________________
प्रमेयकमलमार्तण्डे [प्रथमपरि० नच विकल्पाविकल्पयोर्युगपट्टत्तेर्लधुवृत्तेर्वा एकत्वाध्यवसा. याद्विकल्पे वैशद्यप्रतीतिः; तयतिरेकेणापरस्याप्रतीतेः । भेदेन प्रतीतौ ह्यन्यत्रान्यस्यारोपो युक्तो मित्रे चैत्रवत् । न चाऽस्पटामो विकल्पो निर्विकल्पकं च स्पष्टाभं प्रत्यक्षतः प्रतीतम् । तथाप्यनु५भूयमानस्वरूपं वैशचं परित्यज्याननुभूर्यमानखरूपं वै(पमवैशा) परिकल्पयन् कथं परीक्षको नाम? अनवस्थाप्रसङ्गात्-ततोप्यपरस्वरूपं तदिति परिकल्पनप्रसङ्गात् । युगपट्टत्तेश्चामेदाध्यवसाये दीर्घशष्कुलीभक्षणादौ रूपादिज्ञानपञ्चकस्यापि सहोत्पत्तेरभे
दाध्यवसायः किन्न स्यात् ? भिन्नविषयत्वात्तेषां तदभावे-अत १० एव स प्रकृतयोरपि न स्यात् क्षणसन्तानविषयत्वेनोनयोरप्यस्याविशेषात् । लघुवृत्तेश्चाऽभेदाध्यवसाये-खररटितमित्यादावप्यभेदाध्यवसायप्रसङ्गः । कथं चैवं कोपिलानां बुद्धिचैतन्ययो:दोऽनुपलभ्यमानोपि न स्यात् ?
अथानयोः सादृश्या देनानुपलेम्भः, अभिभवाद्वाभिधीयते? १५ ननु किंकृतमनयोः सादृश्यम्-विषयाभेदैकृतम्, ज्ञानरूपताकृतं
१४
१८ १९
१ क्रमसत्त्वेऽपि । २ अविकल्पविकल्पयोः स्पष्टाऽस्पष्टत्वेन भेदेन प्रत्यक्षतः प्रतीत्यभावे । ३ विकल्पे। ४ अवैशयम् । ५ सौगतः। ६ अवैशद्यधर्मात् । ७ पीतम् । ८ सविकल्पकम् । ९ परः । १० अविकल्पकविकल्पयोः । ११ सामान्य । १२ अविकल्पविकल्पयोः। १३ भिन्नविषयत्वस्य । १४ किंच। १५ विकल्पाविकल्पयोरनुपलभ्यमानभेदसम्भवप्रकारेण । १६ साङ्ख्यानाम् । १७ अप्रतीयमानः । १८ अनुपलभ्यमानत्वान्न सिध्येत् । १९ अभ्युपगममात्रस्य तत्रापि सद्भावात् । २० परः । २१ विकल्पेतरयोः। २२ पृथक्त्वाध्यवसायस्य । २३ पराभवात् । २४ परेण । २५ भा (तृतीया)।'
1 ‘मनसोर्युगपद्वृत्तेः सविकल्पाऽकल्पयोः । विमूढः सम्प्रवृत्तेर्वा ( लघुवृत्तेर्वा ) तयोरैक्यं व्यवस्यति' ॥
प्रमाणवा० ३ । १३३ 2 'विकल्पज्ञानं हि संकेतकालदृष्टत्वेन वस्तुगृह्णत् शब्दसंसर्गयोग्यं गृह्णीयात् । संकेतकालदृष्टत्वं च संकेतकालोत्पन्नशानविषयत्वम् । यथाच पूर्वोत्पन्नं विनष्टं शानं संप्रत्यसत् तद्वत् पूर्वविनष्टशानविषयत्वमपि संप्रति नास्ति वस्तुनः । तदसद्रूपं वस्तुनो गृह्णदसन्निहितार्थग्राहित्वादस्फुटाभम् अस्फुटाभत्वादेव च सविकल्पकम् । ततः स्फुटाभत्वात् निर्विकल्पका ..
न्यायबि० टी० पृ० २१ 3 तुलना-'अथ विकल्पाविकल्पयोः सादृश्यादभिभवादा...'
स्या० रत्नाकर पृ० ७९
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org