________________
सू० ११३] स्मृतिप्रमोषविचारः इति, कैथमेवं विपर्ययनिरासः तस्या एव तद्रूपत्वादिति ? स्मृतिप्रमोषाभ्युपगमेन तु विपर्ययप्रत्याख्यानमयुक्तम् । तस्यासिद्धरूपत्वात्।
ननु शुक्तिकायाम् 'इदं रजतम्' इति प्रतिभासो विपर्ययः, न चासौ विचार्यमाणो घटते । नहि 'इदं रजतम्' इत्येकमेवेदं ज्ञानं५ कारणाभावात्। तथाहि-न दोषैश्चक्षुरादीनां शक्तेः प्रतिबन्धः क्रियते, कार्यानुत्पत्तिप्रसङ्गात् । न हि दुष्टा यवा विपरीतं कार्यमाविर्भावयन्ति । अत एव ध्वंसोऽपि। किञ्च, "सम्बद्धं वर्तमान च गृह्यते चक्षुरादिना"। [मी० श्लो० प्रत्यक्ष० श्लो० ८४] रजतस्य चासम्बद्धत्वादवर्तमानत्वाच्च चक्षुषा कथं वर्तमानरजताकारा-१० वभासः स्यात् ? ज्ञाने च कस्यायमाकारः प्रथते ? न तावद्रजतस्य; अवर्तमानत्वात् । नापि ज्ञानस्यैव; स्वसिद्धान्तविरोधात् । किञ्च, अंगृहीतरजतस्येदं विज्ञानं नोपजायते, अतिप्रैसङ्गात् । गृहीतरजतस्य च तद्रजतमिदम्' इति स्यात्, इन्द्रियसंस्कारसादृश्य
१ विपरीतख्यात्यभ्युपगमप्रकारेण । २ विपरीतख्यातेः। ३ विवेकाख्यातिमभिप्रेत्य विपर्ययनिरासः क्रियते इति प्रभाकरेणोक्तं तं प्रत्याह । ४ परः। ५ एकत्वेन शानोत्पत्तौ। ६ काचकामलादिदोषैः। ७ इदं रजतमिदं जलं। ८ यवाकरादन्यत् शाल्यकुरादि । ९ न हि बीजप्रध्वंसोऽङ्करं जनयति । १० कारणाभावः । ११ वस्तु। १२ शुक्तिकायां । १३ विषयाभावः। १४ चक्षुषा जनिते रजतशाने । १५ वस्तुनः। १६ प्रकाशते। १७ जैनस्य । १८ स्वरूपाभावः। १९ अज्ञात । २० नुः। २१ इदं रजतमिति। २२ अन्यथा । २३ भूभषनर्द्धितोत्थितस्यापीदं रजतमिति विज्ञानं भवतु। २४ नुः । २५ इन्द्रियेणेदमंशोल्लेखि ज्ञानं संस्कारेण तद्रजमित्यंशोल्लेखिस्मरणं सादृश्यदोषलक्षणाभ्यां कारणाभ्यां तद्रजतमिदमिति सामानाधिकरण्यं भवति । नापि सादृश्यादेव केवलात् सामानाधिकरण्यं पूर्व गृहीतरजतस्य नुः दृश्यमाने सत्यरजते तद्रजतमिदमिति सामानाधिकरण्यप्रसङ्गात् सादृश्याविशेषात् । नापि दोषात्केवलात्सामानाधिकरण्यं स्तम्भपि तत्प्रसङ्गात् दोषलक्षणस्य कारणस्य स्तम्भपि विद्यमानत्वात् । तस्मादुभयं कारणं सादृश्यदोषौ ।। 1 "युक्तं च दुष्टतायाः कार्याऽक्षमत्वं न पुनः कार्यान्तरसामर्थ्यम्"।
बृहती पृ० ५३ । "दोषा हि कारणानां सामथ्र्य मिघ्नन्ति न पुनः कार्यान्तरजननसामर्थ्यमादधति, न खलु भ्रष्टकुटजबीजं न्यग्रोधधानाय कल्पते, किन्तु न करोति कुटजधानम् ।' न्यायवा० ता० टी० पृ० ८८ । भामती पृ० १४ । न्यायमं० पृ० १७६ ।
2 "रजतप्रतिपत्तिश्च नेयमन्धस्य जायते । तेनेयमिन्द्रियाधीना संयुक्ते चेन्द्रियं धियम् ॥ १२॥"
प्रकरणपं० पृ० ३३ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org