________________
३० . प्रमेयकमलमार्तण्डे [प्रथमपरि० स्यानुभूतस्याप्यनिश्चितस्य क्षणिकत्वादिवन्नान्यनिश्चायकत्वम् । विकल्पान्तरेण तनिश्चयेऽनवस्था ।
कश्चानयोरेकत्वाध्यवसायः-किमेकेविषयत्वम्, अन्यतरेणान्यतरस्य विषयीकरणं वा, परत्रेतरस्याध्यारोपो वा ? न तावदेक५विषयत्वम् ;सामान्यविशेषविषयत्वेनीनयोभिन्नविषयत्वात्। दृश्यविकल्प(ल्प्य)योरेकत्वाध्यवसायादभिन्नविषयत्वम्, इत्यप्ययुकम्; एकत्वाध्यवसायो हि दृश्ये विकल्प्यस्याध्यारोपः । स च गृहीतयोः, अगृहीतयोर्वा तयोर्भवेत् ? न तावद्गृहीतयोः; भिन्नखरूपतया प्रतिभासमानयोर्घटपटयोरिवैकत्वाध्यवसायायोगात् । १० न चानयोर्ग्रहणं दर्शनेन; अस्य विकल्प्यागोचरत्वात् । नापि विकल्पेन; अस्यापि दृश्यागोचरत्वात्। नापि ज्ञानान्तरेण; अस्यापि निर्विकल्पकत्वे विकल्पात्मकत्वे चोक्तदोषानतिक्रमात् । नाप्यगृहीतयोः स सम्भवति अतिसङ्गात् । सादृश्यनिबन्धनश्वारोपो
दृष्टः, वस्त्ववस्तुनोश्च नीलखरविषाणयोरिव सादृश्याभावान्ना१५ध्यारोपो युक्तः। तन्नैकविषयत्वम् ।
अन्यतरस्यान्यतरेण विषयीकरणमपि-समानकालभांविनोरपारतच्यादनुपपन्नम् । अविषयीकृतस्यान्यस्यान्यत्रांध्यारोपोप्यसम्भवी । किञ्च, विकल्पे निर्विकल्पकस्याध्यारोपः, निर्विकल्पके विकल्पस्य वा ? प्रथमपक्षे-विकल्पव्यवहारोच्छेदः निखिलज्ञानानां २० निर्विकल्पकत्वप्रसङ्गात् । द्वितीयपक्षेपि-निर्विकल्पकवार्ताच्छेदःसकलज्ञानानां सविकल्पकत्वानुषङ्गात् ।
किंच, विकल्पे निर्विकल्पकधर्मारोपाद्वैशद्यव्यवहारवत् निर्विकल्पके विकल्पधर्मारोपादवैशद्यव्यवहारः किन्न स्यात् ? निर्विकल्पकधर्मेणाभिभूतत्वाद्विकल्पधर्मस्य इत्यन्यत्रापि समानम् । भवतु
१ उपलम्भः स्वरूपं जानाति नवा ? न जानाति चेत्कथं सर्व जानातीत्यभिप्रायः । २ नीलंनीलमिति । ३ नीलोयमिति । ४ नैयायिक प्रति बौद्धेनोक्तम् । ५ विकल्पस्वरूपं यथा क्षणिकत्वादिनिश्चायकं न भवति अनिश्चितत्वात्तथाऽर्थस्यापि न निश्चायकं तत एव । ६ अर्थ। ७ निर्विकल्पकसविकल्पकयोः। ८ भा। ९ परमाणु। १० निर्वि. कल्पकसविकल्पकयोः। ११ परः, स्वलक्षण। १२ नीलादि। १३ दृश्यविकल्प्ययोः । १४ सति । १५ खर विषाणयोरप्येकत्वाध्यवसायप्रसङ्गः परमाण्वादावपि स्यादा। १६ लोके। १७ दृश्यविकल्ययोः। १८ विकल्पाविकल्पयोः। १९ अविकल्पस्य । २० विकल्पे । २१ इदं निर्विकल्पकमिति । २२ वैशध । २३ विकल्पधर्मस्यावैशबस्य निर्विकल्पके आरोपेन न ( इति चेत् )। २४ विकल्पधर्मेण निर्विकल्पधर्मस्याभिभूतत्वात् विकल्पे निर्विकल्पकधर्मारोपाद्वैशधव्यवहारो माभूत् ।
1 तुलना-किमेकविषयत्वमन्यतरस्य.."स्या. रत्नाकर पृ. ५०
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org