________________
२७
१२
प्रमेयकमलमार्तण्डे [प्रथमपरि० स्वयमकारकत्वे पररूपेणाप्यकारकत्वात् तेद्वा”च्छेदतो न कुतश्चित् किश्चिदुत्पद्येत । ततः स्वरूपेणैव भावाः कार्यस्य कर्तार इति न कदाचित्तत्कियोपॅरतिः स्यात् ।
ननु कार्याणां सामग्रीप्रभवस्वभावत्वात् तस्याश्चापरापरप्रंत्यय५योगरूँपत्वात्प्रत्येकं नित्यानां तकियास्वभावत्वेऽप्यनुत्पत्तिस्तेषामिति, तदप्यसाम्प्रतम् ; यतोऽयमेकोऽपि भावः क्रमभाविकार्योत्पादने समर्थोऽतः कथमेषां भिन्नकालापरापरप्रेत्यययोगलक्षणाऽनेकसामग्रीप्रभवस्वभावता स्यात् ? एकेनापि हि तेन तजनन·
सामर्थ्य विभ्राणेन तान्युत्पादयितव्यानि, कथमन्यथा केवलस्य १०तजननस्वभावता सिद्ध्येत् ? तस्याःकार्यप्रादुर्भावानुमीयमानव
रूपत्वात् प्रयोगः-यो यन्न जनयति नासौ तजननवभावः यथा गोधूमो यवाङ्करमजनयन्न तेजननस्वभावः, न जनयति चायं केवलः कदाचिदप्युत्तरोत्तरकालभावी नि प्रत्ययान्तरापेक्षाणि कार्याणीति । ननु प्रत्ययान्तरमपेक्ष्य कार्यजननस्वभावत्वान्नासौ १५केवलस्तजनयति,न च सहकारिसहितासहितावस्थयोरस्य खभा
वभेदः,प्रत्ययान्तरापेक्षस्वकार्यजननवभावतायाःसर्वदाभावात् , तदप्यपेशलम् । यतः प्रेत्ययान्तरसन्निधानेऽपि स्वरूपेणैास्य कार्यकारिता, तञ्च प्राँगष्यस्तीति प्रागेातः कार्योत्पत्तिः स्यात् ।
प्रत्ययान्तरेभ्यश्चास्यातिशयसम्भवे तदपेक्षा स्यादुपकारकेष्वे२० वास्याः सम्भवात् , अन्यथाऽतिप्रैसङ्गात् । तत्सन्निधानस्यासनि
धानतुल्यत्वाच केवल एवासौ कार्य कुर्यात्, अकुर्वश्च केवलः सहितावस्थायां च कुर्वन् कथमेकस्वभावो भवेद्विरुद्धधर्माध्यासतः स्वभावभेदानुषङ्गात् ?
किञ्च सकलानि कारकाणि साकल्योत्पादने प्रवर्तन्ते, असक२५लानि वा ? न तावत्सकलानि साकल्यासिद्धौ तत्सकलत्वासिद्धेः।
१ आत्मादिरूपेणापि । २ कारक। ३ कार्य। ४ स्वाधीनतया। ५ कार्य । ६ करण। ७ विश्रामः। ८ परः। ९ कारण। १० कदाचित् रूपभिन्नकालक्रममाविकारणयोगरूपत्वात् । ११ केवलं । १२ करण। १३ नित्यः। १४ कारण । मा। १५ नित्यस्य। १६ केवलेन। १७ परिणामित्वं । १८ न तथा। *प्रत्येकमात्मादिर्धमी (*केवल:) तदजनकत्वादिति हेतुः तज्जननस्वभावो न भवतीति साध्यम् । १९ हेतुः। २० धर्मः । २१ अयमेवोपनयः । २२ तस्मादात्मादिः प्रत्येकमुत्तरोत्तरं निगमनम्। २३ परः। २४ कारणान्तरं । २५ सहकारिलक्षणकारणान्तर। २६ नित्यस्य। २७ सहकारिसन्निधानात् । २८ आत्मादिकारकात् । २९ कारकस्य । ३० उपकारकाणामेवापेक्षा भवति नाऽन्येषामित्यर्थः। ३१ अनुपकारकेष्वेव सम्भवे । ३२ पटोत्पत्ती कुविन्दस्य मृत्पिण्डे अपेक्षा भवेत् । ३३ अनुपकारकप्रत्ययान्तर । ३४ प्रमाण ।
३५ यतोऽद्यापि विचार्यमाणं (ततः)। ३६ द्वित्राणामपि प्रामोति । Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org