________________
सू० ११३ ] बौद्धाभिमत निर्विकल्पक प्रत्यक्षस्य खण्डनम्
भावात् ? न तावत्स्पष्टाकार विकलत्वात्तस्याऽप्रामाण्यम् ; काचाकादिव्यवहितार्थदूरपादपादिप्रत्यक्षस्याप्यप्रामाण्यप्रसङ्गात् । न चैतद्युक्तम्, अज्ञातवस्तुप्रकाशनसंवादलक्षणस्य प्रमाणलक्षणस्य सद्भावात् । प्रमाणान्तरत्वप्रसङ्गो वा अस्पष्टत्वालिङ्गजत्वाभ्यां प्रमाणद्वयानन्तर्भूतत्वात् । नापि गृहीतग्राहित्वात्। अनुमान ५ स्याप्यप्रामाण्यानुषङ्गात्, व्याप्तिज्ञानयोर्गिसंवेदनगृहीतार्थग्राहिवात् । कथं वा क्षणक्षयानुमानस्य प्रामाण्यम् - शब्दरूपावभास्यध्यक्षावगतक्षणक्षयविषयत्वात् ? मय अध्येक्षेण धर्मिल रूपग्राहिणा शब्दग्रहणेपि न क्षणक्षयग्रहणम् विरुद्धधर्माध्या संतस्तद्भेदे प्रसक्तेः । नाप्यसतिप्रवर्तनात्; अतीतानागतयोर्विकल्प १० कॉले असत्त्वेपि खकाले सत्त्वात् । तथाप्यस्याप्रामाण्ये प्रत्यक्षस्याप्यप्रामाण्यानुषङ्गः तद्विषयस्यापि तत्कालेऽसत्त्वाविशेषात् । हिताऽहितप्राप्तिपरिहारासमर्थत्वादित्यसम्भाव्यम्; विकल्पादेवेटार्थप्रतिपत्तिप्रवृत्तिप्राप्तिदर्शनात् अनिष्टीर्थाच्च निवृत्तिप्रतीतेः । कदाचिदर्थं प्रापकत्वाभावस्तु - प्रत्यक्षेपि समानोऽमर्थित्वादवृत्त- १५ स्या प्रत्यक्षवत् । कदाचिद्विसंवादादित्यप्यसाम्प्रतम् प्रत्यक्षेण्यप्रामाण्यप्रसङ्गात्, तिमिरौघुपहतचक्षुषोऽर्थाभावेपि प्रत्यक्षप्रवृचिदर्शनात् । भ्रान्तादभ्रान्तस्य भेदोऽन्यत्रापि समानः । समारोपानिषेधकत्वादित्यप्यसङ्गतम् विकल्पविषये समारोपासम्भ वात् । नापि व्यवहारायोग्यत्वात् सकलव्यवहाराणां विकल्प- २० मूलत्वात् । स्वलक्षणाऽगोचरत्वादित्यव्य समीक्षिताभिधानम् ; अनुमानेपि तत्प्रसक्तेः तद्वैत्तस्यापि सामान्यगोचरत्वात् । न च तग्राह्यस्य सामान्यरूपत्वेप्यध्यवसेयस्यै स्वलक्षणरूपत्वाद् दृश्यविवेकीकृत्य ततः प्रवृत्तेरनुमानस्य प्रामाण्यम् प्रकृतविकल्पेऽप्यस्य समानत्वात् । शब्दसंसर्गयोग्यप्रतिभासत्वादित्य. २५
१ स्फटिक जलादि । २ पर्वतादि । ३ पारमार्थिकं लक्षणमिदम् । ४ व्यावशारिकम् । ५ व्याप्तिज्ञानं च तद्योगिसंवेदनं च । ६ सर्वश । ७ श्रावणाध्यक्ष गृहीसामाहित्वात् । ८ श्रावणाध्यक्ष । ९ निर्विकल्पकेन । १० सर्व वस्तु क्षणिकं सत्वात् । ११ तस्यैक्ग्रहणमग्रहणमिति । १२ शब्दधर्मिणः । १३ क्षणिकत्वधर्मस्य । १४ धर्मिरूपस्य वस्तुन: क्षणिकं ( कत्वं ) न भवतीत्यर्थः । १५ रावणशङ्खचक्रवर्ति । १९ अथैयोः । १७ आगमका मे । १८ समकाले ग्राहकत्वाभावात्सव्येतरयोगा । १९ प्रत्यक्ष । २० सर्पादेः । २१ पुरुषस्य । २२ इदं जलमिति । २३ ईप् (सप्तमी, सप्तम्यर्थे मतुरित्यर्थः ) । २४ रोग । २५ पुरुषस्य । २६ भ्रान्तविकर | २७ अप्रामाण्य २८ तस्य पूर्वानुभूततत्सदृशस्य । २९ सामान्यारोमोडधिकरणं स्वलक्षणमध्यवसेयम् । ३० स्वलक्षण | 1 ३१ स्थूल । ३२ पुरुषस्य । ३३ नील । ३४ न्यायस्य ।
प्र० क० मा० ४
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org