________________
प्रमेयकमलमार्तण्डे [प्रथमपरि० तद्भावाऽविरोधात् । तत्र क्षयोपशमविशेषवशात्-‘स्वपरप्रमेयस्खरूपंप्रमिमीते यथावजानाति' इति प्रमाणमात्मा, खपरग्रहणपरिणतस्थापरतन्त्रस्याऽऽत्मन एव हि कर्तृसाधनप्रमाणशब्देनाभिधानं
खातन्येण विवक्षितत्वात्-खपरप्रकाशात्मकस्य प्रदीपादेः प्रका५शोभिधानवत् । साधकतमत्वादिविवक्षायां तु-प्रमीयते येन तत्प्रमाणं प्रमितिमात्रं वा प्रतिबन्धापाये प्रादुर्भूतविज्ञानपर्यायस्य प्राधान्येनाश्रयणात् प्रदीपोदेः प्रभाभारात्मकप्रकाशवत् ।
मेर्दाभेदयोः परस्परपरिहारेणावस्थानादन्यतरस्यैव वास्तवत्वादुभयात्मकत्वमयुक्तम् ; इत्यसमीक्षिताभिधानम् ; बाधकप्रमाणा१० भावात् । अनुपलम्भो हि बाधकं प्रमाणम् ,न चात्र सोऽस्ति-सकल
भावेषूभयात्मकत्वग्राहकत्वेनैवाखिलाऽस्खलत्प्रत्ययप्रतीतः। विरोधोबाधकः; इत्यप्यसमीचीनम् ; उपलम्भसम्भवात्। विरोधो हनुपलेम्भसाध्यो यथा-तुरङ्गमोत्तमाङ्गे शृङ्गस्यै, अन्यथा खरूपेणापि तद्वतो विरोधः स्यात् । न चानयोरेकत्र वस्तुन्यनुपलम्भोस्ति१५अभेदमात्रस्य भेदमात्रस्य वेतरनिरपेक्षस्य वस्तुन्यप्रतीतेः । कल्प
यताप्यभेदमात्रं भेदमा वा प्रतीतिरवश्याऽभ्युपगमनीया-तनिबन्धनत्वाद्वस्तुव्यवस्थायाः । सा चेदुभयात्मन्यप्यस्ति किं तत्र स्वसिद्धान्तविषमग्रहनिबन्धनप्रद्वेषेण-अप्रामाणिकत्वप्रसङ्गादित्य
लमतिप्रसङ्गेन, अनेकान्तसिद्धिप्रक्रमे विस्तरेणोपैक्रमात् । २० वैश्यमाणलक्षणलक्षितप्रमाणभेदमभिप्रेत्यानन्तरसकलप्रमाणविशेषसाधारणप्रमाणलक्षणपुरःसरः 'प्रमाणाद्' इत्येकवचननिदेशः कृतः।का हेतौ। अर्थ्यतेऽभिलष्यते प्रयोजनार्थभिरित्यर्थों हेय उपादेयश्च । उपेक्षणीयस्यापि परित्यजनीयत्वाद्धेयत्वम् ; उपादानक्रियां प्रत्यकर्मभावानोपादेयत्वम् , हानक्रियां प्रति विपर्ययात्तत्व२५म्।तथा च लोको वदति अहमैंनेनोपेक्षणीयत्वेन परित्यक्तः' इति।
१ कथनं। २ कर्तृसाधनोऽयम् । ३ भाव । ४ सम्बन्धिनः। ५ करणे भावे चात्र पञ्। ६ परः शकते । ७ भेदस्याऽभेदस्य वा। ८ पदार्थेषु । ९ उपलम्भो यत्र भेदस्तत्राभेद इति । १० अभावः। ११ अभावोऽर्थधर्मोयम् । १२ शानधर्मोऽ. यम् । १३ विरोधः। १४ पदार्थस्य । १५ भावाभावयोः। १६ भेदस्याभेदस्य वा। १७ प्रतिवादिना। १८ अन्यथेति शेषः । १९ प्रारम्भात् । २० विशदं प्रत्यक्षमविशदं परोक्षमिति । २१ अविवक्षितत्वात् । २२ स्वापूर्वेत्यादि । २३ पञ्चमी। २४ अर्थस्य । २५ हेयत्वेऽर्थेऽन्तर्भावादित्यर्थः । २६ ज्ञानविषयभूतं वस्तु कर्माभिधीयते मध्यस्थभावेन स्थितत्वात्कर्मभावं न प्राप्त इत्यर्थः। २७ कर्मभावाद । २८ हेयत्वम् । २९ पुरुषेण ।
www.jainelibrary.org
Jain Educationa International
For Personal and Private Use Only