________________
प्रमेयकमलमार्त्तण्डे
[ प्रथमपरि
90
स्वसंवेदनेन वा ? न तावदैन्द्रियेण इन्द्रियाणां रूपादिनियतत्वेन शानाविषयत्वात् । नापि स्वसंवेद्मः अस्य सन्दागोचरत्वात् । अथार्थस्य तदनुविद्धत्वात् तदनुभवे ज्ञाने तदप्यनुभूयते इत्युच्यते; ननु किमिदं शब्दानुविद्धत्वं नाम-अर्थस्याभिन्न देशे प्रति५ भासः, तादात्म्यं वा ? तत्राद्यविकल्पोऽसमीचीनः; तैद्रहितस्यैवार्थस्याध्यक्षे प्रतिभासनात् । न हि तत्र यथा पुरोवस्थितो नीलादिर प्रतिभासते तथा तद्देशे शब्दोपि श्रोतृश्रोत्रप्रदेशे तत्प्रतिभासात् । न चान्य देशतयोपलभ्यमानोप्यन्यदेशोसौ युक्तः, अतिप्रसङ्गात् । नापि तादात्म्यम्; विभिन्नेन्द्रियजनितज्ञान१० ग्राह्यत्वात् । ययोर्विभिन्नेन्द्रियजनितज्ञानग्राह्यत्वं न तयोरैक्यम् यथा रूपरसयोः, तथात्वं च नीलादिरूपशब्दयोरिति । शब्दाकाररहितं हि नीलादिरूपं लोचनज्ञाने प्रतिभाति, तंद्रहितस्तु शब्दः श्रोत्रज्ञाने इति कथं तयोरैक्यम् ? रूपमिदमित्यभिधानविशेषणरूपप्रतीते स्तयोरैक्यम्; इत्यसत्; रूपमिदमिति ज्ञानेन १५ हि वाग्रूपतप्रतिपन्नाः पदार्थः प्रतिपद्यन्ते, भिवाश्रूपताविशेपणविशिष्टा वा ? प्रथमपक्षोऽयुक्तः न हि लोचनविज्ञानं वाग्रूपतायां प्रवर्तते तस्यास्तदविषयत्वाद्रसादिवत्, अन्यथेन्द्रियातैर परिकल्पनावैयर्थ्यम् तस्यैवाशेषार्थ ग्राहकत्वप्रसङ्गात् । द्वितीयपक्षेपि अभिधानेऽप्रवर्तमानं शुद्धरूपमात्रविषयं लोचनविज्ञानं २० कथं द्विशिष्टतया स्वविषयमुद्योतयेत् ? न ह्यगृहीतविशेपेणा विशेष्ये बुद्धिः दण्डाग्रहणे दण्डिवत् । न च ज्ञानान्तरे तैस्य प्रतिभासाद्विशेषणत्वम्, तथा सति अनयोर्भेदसिद्धिः स्यादित्युक्तम् । अभिधानानुषेकार्थस्मरणात्तथाविधौर्थदर्शनसिद्धिः; इत्यप्य
१ शब्दानुविद्धार्थ | २ (शब्द) । ३ भवता परेण । ४ अर्धस्य शब्देन तादात्म्यम् । ५ शब्द । ६-७ अर्थः । ८ अर्थ । ९ शब्दार्थों नैकरूपाविति धर्मी । १० साधनसमर्थनं । ११ अर्थ | १२ अर्थाकार । १३ दण्डिपुरुषेण व्यभिचारो बानुमानस्य । १४ शब्द । १५ अर्थाकार | १६ शब्दार्थयोः । पदार्थाः स्ववाच - यदभिन्नास्तद्विशेषणविशिष्टत्वात् । १७ रूपविशेषणविशिष्टघटवत् । १८ तादात्म्येन । १९ अर्थात् । २० तत्तस्यां प्रवर्तते चेत् । २१ लोचनाच्छ्रोत्रादि । २२ रसादि । २३ शब्दे । २४ केवल । २५ भिन्नवाग्रूपताविशेषण । २६ शब्द | २७ अथें F २८ श्रोत्रज्ञाने । २९ वाग्रूपताविशेषणस्य । ३० रूपरूपशब्दयोः । ३१ विभिन्नेन्द्रियजनितज्ञानग्राह्येत्यादिना पूर्वमेव । ३२ परः । ३३ सम्बद्ध । ३४ पुरोवर्ति । ३५ यद्रूपार्थस्य दर्शनं तद्रूपार्थस्य स्मरणमिति वचनात् ।
1 "नास्ति शब्दार्थयोस्तादात्म्यं भिन्नदेशत्वात् भिन्नकाळत्वात भिन्नाकारत्वाद्वा स्तम्भ कुम्भवत्" । स्था० स्ला० पू० ९४ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org