। २ शुक्तिकायां । ३ दोषात् । ४ मनोदोषः । ५ रजतशानं। ६ प्राभाकरेण । ७ शाने। ८ प्रतीतिः। ९ प्रत्यक्षस्मरणयोर्मिनयोरेकत्वेन ग्रहणं विपर्ययः । १० सत्यासत्यशानयोरित्यादि । ११ विपरीतख्यातित्वप्रसङ्गादित्यर्थः। १२ मेद । १३ ज्ञानस्य। १४ बाधकोत्पत्तेः पूर्वं । १५ सहायस्य ।
1"विशानद्वयं चैतत् इदमिति प्रत्यक्षं रजतमिति स्मरणम् ।" बृहती पृ० ५१ । , . "रजतमिदमिति नैकं शानम् , किन्तु द्वे एते विज्ञाने। तत्र रजतमिति स्मरणं तस्याननुभवरूपत्वान्न प्रामाण्यप्रसङ्गः । इदमित्यपि विज्ञानमनुभवरूपं प्रमाणमिष्यत एव ।"
प्रकरणपं० पृ० ४३ । .. 2 "शुक्तिकायां रजतशानं सरामीति प्रमोषात् स्मृतिशानमुक्तं युक्तं रजतादिषु-"
__ बृहती पृ० ५३। "स्मरामीति ज्ञानशून्यानि स्मृतिशानान्येतानि" बृहती पृ० ५५ । तु०-“सा च रजतस्मृतिर्न तदा खेन रूपेण प्रकाशते स्मरामीतिप्रत्ययाभावात्। न्यायमं० पृ० १७८ । 3 "ग्रहणस्मरणे चेमे विवेकानवभासिनी ॥ ३३ ॥
सम्यग्रजतबोधात्तु भिन्ने यद्यपि तत्त्वतः। तथापि भिन्ने नाभातः भेदाग्रहसमत्वतः ॥ ३४ ॥ सम्यग्रजतबोधश्च समक्षकार्थगोचरः । ततो भिन्ने अबुद्धा तु स्मरणग्रहणे इमे ॥ ३५ ॥ समानेनैव रूपेण केवलं मन्यते जनः । व्यवहारोऽपि तत्तुल्यः तत एव प्रवर्तते ॥ ३६॥ समत्वेन च संवित्तेः भेदस्याग्रहणेन च।" प्रकरणपं० पृ० ३४ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org