________________
६
.
सू० ११३] प्रमाणस्य प्राप्तिपरिहारविचारः विचारप्रस्तावे विस्तरेणाभिधानात् । प्रतीयते च 'इदमभिमतार्थक्रियाकारि न त्विदम्' इत्यर्थमात्रप्रतिपत्तौ प्रवृत्तिः पशूनामपि । तस्मादर्थक्रियासमर्थार्थप्रदर्शकत्वमेव प्रमाणस्य हितप्रापणम् । अहितपरिहारोपि 'अनभिप्रेतप्रयोजनप्रसाधनमेतत्' इत्युपदर्शनमेव । तयोः समर्थमव्यवधानेनार्थतथाभावप्रकाशकं हि यस्मा-५ प्रमाणं ततो ज्ञानमेव तत् । न चाज्ञानस्यैवंविधं तत्प्राप्तिपरिहारयोः सामर्थ्य ज्ञानकल्पनावैयर्थ्यप्रसङ्गात् ।
ननु साधूक्तं प्रमाणस्याज्ञानरूपतापनोदार्थ ज्ञानविशेषणमस्माकमपीष्टत्वात् , तद्धि समर्थयमानैः साहाय्यमनुष्ठितम् । तत्तु किञ्चिनिर्विकल्पकं किञ्चित्सविकल्पकमिति मन्यमानंप्रति अशेष-१० स्यापि प्रमाणस्याविशेषेण विकल्पात्मकत्वविधानार्थ व्यवसायात्मकत्वविशेषणसमर्थनपर तनिश्चयात्मकमित्याद्याह । यत्प्राक्प्रेबन्धेन समर्थितं ज्ञानरूपं प्रमाणम्
तन्निश्चयात्मकं समारोपविरुद्धत्वादनुमानवत् ॥३॥ संशयविपर्यासानध्यवसायात्मको हि समारोपः, तद्विरुद्धत्वं १५ वस्तुतथाभावग्राहकत्वं निश्चयात्मकत्वेनानुमाने व्याप्तं सुप्रसिद्धम् अन्यत्रापि ज्ञाने तद् दृश्यमानं निश्चयात्मकत्वं निश्चाययति, समारोपविरोधिग्रहणस्य निश्चयस्वरूपत्वात् । प्रमाणत्वाद्वी तत्तदात्मकमनुमानवदेव । परनिरपेक्षतया वस्तुतथाभावप्रकाशकं हि प्रमाणम्, न चाविकल्पकम् तथा-नीलादौ विकल्पस्य क्षणक्ष-२० येऽनुमानस्थापेक्षणात् । ततोऽप्रमाणं तत् वस्तुव्यवस्थायामपेक्षितपरव्यापारत्वात् सन्निकर्षादिवत् । नैचेदमर्नुभूयते-अक्षव्यापारानन्तरं स्वार्थव्यवसायात्मनो नीलादिविकल्पस्यैव वैशये. नानुभवात् ।
१ किंच । २ वस्तु । ३ पाषाणादिकम् । ४ अहिकण्टकादि । ५ हिता. हितप्राप्तिपरिहारयोः। ६ अव्यवधानेनार्थतथात्वप्रदर्शकत्वलक्षणम् । ७ हिताहित । ८ अन्यथा । ९ बौद्धानां । १० जैनेः। ११ कृतम् । १२ शानं। १३ बौद्धं । १४ प्रधानं । १५ स्वापूर्वेत्यादि । १६ व्यापकेन। १७ प्रत्यक्षे। १८ ज्ञानस्य । १९ सम्यग्ज्ञानत्वादविसंवादित्वानिश्चयहेतुत्वात् । २० ज्ञानविशेषणविशिष्टं प्रमाणं । २१ प्रमाणत्वं च स्यानिश्चयात्मकत्वं च न स्यादिति सन्दिग्धानेकान्तिकत्वे सत्याह । परं सविकल्पकं ज्ञानम् । २२ दर्शनं सौगताभिमतम् । २३ नीलमीदं पीतमीदम् । २४ सर्व क्षणिकं सत्त्वात् इत्यस्य । २५ शानापेक्ष। २६ किञ्च । २७ निर्विकल्पकम् । २८ प्रत्यक्षसिद्धं न भवतीत्यर्थः। २९ नयनोन्मीलनानन्तरम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org