________________
सू० ११३ ]
शब्दाद्वैतविचारः
येपि शब्दाद्वैतवादिनो निखिलप्रत्ययानां शब्दानुर्विद्धत्वेनैव सविकल्पकत्वं मन्यन्ते - तत्स्पर्शवैकल्ये हि तेषां प्रकाशरूपताया एवाभावप्रसङ्गः । वाग्रूपता हि शाश्वती प्रत्यर्वमर्शिनी च । तदभावे प्रत्ययानां नीपरं रूपमवशिष्यते । सकलं चेदं वाच्यवाचकतत्त्वं शब्दब्रह्मण एव विवर्तो नान्यविवर्तौ नापि स्वतन्त्र - ५ मिति । तदुक्तम्
न सोस्ति प्रत्ययो लोके यः शब्दानुगमाते । अनुविद्धमभाति सर्व शब्दे प्रतिष्ठितम् ॥ १॥ [ वाक्यप० ११२४ ]
वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥ २ ॥
१८
[ वाक्यप० १।१२५ ]
३९
१०.
१५.
अनादिनिधनं शब्दद्ब्रह्मतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ ३ ॥ [ वाक्यप० १1१] अनादिनिधनं हि शब्दब्रह्म उत्पादविनाशाभावात्, अक्षरं च अकाराद्यक्षरस्य निमित्तत्वात्, अनेन वचकरुपता 'अर्थभावेन' इत्यनेन तु वच्यरूपतास्य सूचिता । प्रक्रियेति भेदाः । शब्दब्रह्मेति नामसङ्कीर्तनमिति;
तेप्यतत्वज्ञाः शब्दानुविद्धत्वस्य ज्ञानेष्वप्रतिभासनात् । तद्धि २० प्रत्यक्षेण प्रतीयते, अनुमानेन वा ? प्रत्यक्षेण चेत्किमैन्द्रियेण,
१ परः । २ ज्ञानानां । ३ ईप् । ४ तादात्म्य | ५ शब्दरूपापन्नत्वेनैव । ६ शब्दानुविद्धत्व । ७ अव्यभिचारिणी । ८ प्रकाशहेतुभूता च । ९ एवंविधवाग्र्• पताऽभावे १० प्रकाशोपायभूतं । ११ प्रधान । १२ ज्ञानं । १३ शब्दान्वयरहितः । १४ कुतो नास्ति ? शब्दरूपापन्नमेव विश्वं शब्दे विश्रान्तं यतः । १५ अनुस्यूत । १६ एव । १७ अपगच्छेत् । १८ तदा । १९ ज्ञानं । २० शब्द. रूपापन्नत्वेन । २१ यतः । २२ ता ( षष्ठी, षष्ठीसमास इत्यर्थः ) । २३ कर्तृ । २४ परिणमति । २५ मेदाः भवेयुः । २६ शब्द । २७ अर्थ |
1 भर्तृहरिप्रभृतयः ।
2 “न तत्प्रत्यक्षतः सिद्धमविभागमभासनात् ।
"नित्यादुत्पत्त्य योगेन कार्यलिङ्गं च तत्र न " ॥ १४७ ॥ तत्त्वसं ० | न्यायकु०
च० प्र० परि०, सन्मति ० टी० पृ० ३८४, स्या० स्ना० पृ० ९८
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org