________________
सू० ११३] बौद्धाभिमतनिर्विकल्पकप्रत्यक्षस्य खंडनम् २९ वा? न तावद्विषयाभेदकृतम् ; सन्तानेतरविषयत्वेनानयोर्विषयाभेदाऽसिद्धेः ज्ञानरूपतासादृश्येन त्वमेदाध्यवसाये-नीलपीतादिज्ञानानामपि भेदेनोपलम्भो न स्यात् । अथाभिभवात् ; केन कस्याभिभवः ? विकल्पेनाविकल्पस्य भानुना तारानिकरस्येवेति चेत् । विकल्पस्याप्यविकल्पेनाभिभवः कुतो न भवति? बलीयस्त्वा-५ दस्येति चेत्, कुतोस्य बलीयस्त्वम्-बहुविषयात्, निश्चयात्मकत्वाद्वा? प्रथमपक्षोऽयुक्तः, निर्विकल्पविषय एव तत्प्रवृत्त्यभ्युपगमात, अन्यथा अगृहीतार्थग्राहित्वेन प्रमाणान्तरत्वप्रसङ्गः। द्वितीयपक्षेपि स्वरूपे निश्चयात्मकत्वं तस्य, अर्थरूपे वा? न तावत्स्वरूपे__“सर्वचित्तचैत्तानामात्मसंवेदनं प्रत्यक्षम्” [न्यायवि० पृ०१९] इत्यस्य विरोधात् । नाप्यर्थ-विकल्पस्यैकस्य निश्चयानिश्चयखभावद्वयप्रसंगात् । तच्च परस्परं तद्वतश्चैकान्ततोभिन्नं चेत् ; समवायाधनभ्युपगमात् सम्बन्धासिद्धेः 'बलवान्विकल्पो निश्चयात्मकत्वात्' इत्यस्यासिद्धेः। अभेदैकान्तेपि-तद्वयं तेद्वानेव वा भवेत् ।१५ कथंचित्तादात्म्ये-निश्चयानिश्चयस्वरूपसाधारणमात्मानं प्रतिपद्यते चेद्विकल्पः-स्वरूपेपि सविकल्पकः स्यात् , अन्यथा निश्चयस्वरूपतादात्म्यविरोधः। न च स्वरूपमनिश्चिन्वन्विकल्पोऽर्थनिश्चीयकः, अन्यथाऽगृहीतस्वरूपमपि शानमर्थग्राहकं भवेत् तथाच"अप्रत्यक्षोपलम्भस्य" [ ] इत्यादिविरोधः, तत्स्वरूप-२०
१ क्षण। २ पुनः । ३ क्षण । ४ तिरस्कारः। ५ परैः। ६ निर्विकल्पकबोध । ७ सविकल्पक्षण। ८ निर्विकल्पकक्षण । ९ नीलमिति स्वसंवेदनेन । १० स्वसंवेद. नम्। ११ नीलाद्याकारतया सविकल्पाः क्षणाः। १२ सर्वज्ञानानां स्वरूपे निर्विकल्पकत्वाभ्युपगमस्य ग्रन्थस्य । १३ स्वरूपेऽनिश्चयात्मकत्वमर्थे निश्चयात्मकत्वम् । १४ ततः स्वरूपनिश्चयाभावात् । १५ विकल्पात् । १६ स्वरूपम् । १७ परेण । १८ त्रयाणां भेदात्। १९ सौगताभ्युपगतस्य हेतोः। २० स्वरूपम् । २१ विकल्पः। २२ सति । २३ स्वरूपम् । २४ तथा चापसिद्धान्तप्रसङ्गः। २५ भा। २६ विकरूपस्य । २७ किंच। २८ अज्ञात । २९ नाज्ञातं नाम शापकम् । ३० अत्यन्तपरोक्षशानस्य । ३१ नार्थसिद्धिः प्रसिद्धयति ।
1 तुलना-अथ विकल्पस्य बलीयस्त्वाद'...सन्मति० टी० पृ० ५००
स्या. रत्नाकर पृ० ५० 2 'अप्रसिद्धोपलम्भस्य नार्थवित्तिः प्रसिद्धयति । ___ तन्न ग्राह्यस्य संवित्तिहिकानुभवादृते' ॥ २०७४ ॥ तस्वसं.
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org