________________
सू० १।१] सन्निकर्षवादः · योग्यता च शैक्तिः, प्रतिपत्तुः प्रतिबन्धापायो वा ? शक्तिश्चेत्, किमतीन्द्रिया, सहकारिसान्निध्यलक्षणा वा ? न तावदतीन्द्रिया; अनभ्युपंगमात् । नापि सहकारिसान्निध्यलक्षणा; कारकोंकल्यपक्षोक्ताशेषदोषानुषङ्गात् । सहकारिकारणं चात्र द्रव्यम्, गुणः, कर्म वा स्यात् ? द्रव्यं चेत् ; किं व्यापि द्रव्यम् , अव्यापि द्रव्यं वा१५ न तावद् व्यापिद्रव्यम् । तत्सानिध्यस्याकाशादीन्द्रियसनिकर्षेऽप्यविशेषात् । कथमन्यथा दिक्कालाकाशात्मनां व्यापिद्रव्यता? अथाऽव्यापि द्रव्यम् ; तत्किं मनः, नयनम् , आलोको वा ? त्रितयस्याप्यस्य सान्निध्यं घंटादीन्द्रियसन्निकर्षवदाकाशादीन्द्रियसनिकर्षेऽप्यस्त्येव । गुणोऽपि तत्सहकारी प्रमेयगतः, प्रमातृगतो वा १० स्यात्, उभयगतो वा । प्रमेयंगतश्चेत् ; कथं नाकाशस्य प्रत्यक्षता द्रव्यत्वतोऽस्यापि गुणसद्भावाविशेषात् ? अमूर्तत्वान्नास्य प्रत्यक्षतेऽत्यप्ययुक्तम् । सामान्यादेरप्यप्रत्यक्षत्वप्रसङ्गात् । प्रमातृगतोऽप्यदृष्टोऽन्यो वा गुणो गगनेन्द्रियसनिकर्षसमयेऽस्त्येव । न खलु तेनास्य विरोधो येनानुत्पत्तिः प्रध्वंसो वा तत्सद्भावेऽस्य १५ स्यात् । उभयगतपक्षेऽप्युभयपक्षोपक्षिप्तदोषानुषङ्गः। कर्माऽप्यर्थान्तरगतम् , इन्द्रियगतं वा तत्सहकारि स्यात् ? न तावदर्थान्तरयतम् । विज्ञानोत्पत्तौ तस्यानङ्गत्वात् । इन्द्रियगतं तु तत्तत्रास्त्येव; आकाशेन्द्रियसन्निकर्षे नयनोन्मीलनादिकर्मणः सद्भावात् । प्रतिबन्धीपायरूपयोग्यतोपगमे तु सर्व सुस्थम्, यस्य यंत्र यथाविधो २० हि प्रतिबन्धापायस्तस्य तत्र तथाविधार्थपरिच्छित्तिरुत्पद्यते । प्रतिबन्धापायश्च प्रतिपत्तुः सर्वज्ञसिद्धिप्रस्तावे प्रसाधयिष्यते । . न च योग्यताया एवार्थपरिच्छित्तौ साधकतमत्वतः प्रमाणत्वानुषङ्गात् 'ज्ञानं प्रमाणम्' इत्यस्य विरोधः, अस्याः स्वार्थग्रहणशक्तिलक्षणभावेन्द्रियस्वभावायाः यदसन्निधाने कौरकान्तरसन्नि-२५ . १ सन्निकर्षस्य । २ ऐन्द्रिया चेद् घटवदृश्येत न च दृश्यते इयमतोऽतीन्द्रिया। ३ परैः। ४ धर्मकार्यपक्षयोः धर्मरूपे पक्षे । ५ सन्निकर्षे । ६ क्रिया। ७ रूपरूपत्व । ८ झेयपदार्थ। ९ परः। १० गन्धादेः। ११ पुण्यपापरूपः । १२ इच्छादिः। १३ नभोनयनसन्निकर्षेण । १४ सहकारिगुणस्य । १५ सन्निकर्ष । १६ गुणस्य । १७ प्रमेय । १८ सत्रिकर्ष । १९ अन्यथा स्थिरार्थानामप्रतीतिप्रसङ्गात् । २० निमीलन। २१ आवरमापाय। २२ घटादौ प्रमोत्पद्यते नाकाशादाविति । २३ नुः । २४ अथें । २५ शानं। २६ नरस्म । २७ लक्षणस्य । २८ न च विरोधो कुतः। सामग्रीत्वत इति पर्यन्तमस्य हेतुष्टव्यः । २९ भावेन्द्रिय। ३० अनुमानम्। यदभावसन्निकर्षादिसद्भावौ धर्मिणौ। स्वार्थसंवेदनजनको न भवत इति साध्यो धर्मः। तदनुपपद्यमानत्वात् । ३१ सन्निकर्ष ।
1 तु०-यदसन्निधाने कारकान्तरसन्निधाने इत्यादि प्रमाण पृ० ५१ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org