________________
खू० ११३] शब्दाद्वैतविचारः
तथेदममलं ब्रह्मनिर्विकारमविद्यया। कलुषत्वमिवापन्नं भेदरूपं प्रपश्यति ॥
[बृहदा० भा० वा० ३।५।४४] इति । तदण्यासाम्प्रतम् । अत्रार्थे प्रमाणाभावात् । न खलु यथोपवर्णितस्वरूपं शब्दब्रह्म प्रत्यक्षतः प्रतीयते, सर्वदा प्रतिनियतार्थस्वरूप-५ ब्राहकत्वेनैवास्य प्रतीतेः । यच्चे-अभ्युदयनिश्रेयसफलधर्मानुगृहीतान्तःकरणा योगिन एव तत्पश्यन्तीत्युक्तम् । तदप्युक्तिमात्रम्, न हि तद्यतिरेकेणान्ये योगिनो वस्तुभूताः सन्ति येन 'से पश्यन्ति' इत्युच्येत । यदि च तज्ज्ञाने तस्य व्यापारः स्यात्तदा 'योगिनस्तस्य रूपं पश्यन्ति' इति स्यात् । यावतोक्तप्रकारेण कार्ये १० व्यापार स्वास्य न संगच्छते । अविद्यायांश्च तयतिरेकेणासंभवाकथं भेदप्रतिभासहेतुत्वम् ? आकाशे च वितथप्रतिभासहेतुभूतं वास्तवमेवास्ति तिमिरम् इति न हृष्टान्तदान्तिकयोः (साम्यम्)।
नाप्यनुमानतस्तत्प्रेतिपत्तिः, अनुमानं हि कार्यलिङ्गं वा भवेत् , १५ स्वभावौदिलिङ्गं वा ? अनुपलब्धेर्विधिसाधकत्वेनानभ्युपगमात् । तत्र न तावत्कार्यलिङ्गम् ; नित्यैकस्वभावात्ततः कार्योत्पत्तिप्रतिषेधात्, क्रमयोगपद्याभ्यां तैस्यार्थक्रियारोधात् । नापि खंभा
१ उत्पादविनाशरहितं । २ भेदप्रक्रमे इवशब्दः। ३ व । ४ इव । ५ पुरोवति। ६ स्वर्ग। ७ मोक्ष। ८ बसः। ९ परेण भवता। १० ब्रह्मणः । ११ परमार्थभूताः। १२ योगिज्ञाने। १३ ब्रह्मणः। १४ अहमिति जनकत्वलक्षणव्यापारः। १५ साकल्येन। १६ ब्रह्मणः। १७ घटते। १८ किंच । १९ ब्रह्म। २० मिथ्या । २१ तिमिराविद्ययोः । २२ ब्रह्म। २३ कारणलिङ्गं । १४ (अनुपलब्धिरूपो हि हेतुन विधिसाधकः)। २५ शब्दब्रह्मणः । २६ घटादि । २७ ब्रह्मणः । २८ कार्य । २९ स्वरूप ।
1 "विशुद्धशानसन्ताना योगिनोऽपि ततो न तत् ।
विदन्ति ब्रह्मणो रूपं शाने व्यापत्य सङ्गतेः ॥ १५१ ॥ यदि हि शाने योगजे तस्य व्यापारः स्यात्तदा योगिनः तस्य रूपं पश्यन्तीति स्यात् ..." तत्त्वसं० पं० पृ० ७.४ ॥
2 "नचापि भवतां तब्यतिरेकिण्यविद्याऽस्ति" तत्त्वसं० पं० पू० ५४ । स्या० रत्ना० ५० ९९ । शास्त्रवा० समु० टी० ५०२३७ उ० ।
3"आकाशे च वितथप्रतिभासहेतुभूतं वास्तवमेव तिमिरं प्रसिद्धम् , अविद्यायाश्च अवास्तवत्वेन विचित्रप्रतिभासहेतुत्वानुपपत्तितो दृष्टान्तदान्तिकयोःसाम्याऽसंभवात् ।" न्यायकु० प्र० परि० । स्या० रत्ना० पृ० ९९ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org