________________
सू० १३ ] बौद्धाभिमतनिर्विकल्पकप्रत्यक्षस्य खंडनम् ३३ वसायित्वात्तद्विकल्पस्यादोषोऽयम्, इत्यन्यत्रापि समानम् । न हि नीलादिविकल्पोपि स्वलक्षणाध्यवसायी; तैदनालम्बनस्य तदध्यवसायित्वविरोधात् । 'मनोराज्यादिविकल्पः कथं तेंदध्यवसायी' ? इत्यभ्यस्यैव दूषणं यस्यासौ राज्याद्यग्राहकस्वभावो नास्माकम् सत्यराज्यादिविषयस्य तड्राहकस्वभावत्वाभ्युपगमात् ।
"
न चास्य विकल्पोत्पादकत्वं घटते स्वयमविकल्पकत्वात् खेलक्षणवत् विकल्पोत्पादन सामर्थ्याविकल्पकत्वयोः परस्परं विरोधात् । विकल्पवासनापेक्षस्याविकल्पकस्यापि प्रत्यक्षस्य विकल्पोत्पादन सामर्थ्यानि (वि) रोधे - अर्थस्यैव तथाविधस्य सोस्तु किमन्तर्गड़ना निर्विकल्पकेन ? अथाज्ञातोर्थः कथं तेंजनकोऽतिप्रेस- १० ङ्गात् ? दर्शनं कथम निश्चयात्मकमित्यपि समानम् ? तस्यानुभूतिमात्रेण जनकत्वे - क्षणक्षयादौ विकल्पोत्पत्तिप्रसङ्गः । यत्रार्थे दर्शनं विकल्पवासनायाः प्रबोधकं तत्रैवे तेजनकमित्यप्यसाम्प्रतम् ; तस्यानुभवमात्रेण तत्प्रबोधकत्वे नीलादाविव क्षणक्षयादोंवपि तत्प्रबोधकत्वप्रसङ्गेत् ।
तत्राभ्यासप्रकरणवैद्धिपाटवार्थित्वाभावान्न तत्तस्याः प्रबोधकमिति चेत्; अथ कोयमभ्यासो नाम-भूयोदर्शनम्, बहुशो विकल्पोत्पत्तिर्वा ? न तावद्भूयो दर्शनम् तस्य नीलादाविव
१ संशयादि । २ नीलादिविकल्पे | ३ स्वलक्षण | ४ विकल्पः स्वलक्षणाध्यवसायी न भवति तदनालम्बनत्वात् मनोराज्यादिना ( मनोराज्याध्यवसायिनेत्यर्थः ) अनेकान्तोऽस्य । ५ मनोराज्यादिस्वरूपालम्बनोपि राज्याध्यवसायी । ६ बौद्धस्य । ७ मनोराज्यादिविकल्पस्य । ८ किंच । ९ निर्विकल्पकदर्शनस्य । १० स्वलक्षणे यथा । ११ अविकल्पत्वं च स्याद्विकल्पोत्पादनसामर्थ्यं च स्यादिति सन्दिग्धानैकान्तिकत्वे सत्याह । १२ अभिलापसंसर्गयोग्यताराहित्यम विकल्पकत्वं तस्मिन्सति कथं विकल्पोत्पादनसामर्थ्यं स्यादविकल्पकस्य । १३ परः । १४ विकल्पवासनापेक्षस्य । १५ (परः) अगृहीतः । १६ विकल्प । १७ सर्वस्य सर्वत्र विकल्पं जनयेत् । १८ विकल्पजनकं । १९ उभयत्रापि । २० विकल्प | २१ यथा नीलमिदमिति विकल्पस्तथा क्षणिकमिदमिति विकल्पः स्यात् । २२ न क्षणक्षयादौ । २३ विकल्प । २४ स्वसंवेदनेन । २५ स्वर्गप्रापणशक्ति । २६ दर्शनस्य । २७ अनुभूतिमात्राविशेषात् । २८ पश्यन्नयं क्षणिकमेव पश्यतीति वचनात् । २९ इदं क्षणिकमिदं क्षणिकमिति । ३० प्रस्ताव । ३१ दर्शन ।
1 तुलना - 'अथ मतम् - अभ्यासप्रकरणबुद्धिपाटवार्थित्वेभ्यो..
Jain Educationa International
प्रमाण प० पृ० ५४ । स्वा० रत्नाकर पृ० ५४।
For Personal and Private Use Only
१५
www.jainelibrary.org