________________
सू० ११३ ],
अनिर्वचनीयार्थख्यातिविचारः
प्रतीतिर्न स्यात् । प्रतिपत्ता चं तेंदुपादानार्थ न प्रवर्त्तत, अबहिष्ठाऽस्थिरत्वेन प्रवृत्त्यविषयत्वात् । अथाविद्योपप्लववशाद्वहिष्ठ-स्थिरत्वेनाध्यवसायैः; कथमेवं विपरीतख्यातिरेव नेष्टा, ज्ञानादभिन्नस्यास्थिरस्य चार्थाकारस्यान्यथाध्यवसायाभ्युपगमादिर्ति ?
यच्चोच्यते न ज्ञानस्य विषयं उपदेशगम्योऽनुमानसाध्यो व५ येन विपरीतोऽर्थः कल्प्येत । किं तर्हि ? यो यस्मिन् ज्ञाने प्रतिभाति स तस्य विषय इत्युच्यते । जलादिज्ञाने च जलाद्यर्थ एव प्रतिभाति न तद्विपरीतः, जैलादिज्ञानव्यपदेशाभावप्रसङ्गात् । स च जलाद्यर्थः सन्न भवति तद्बुद्धेरभ्रान्तत्वप्रसङ्गात् । नाप्यसन्; खपुष्पादिवत्प्रतिभासप्रवृत्त्योर विषयत्वानुषङ्गात् । नापि सद- १० सद्रूपः; उभयदोषानुषङ्गात्, सदसतोरैकात्म्यविरोधाच्च । तस्मादयं बुद्धिसन्दर्शितोऽर्थः सत्त्वेनासत्त्वेनान्येन वा धर्मान्तरेण निर्वक्तुं न शक्यत इत्यनिर्वचनीयार्थख्यातिः सिद्धाः इत्यपि मनो
१८
५१
१ प्रमाता । २ किं । ३ रजतादि । ४ ज्ञानस्य क्षणिकत्वात् । ५ परः । ६ रजतादेः । ७ अनिर्वचनीयार्थ ख्यातिवादिना शाङ्करीयेण । ८ विपरीतार्थख्याति दूषयन् अनिर्वचनीयार्थख्यातिं समर्थयते । ९ रजतादिः । १० विपरीत इति । ११ रजतमिदमिति ज्ञाने किंरूपोऽर्थः प्रतिभासते इति प्रश्न पर उपदेशं करोति । कथं शुक्तिकाशकलमिति रजतमिदमिति ज्ञानं पुरोवर्तिवस्तुविषयं तत्रैव प्रवर्तकत्वात्सम्प्रतिपन्नशानवदित्यनुमानं रजतमिदमित्येतस्मिन् ज्ञाने प्रतिभासमानार्थस्योपदेशगम्यत्वेऽनुमानसाध्यत्वे वा विपरीतार्थख्यातिः स्यात्प्रतिभासमानार्थव्यतिरेकेणार्थान्तरस्य सद्भावात् शुक्तिशकलस्य । १२ मरीचिकाचक्रे जललक्षणः । १३ प्रतिभासमानाद्विपरीतोऽर्थः शुक्तिशकललक्षणः । १४ अन्यथा । १५ अन्यथा । १६ उत्तरकाले बाधकानुत्पत्तिप्रसङ्गात् । १७ उभयेन । १८ निरूपयितुं । १९ विवादापन्नो जललक्षणोऽर्थः सश्वासत्त्वाद्यनिर्वचनीयः प्रतिभासमानत्वे सति बाध्यमानत्वान्यथानुपपत्तेः ।
1 आत्मख्यातेर्विविधरीत्या पर्यालोचनं निम्नग्रन्थेषु द्रष्टव्यम् - न्यायवा० ता० टी० पृ० ८५, भामती पृ० १४, न्यायमं० पृ० १७८, न्यायकुमु० प्र० परि०, स्या० रला० पृ० १२८ ।
2 " तक मरीचिषु तोयनिर्भासप्रत्ययः तत्त्वगोचरः, तथा च समीचीन इति न भ्रान्तो नापि बाध्येत । अद्धा न बाध्येत यदि मरीचीनतोयात्मतत्त्वा न तोयात्मना (?) - गृह्णीयात् । तोयात्मना तु गृह्णन् कथमभ्रान्तः कथं वाऽबाध्यः इन्त तोयाभावात्मनां मरीचीनां तोयभावात्मत्वं तावन्न सत्; तेषां तोयाभावादभेदेन तोय भावात्मताऽनुपपत्तेः । नाप्यसत्; वस्त्वन्तरमेव हि वस्त्वन्तरस्यासत्त्वमास्थीयते ' भावान्तरमभावोइत्यो न कश्चिदनिरूपणात्' इति वदद्भिः । ....... तस्मान्न सत् नापि सदसत्; परस्परविरोधात् इत्यनिर्वाच्यमेवारोपणीयं मरीचिषु तोयमास्थेयम् । तदनेन क्रमेण
For Personal and Private Use Only
www.jainelibrary.org
"
Jain Educationa International