________________
१०
प्रमेयकमलमार्तण्डे [प्रथमपरि० न्यादिरूपतापत्तिः। क्रमेण सम्बन्धे सकलकारकधर्मता साकल्यस्य न स्यात्-यदैव हि तस्यैकेन हि सम्बन्धो न तदैवाऽन्येनेति ।
नापि तत्कार्य साकल्यम्-नित्यानां तजननवभावत्वे सर्वदा तदुत्पत्तिप्रसक्तिः, एकप्रमाणोत्पत्तिसमये संकलतदुत्पाद्यप्रमाणो५त्पत्तिश्च स्यात् । तथाहि-यदा यजनकमस्ति-तत्तदोत्पत्तिमत्प्रसिद्धम् , यथा तत्कालाभिमतंप्रमाणम्, अस्तिच पूर्वोत्तरकालभाविनां सर्वप्रमाणानां तदा नित्याभिमतं जनकमात्मादिकं कारणमिति। आत्मादिकारणे सत्यपि तेषामनुत्पत्तौ ततः कदाचनाप्युत्पत्तिर्न स्यादिति सकलं जगत् प्रमाणविकलमापद्येत । आत्मादौ तत्क१० रणसमथै सत्यपि स्वयमेव तेषां यथाकालं भावे तत्कार्यताविरोधः-तस्मिन् सत्यप्यभावात्-स्वयमेवान्यदा भावात् । न च खकालेपि तत्सद्भावे भावात्तत्कार्यता; गंगनादिकार्यताप्रसक्तेः। न च तस्यापि तत्प्रति कारणत्वस्येष्टेरदोषोयमिति वक्तव्यम्;
आत्माऽनात्मविभागाभावप्रसङ्गात् । यत्र प्रमितिः समवेता १५ सोत्रात्मा नान्ये इत्यप्यनालोचितवचनम् ; समवायाँऽसिद्धौ सम
वेतत्वाऽसिद्धेः। यदा यत्र यथा यद्भवति तदा तत्र तथाऽऽत्मादेस्तत्करणसमर्थत्वान्नैकदा सकलप्रमाणोत्पत्तिप्रसक्तिरित्यप्यसम्भाव्यम्; तत्स्वभावभूतसामर्थ्य भेदमन्तरेण कार्यस्य कालौदिभेदायोगात्, अन्यों ₹ष्टस्य पृथिव्यादिकार्यनानात्वस्याऽदृष्ट२० पार्थिवादिपरमाण्वादिकारणचातुर्विध्यं किमर्थं समर्थ्यते ? नित्यस्वभावमेकमेवे हि किञ्चित्समर्थनीयम् । यथा च कारणातिभेदमन्तरेण कार्यभेदोनोपपद्यते तथा तच्छक्तिभेदमन्तरेणापि । नैं च
१ अवयवी। २ रूपमिव रूपं यस्य तद्धर्मस्य सामान्ये ये दोषास्तेऽत्रापि स्युः । ३ कारकेण । ४ नेत्रोद्घाटनयोग्यदेशगमनादि। ५ आत्माकाशकालदिग्मनसाम् । ६ कार्यलक्षणसाकल्यप्रमाणस्य । ७ सकलपदार्थपरिच्छेदककार्यलक्षणसाकल्यप्रमाणानामुत्पत्तिः स्यात् । ८ कारणाऽधीनानि कार्याणि यतः। ९ उपनयः। १० विवक्षितकालाऽभिमतकार्योत्पत्तिसमये। ११ कार्यविकलम् । १२ युगपत् प्रमाणकार्यस्य । १३ अन्यथा। १४ परः। १५ गगनादिः। १६ चतुर्थपरिच्छेदेऽयं निराकरिष्यते। १७ परः। १८ आत्मादि । १९ नानाकार्याणि विभिन्नशक्तिहेतुकानि विभिन्नकार्यत्वात् पृथ्व्यादिभेदकार्यवत् । २० सर्वेषां कार्याणां युगपदुत्पत्तिर्यतः। २१ देशस्वभावः। २२ तत्सामर्थ्यभेदं विनापि कार्यस्य कालादिभेदो भविष्यतीति चेत् । २३ प्रत्यक्षस्य । २४ आप्यतैजसवायवीय । २५ घणुकादि। २६ ब्रह्मादि । २७ कारणम् । २८ पार्थिवादिजाति। २९ अत्राभिप्रायस्तु योग्यतावच्छिन्नस्वरूपसहकारिसमवधानमेव शक्तिरिति गौतमीयन्यायैकदेशे द्रव्याच्छक्तिरुत्पद्यते चेति जैना वदन्तीति मस्खा दूषणं वदत्यपरःतषणपरिजिहीर्षया न चेयाह ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org