________________
सू० १११] ज्ञातृव्यापारविचारः
२१ कार्यकारणभावादिसम्बन्धानां द्वयी गतिः। नियमानियमाभ्यां स्यादनियमादनङ्गता ॥ १ ॥ सर्वेऽप्यनियमा ह्येते नानुमोत्पत्तिकारणम् । नियमात्केवलादेव न किञ्चिन्नानुमीयते ॥२॥ एवं परोक्तसम्बन्धप्रत्याख्याने कृते सति ।
नियमो नाम सम्बन्धः स्वमतेनोच्यतेऽधुना ॥ ३॥[ ] इत्यादि।
सं च सम्बन्धः किमन्वयनिश्चयद्वारेण प्रतीयते, व्यतिरेकनिश्चयद्वारेण वा ? प्रथमपक्षे किं प्रत्यक्षेण, अनुमानेन वा तन्निश्चयः ? न तावत्प्रत्यक्षेण; उभयरूपग्रहणे ह्यन्वयनिश्चयः, न च १० शातृव्यापारस्वरूपं प्रत्यक्षेण निश्चीयते इत्युक्तम् । तेंदभावे च-न तत्प्रतिबद्धत्वेनार्थप्रकाशनलक्षणहेतुरूपमिति । नाप्यनुमानेन अस्य निश्चितान्वयहेतुप्रभवत्वाभ्युपगमात् । न च तस्यान्वयनिश्चयः प्रत्यक्षसमधिगम्यः पूर्वोक्तदोषानुषङ्गात् । नाप्यनुमानगम्यः; तर्दैनन्तरप्रथमानुमानाभ्यां तन्निश्चयेऽनवस्थेतरेतराश्रया-१५ नुषङ्गात् । नापि व्यतिरेकनिश्चयद्वारेण; व्यतिरेको हि साध्याभावे हेतोरभावः। न च प्रकृतसाध्याभावः प्रत्यक्षाधिगम्यः, तस्य झातृव्यापाराविषयत्वेन तद्भाववत्तदभावेऽपि प्रवृत्तिविरोधात् । समर्थितं चास्य तदविषयत्वं प्रागिति । नाप्यनुमानाधिगम्यः, अत एव । * अथानुपलम्भनिश्चयः अत्रापि किं दृश्यानुपलम्भोऽभिप्रेतः, 'अदृश्यानुपलम्भो वा ? यद्यदृश्यानुफैलम्भः; नासौ गमकोऽतिप्रेसङ्गात् । दृश्यानुपलम्भोऽपि चतुर्दा भिद्यते स्वभाव-कारण-व्यापकानुपलम्भविरुद्धोपलम्भभेदात् । तत्र न तावदाद्योयुक्तः; स्वभा
१ एवं सति च किम् । २ गोपालघटिकादौ व्यभिचारात् । ३ अनुमान प्रति । ४ सौगतायुक्त । ५ प्रभाकरमतेन । ६ साध्यसाधनयोरविनाभावलक्षणः । ७ शात. व्यापारे सति अर्थप्रकाशलक्षणो हेतुर्न घटते। ८ साध्यसाधनरूप। ९ पूर्वम् । १० शादृव्यापारस्य । ११ सम्बद्ध । १२ अर्थप्रकाशो ज्ञातृव्यापारहेतुकस्तस्मिन् सत्येवोपजायमानत्वादित्यनुमानेन। १३ हेतोः । १४ द्वितीयानुमान। १५ अर्थप्रकाशान्यथानुपपत्तिशातुर्व्यापारयो(?)रन्वयः तस्मिन्ननुमानं । तत्स्वयमेव जानाति अनुमानान्तरेण वा । प्रथमस्येतरेतराश्रयः । द्वितीयेऽनवस्था । १६ शातृव्यापारलक्षण । १७ यद्धि यद्भावग्राहकं तदेव तद्भावग्राहकमिति । १८ तद्भाववत्तदभावेऽपि प्रवृत्तिविरोधात् । १९ व्यतिरेकः ज्ञातृव्यापार आत्मनि नास्ति अनुपलभ्यमानत्वात् खर. शृङ्गवदित्यनुपलम्भस्वरूपम्। २० पदार्थानां । २१ पिशाचपरमाण्वादेरपि गमकवं स्यात् । २२ शुद्धभूतलोपलम्भ एव स्वभावानुपलम्भः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org