________________
प्रमेयकमलमार्तण्डे
[प्रथमपरि०
धानेऽपियन्नोत्पद्यते तत्तत्करणकम् , यथा कुठारासन्निधाने कुठार(काष्ठ)च्छेदनमनुत्पद्यमानं कुठारकरणकम् , नोत्पद्यते च भावेन्द्रियासन्निधाने स्वार्थसंवेदनं सन्निकर्षादिसद्भावेऽपीति तद्भावेन्द्रियकरणकम्' इत्यनुमानतःप्रसिद्धखभावायाःखार्थावभासिज्ञा५नलक्षणप्रमाणसामग्रीत्वतः तदुत्पत्तावेव साधकतमत्वोपपत्तेः। ततोऽन्यनिरपेक्षतया स्वार्थपरिच्छित्तौ साधकतमत्वाज्ञानमेव प्रमाणम् । तद्धेर्तुत्वात्सन्निकर्षादेरपि प्रामाण्यम् , इत्यप्यसमीचीनम्। छिदिक्रियायां करणभूतकुठारस्य हेतुत्वादयस्कारादेरपि प्रामाण्यप्रसङ्गात् । उपचारमात्रेणाऽस्य प्रामाण्ये च आत्मादेरपि १० तत्प्रसङ्गस्तद्धेतुत्वाविशेषात् ।
ननु चात्मनः प्रेमातृत्वाद् घटादेश्च प्रमेयत्वान्न प्रमाणत्वं प्रमातृप्रमेयाभ्यामर्थान्तरस्य प्रमाणत्वाभ्युपगमात् इत्यप्यसङ्गतम्; न्यायप्राप्तस्याभ्युपैगममात्रेण प्रतिषेधायोगात्, अन्यथा 'अचेतनादर्थान्तरं प्रमाणम्' इत्यभ्युपैगमात्सन्निकर्षादेरपि तेन १५स्यात् । किञ्च प्रमेयत्वेन सह प्रमाणत्वस्य विरोधेप्रमाणमप्रमेयमेव स्यात्, तथा चौसत्त्वप्रसङ्गः संविनिष्ठत्वाद्भावव्यवस्थितेः, इत्ययुक्तमेतत्- "प्रमाता प्रमाणं प्रमेयं प्रमितिरिति चतसृष्वेवंविधासु तत्त्वं
१ तस्मात् । २ ता। ३ योग्यता । ४ शाने साधकतमत्वसामर्थ्य । ५ भावेन्द्रियात्। ६ सन्निकर्ष । कारकान्तर । ७ परः। ८ तत्प्रसङ्गादिति पाठान्तरम् । ९ प्रमातुः। १० मुख्यज्ञान। ११ परः। १२ कर्तृत्वात् । १३ मिन्नस्य। १४ परेषाम्। १५ युक्त्या प्राप्तस्य प्रमाणत्वस्य । १६ युक्त्या रहिताभ्युपगनेन । १७ चेतनं । १८ परैः जैनैः। १९ अचेतनत्वात् । २० प्रामाण्यं । २१ वस्तुनि । २२ प्रमितिविषयाः प्रमेया इति वचनाज्ञानविषयत्वाद्भावस्य व्यवस्थितेः प्रमितिविषयप्रमेयत्वे सत्येव सत्त्वव्यवस्थितिस्तत्तु प्रमाणो नास्त्येवाप्रमेयरूपत्वादिति भावः । २३ अप्रमेयत्वं स्यादसत्वं च न स्यादिति ( हेतोः) सन्दिग्धानकान्तिकत्वे सत्याह । २४ परिच्छित्ति ज्ञान । २५ प्रमाणं सन्न भवति अप्रमेयत्वात्खरविषाणवत्। २६ सत्ता। २७ पदार्थ । २८ ततश्च । २९ परमार्थः।
1 'ननु प्रमातृप्रमेययोरपि उपलब्धिहेतुत्वात् प्रमाणत्वं प्रसज्येत विशेषो वा वक्तव्यः इति ? अयं विशेष:-प्रमातृप्रमेययोचरितार्थत्वात्-प्रमाणे प्रमाता प्रमेयं च चरितार्थम्' अचरितार्थ च प्रमाणम् अतस्तदेव उपलब्धिसाधनमिति' न्याय वा० पृ० ५ । .2 'यस्येप्साजिहासाप्रयुक्तस्य प्रवृत्तिः स प्रमाता, येनार्थ प्रमिणोति तत्प्रमाणम्, योऽर्थः प्रमीयते तत्प्रमेयम् , यत् अर्थविज्ञानं सा प्रमितिः, चतसृषु चैवंविधासु तत्त्वं परिसमाप्यते' न्यायभा० पृ० २।
www.jainelibrary.org
Jain Educationa International
For Personal and Private Use Only