________________
सू० ११३] बौद्धाभिमतनिर्विकल्पकप्रत्यक्षस्य खंडनम् ३१ वा तेनैवाभिभवःतथाप्यसौ सहभावमात्रात्, अभिन्नविषयत्वात् , अभिन्नसामग्रीजन्यत्वाद्वा स्यात् ? प्रथमपक्षे गोदर्शनसमयेऽश्वविकल्पस्य स्पष्टप्रतिभासो भवेत्सहभावाविशेषात् । अथानयोर्मिनविषयत्वात् न अस्पष्टप्रतिभासमभिभूयाश्वविकल्पे स्पष्टतया प्रतिभासः; तर्हि शब्दस्खलक्षणमध्यक्षेणानुभवता तत्र क्षणक्षयानु-५ मानं स्पष्टमनुभूयतामभिन्नविषयत्वान्नीलादिविकल्पवत् । भिन्नसामग्रीजन्यत्वादनुमानविकल्पस्याध्यक्षेण तद्धर्माभिभवाभावेसकलविकल्पानां विशदावभासिस्वसंवेदनप्रत्यक्षेणाभिन्नसामग्रीजन्येनाभिभवप्रसङ्गः। अथ तंत्राभिन्नसामग्रीजन्यत्वं नेष्यते-तेषां विकल्पवासनाजन्यत्वात् , सवेदनमात्रप्रभवत्वाच्च खसंवेदनस्य १० इत्यसत्; नीलादिविकल्पस्याप्यध्यक्षेणाभिभवाभावप्रसङ्गात्तत्रापि तदविशेषात्।
किंच, अनयोरेकत्वं निर्विकल्पकमध्यवस्यति, विकल्पो वा, ज्ञानान्तरं वा? न तावनिर्विकल्पकम् ; अध्यवसायविकलत्वात्तस्य, अन्यथा भ्रान्तताप्रसङ्गः। नापि विकल्पः, तेनाविकल्पस्याविष-१५ यीकरणात् , अन्यथा खलक्षणगोचरताप्राप्तेः “विकल्पोऽवस्तुनिभीसः” [ ] इत्यस्य विरोधः । न चाविषयीतस्यान्यत्रोंरोः। न ह्यप्रतिपन्नरजैतः शुक्तिकायां रजतमारोपयति । ज्ञानान्तरं तु निर्विकल्पकम् , सविकल्पकं वा ? उभयत्राप्युभयदोषानुषङ्गतस्तदुभयविषयत्वायोगः । तदन्यतरविषयेणानयोरेकत्वा-२०
१ निर्विकल्पकधर्मेणाभिभूत्वात्। २ दर्शनं । ३ अवैशयं । ४ तिरस्कृत्य लोप्य वा। ५ वैशयेन । ६ श्रोत्रेन्द्रियदर्शनेन । ७ परेण । ८ सर्व क्षणिकमिति । ९ परेण । १० नीलादिप्रतिभासो यथानुभूयते। ११ प्रत्यक्षं श्रोत्रचक्षुरादिजनितमनुमानं च लिङ्गजनितम् । १२ दर्शनेन। १३ अनुमानं स्पष्टं नानुभूयते । १४ प्रधानादिविकल्पानां। १५ सर्वचित्तचैत्तानामभिन्नसामग्रीप्रभवत्वात्। १६ विशदतयाप्रतिभासो भवेत्सकलविकल्पानाम् । १७ परः। १८ सर्वविकल्पेषु स्वसंवेदनेषु च । १९ सौगतैरस्माभिः। २० संस्कार। २१ प्रत्यक्षस्य । २२ नीलादिविकल्पे । २३ विकल्पेतरयोः। २४ नीलादिविकल्पवत् । २५ अवस्तुनि निर्भासः प्रतिभासो यस्य विकल्पस्य सः। २६ ग्रन्थस्य । २७ निर्विकल्पकस्य । २८ विकल्पे । २९ घटते। ३० ना। ३१ सविकल्पकनिर्विकल्पकयोः । ३२ शानेन।
___1 तुलना-'तदेकत्वं हि दर्शनमध्यवस्यति'...प्रमाणप० पृ० २३ । न्यायकुमु. प्र० परि० । सन्मति० टी० पृ० ५०० । स्या० रत्नाकर पृ० ५२ । 2 तु०-'विकल्पोऽवस्तुनिर्भासाद् विसंवादादुपप्लवः ।
प्रश० कन्दली पृ० १९०
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org