SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे . [प्रथमपरि० रथमात्रम् ; अद्वैतसिद्धौ ह्येतत्सिद्ध्येत्, तच्चाद्वैतं निराकरिष्यामः । यच्चोक्तम्-न ज्ञानस्य विषय उपदेशगम्य इत्यादि। तेद्भवतामेव प्राप्तम् , तथा हि-जलादिभ्रान्तौ नियतदेशकालस्वभावः सदात्मकत्वेनैव जलाद्यर्थः प्रतिभाति तद्हणेप्सोस्तत्रैव ५प्रवृत्तिदर्शनात् तत्कथमसावनिर्वचनीयः स्यात् ? न ह्येवंभूते प्रतिभासप्रवृत्ती अनिर्वचनीयेऽर्थे सम्भवतः। अथ विचार्यमाण एवासौ सदसत्त्वादिभिरनिर्वचनीयः सम्पद्यते न तु भ्रान्तिकाले तथा प्रतिभातीति; नन्वेवमन्यथाप्रतिभासाद्विपरीतख्यातिरेव स्थात्। १० नर्नु विपरीतख्यातिरपि प्रतिभासविरोधान्न युक्तेति । क एव माह-'विपरीतोऽयमर्थः' इति ख्यातिः ? किं तर्हि ? पुरुषविपरीते स्थाणौ 'पुरुषोऽयम्' इति ख्यातिर्विपरीतख्यातिः। ननुं पुरुषावभासिनि ज्ञाने स्थाणोरप्रतिभासमानस्य विषयत्वमयुक्तं सर्वत्रीप्यव्यवस्थाप्रसङ्गात् । तदयुक्तम् । यतःस्थाणुरेवात्र ज्ञाने तद्रूपस्या१५ नवधारणादधर्मादिवशाच्च पुरुषाद्याकारेणाध्यवसीयते । बाधो तरकालं हि प्रतिसैन्धत्ते स्थाणुरयं मे 'पुरुषः' इत्येवं प्रतिभात १ भेदेन निरूपयितुमशक्यत्वमद्वैताश्रितं पुरुषाद्वैताभावे तदसम्भवादित्यर्थः । २ भवदुक्तम् । ३ परेण । ४ अनुमानसाध्य । ५ अर्थोऽनिर्वचनीय इति उपदेशगम्येनेत्यादि । ६ रजतसपोदि । ७ इति नियतदेशादिस्वभावस्यार्थस्य सदात्मकप्रति । भासमानस्योपदेशादनिर्वचनीयत्वं कथं स्यात् । रजतादिभ्रान्तो प्रतिभासमानोऽर्थः अनिर्वचनीयः सत्त्वादिना बाध्यमानत्वे सति प्रतिभासमानत्वान्यथानुपपत्तेरित्यर्थ. स्योपदेशागम्यत्वमनुमानबाध्यत्वं च भवतामेवायातम् । ८ सदात्मकविषयतद्हणेषु निबन्धने। ९ रजतलक्षणस्य । १० यदि । ११ उत्तरकाले। १२ अनिर्वचनीय एव तत्काले सत्त्वेन भातीति । १३ अनिर्वचनीयार्थस्य अनिर्वचनीयरूपतया प्रतिभासनात् । १४ परः। १५ विपरीतोयमर्थ इति प्रतिभासाभावात् । १६ चेत् । १७ परः। १८ अन्यथा। १९ घटपटादिप्रतिभासिनि शाने। २० अप्रतिभासमानस्य पुरुषस्य विपरीतत्वं स्यात् । २१ चेत् । २२ काचादिदोष । २३ प्रत्यभिशानं । अध्यस्तं तोयं परमार्थतोयमिव अत एव पूर्वदृष्टमिव, तत्त्वतस्तु न तोयं न च पूर्वदृष्टम् , किन्त्वनृतमनिर्वाच्यम्"। भामती पृ० १३ । "प्रत्येक सदसत्त्वाभ्यां विचारपदवीं न यत् । गाहते तदनिर्वाच्यमाहुवेदान्तवादिनः॥" चित्सुखी पृ० ७९ । 1 पृ० ५१ पं० ५। 2 अनिर्वचनीयार्थख्यातेर्विचारः भङ्गयन्तरेण न्यायवा. ता० टी० पृ० ८७, न्यायकुमु० प्र० परि०, स्था० रत्ना० पृ० १३३ इत्यादिषु द्रष्टव्यः। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy