Book Title: Yogshastra Part 01
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
Catalog link: https://jainqq.org/explore/002392/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ अर्हम् श्रीवृद्धिचन्द्रगुरुभ्यो नमः । कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणोतं योगशास्त्रम् । खोपजविवरणसहितम् । प्रणम्य सिद्धाद्भुतयोगसम्पदे श्रीवीरनाथाय विमुक्तिशालिने । खयोगशास्त्रार्थविशेषनिर्णयो भव्यावबोधाय मया विधास्यते ॥१॥ तस्य चायमादिश्लोकःनमो दुर्वाररागादिवैरिवारनिवारिणे । अर्हते योगिनाथाय महावीराय तायिने ॥ १ ॥ अत्र महावीरायेति विशेष्यपदम् । विशेषेण ईरयति क्षिपति कम्माणीति चौरः । विदारयति यत्कम्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद्दौर इति स्मृतः ॥ १ ॥ इति लक्षणाबिरुताहा वीरः महांश्वासावितरवीरापेक्षया बीरश्च महावीरः इदं च जन्ममहोत्सवसमये समुशरीरोऽयं कथं जलप्रारभारभार सोढेति शक्रशङ्काशगुसमुद्धरणाय भगवता वाम Page #2 -------------------------------------------------------------------------- ________________ योगशास्त्रे चरणाङ्गुष्ठनिपीडितसुमेरुशिखरप्रकम्पमानमहीतलोल्लसितमरित्पतिक्षोभशशितब्रह्माण्डभाण्डोदरदर्शनप्रयुक्तावधिज्ञानज्ञातप्रभावातिशयविस्मितेन वास्तोष्पतिना नाम निर्ममे महावीरोऽयमिति । तत्पुनरनादिप्रभवप्ररूढप्रौढकम्म'समुन्मूलनबलेन यथार्थीकतञ्च भगवता । वईमान इति तु नाम मातरपितराभ्यां कृतम्। श्रमणो. देवार्य इति च जनपदेन । तस्मै नम इति सम्बन्धः । शेषाणि विशेषणानि । तैस्तु सद्भूतार्थप्रतिपादनपरैश्चत्वारो भगवदतिशयाः प्रकाश्यन्ते तत्र पूर्वाई नापायापगमातिशयः। अपायभूता हि रागादयस्तदपगमेन भगवतः स्वरूपलाभः । १। अर्हते इत्यनेन च सकलसुरासुरमनुजजनितपूजाप्रकर्षवाचिना पूजातिशयः । २ । योगिनाथायेत्यनेन तु ज्ञानातिशयः योगिनोऽवधिजिनादयस्तेषां नाथो विमलकेवलबलावलोकितलोकालोकस्वभावो भगवानेव ।। तायिने इत्यनेन तु वचनातिशयः । ४ । तायी सकलसुरासुरमनुजतिरश्चां पालकः। पालकत्वं च सकलभुवनाभयदानसमर्थसमग्रभाषापरिणामिधर्मदेशनाद्वारेण भगवत एव । पालकत्वमात्रं तु स्वापत्यार्थ्याघ्रादीनामपि सम्भवति । तदेवं चतुरतिशयप्रतिपादनबारेण भगवतो महावीरस्य पारमार्थिको स्तुतिरभिहितेति ॥ १॥ पुनर्योगगभी स्तुतिमाह (१) ख -अपनयन-। ___(२) ख म -सर्व-। Page #3 -------------------------------------------------------------------------- ________________ प्रथम प्रकाशः । पन्नगे च सुरेन्द्र च कौशिक पादसपशि । निर्विशेषमनस्काय श्रीवीरखामिने नमः ॥ २ ॥ पन्नगस्य कौशिकत्वं पूर्वभव स्थितकौशिकगोत्रत्वेन। बुध्यस्त्र कौशिकेति भगवता तथैव भाषितत्वेन च सुरेन्द्रस्य तु कौशिकत्वं कौशिकाभिधानात् । पादस्पर्शश्च पन्नगस्य दशनबुद्धया सुरेन्द्रस्य च भक्त्यतिशयेन। निर्विशेषमनस्कत्वं च भगवतो हेषरागविशेषरहितत्वेन माध्यस्थ्यात् । सम्प्रदायगम्यश्चायमर्थस्तथाहि श्रीवीरः प्राणतस्वर्गपुष्योत्तरविमानतः । पूर्वजन्माज्जितौजस्वितीर्थक्कनामकम्मकः ॥ १ ॥ ज्ञानत्रयपवित्रात्मा सिद्धार्थनृपवेश्मनि । त्रिशलाकुक्षौ सरस्यां राजहंस इवागमत् ॥ २ ॥ (युग्म) सिंहो गजो वषः साभिषेक श्रीः स्रक शशी रविः । महाध्वजः पूर्णकुम्भः पद्मसरः सरित्पतिः ॥ ३ ॥ विमानं रत्नपुञ्जश्च नि माग्निरिति क्रमात् । देवी चतुर्दशस्वप्नानपश्यत्तत्र गर्भगे ॥ ४ ॥ त्रैलोक्योद्योतकहेवदानवासनकम्पलत् । अपि नारकजन्तूनां क्षणदत्तसुखासिकम् ॥ ५ ॥ प्रभुः सुखं सुखेनैव जन्म प्राप शुभे दिने । तत्कालं दिक्कुमार्यश्च सूतिकम्माणि चक्रिरे ॥ ६ ॥ (१) ख ग -भूत-1 Page #4 -------------------------------------------------------------------------- ________________ योगशास्त्रे की । ... अथ जन्माभिषेकाय कृत्वोत्सङ्गे जगत्प्रभुम् । मेरुमूट्टि सुधर्मेन्द्रः सिंहासनमशिश्रियत् ॥ ७॥ इयन्तं वारिसम्भारं कथं स्वामी सहिष्यते । इत्याशशङ्ख, शक्रेण भक्तिकोमलचेतसा ॥ ८ ॥ तदाशङ्कानिरासाय लीलया परमेश्वरः । मेरुशैलं वामपादाङ्गुष्ठाग्रेण न्यपीडयत् ॥ ८॥ शिरांसि मेरोरनमन्नमस्कर्तुमिव प्रभुम् । तदन्तिक मिवायातमचलंश्च कुलाचलाः ॥ १० ॥ अतुच्छमुच्छलन्तिस्म मात्रं कर्तुमिवार्मवाः । विवेपे सत्वरं तत्र नर्तनाभिमुखेव भूः ॥ ११ ॥ किमेतदिति सञ्चिन्त्यावधिज्ञानप्रयोगतः । । लोलायितं भगवतो विदाञ्चक्रे बिडोजसा ॥ १२ ॥ वामिन्ननन्यसामान्यं सामान्यो मादृशो जनः । विदाङ्करोतु माहात्मा कथङ्कारं तवेदृशम् ॥ १३ ॥ तन्मिथ्यादुष्कृतं भूयाच्चिन्तितं यन्मयाऽन्यथा । इतीन्द्रेण ब्रुवाणन प्रणेमे परमेश्वरः ॥ १४ ॥ सानन्दं वादितातोद्यं चक्रे शक्रजंगगुरोः । तीर्थगन्धोदकैः पुण्यैरभिषेकमहोत्सवः ॥ १५ ॥ अभिषेकजलं तत्तु सुरासुरनरोरगाः । ववन्दिर मुहुः सर्वाङ्गीणं च परिचिक्षिपुः ॥ १६ ॥ प्रभुमात्रजलालोढा वन्दनीया मृदप्यभूत् । गुरूणां किल संसर्गागौरवं स्याल्लघोरपि ॥ १७ ॥ नांगेरामा Page #5 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । 37 . निवेश्यशानशकाके सौधर्मेन्द्रोऽप्यथ प्रभुम् । .... सपयित्वा'ऽर्चयित्वारात्रिकं त्वेति तुष्टुवे ॥ १८ ॥ नमोऽईते भगवते स्वयम्बुद्धाय वेधसे । तीर्थङ्करायादिवते पुरुषेषूत्तमाय ते ॥ १८ ॥ नमो लोकप्रदीपाय लोकप्रद्योतकारिण। लोकोत्तमाय लोकाधीशाय लोकहिताय ते ॥ २० ॥ नमस्ते पुरुषवरपुण्डरीकाय शम्भवे । -००० पुरुषसिंहाय पुरुषैकगन्धद्दिपाय ते ॥ २१ ॥ चक्षुर्दायाभयदाय बोधिदायाध्वदायिने । धर्मदाय धर्मदेष्ट्रे नमः शरणदाय ते ॥ २२ ॥ . धर्मसारथये धम्मनेत्रे धर्मेकचक्रिण । .. व्यावृत्तच्छद्मने सम्यक्ज्ञानदर्शनधारिणे ॥ २३ ॥ जिनाय ते जापकाय तीर्णाय तारकाय च। विमुक्ताय मोचकाय नमो बुद्धाय बोधिने ॥ २४ ॥ सर्वज्ञाय नमस्तुभ्यं खामिने सर्वदर्शिने । स । सातिशयपात्राय कम्माष्टकनिषूदिने ॥ २५ ॥ तुभ्यं क्षेत्राय पात्राय तीर्थाय परमात्मने । स्थाहादवादिने वीतरागाय मुनये नमः ॥ २६ ॥ पूज्यानामपि पूज्याय महदभ्योऽपि महीयसे । आचार्याणामाचार्याय ज्येष्ठानां ज्यायसे नमः ॥ २७ ॥ + U9 (१) क ख ग अर्चयित्वाथ कृत्वाराविकमस्त वीत् । Page #6 -------------------------------------------------------------------------- ________________ योगशास्त्रे नमो विश्वभुवे तुभ्यं योगिनाथाय योगिने । उत्तम पावनाय पवित्रायानुत्तरायोत्तराय च ॥ २८ ॥ 172 551 योगाचार्याय सम्प्रक्षालनाय प्रवराय च । الورد अग्रप्राय वाचस्पतये 'मङ्गल्याय नमोऽस्तु ते ॥ २८ ॥ सूर्य नमः पुरस्तादुदितायैकवीराय भास्वते । ॐ भूर्भुवःखरिति वाक्स्तवनीयाय ते नमः ॥ ३० ॥ नमः सर्व्वजनीनाय सर्व्वार्थायामृताय च । उदितब्रह्मचर्यायाप्ताय पारगताय ते ॥ ३१ ॥ नमस्ते दक्षिणीयाय निर्विकाराय तायिने । वज्रऋषभनाराचवपुषे तत्त्वदृश्वने ॥ ३२ ॥ नमः कालत्रयज्ञाय जिनेन्द्राय स्वयम्भुवे । ज्ञानबलवीर्यतेजः शक्त्यैश्वय्र्यमयाय ते ॥ ३३॥ आदिपुंसे नमस्तुभ्यं नमस्ते परमेष्ठिने । नमस्तुभ्यं महेशाय ज्योतिस्तत्त्वाय ते नमः ॥ ३४ ॥ तुभ्यं सिद्धार्थ राजेन्द्र कुलक्षीरोदधीन्दवे । महावीराय धीराय त्रिजगत्स्वामिने नमः ॥ ३५ ॥ इति स्तुत्वा नमस्कृत्य गृहीत्वा परमेश्वरम् । आनीय तत्क्षणं मातुरर्प्पयामास वासवः ॥ २६ ॥ स्ववंशवृद्धिकरणाद्यथार्थं पितरौ तदा । नामधेयं विदधतुर्वर्द्धमान इति प्रभोः ॥ ३७ ॥ ی را م (१) ख माङ्गल्याय | Page #7 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । सोऽहंपूर्विकया भक्तैः सेव्यमान: सुरासुरैः । दृशा पीयूषवर्षिण्या सिञ्चत्रिव वसुन्धराम् ॥ ३८ ॥ अष्टोत्तरसहस्रेण लक्षणरुपलक्षितः । निसर्गेण गुणैर्वृद्धो वयसा वधे क्रमात् ॥ ३८ ॥ राजपुत्रः सवयोभिः समं नि:सीमविक्रमः । वयोऽनुरूपकोडाभिः कदाचित्क्रीडितुं ययौ ॥ ४० ॥ तदा ज्ञात्वावधिज्ञानान्मध्ये सुरसभं हरिः। . 'धौरा अनुमहावीरमिति वीरमवर्णयत् ॥ ४१ ॥ क्षोभयिष्यामि तं धौरमेषोऽहमिति मत्सरौ। आजगामामरः कोऽपि यत्र क्रीडवभूविभुः ॥ ४२ ॥ कुत्यामलकोक्रोडां राजपुत्रैः सह प्रभो। सोऽववेष्टविटपिनं भुजगीभूय मायया ॥ ४३ ॥ तत्कालं राजपुत्रषु वित्रस्तेषु दिशोदिशि । स्मित्वा रज्जुमिवोत्क्षिप्य तं चिक्षेप क्षितौ विभुः ॥ ४४ ॥ सव्रीडाः क्रीडितुं तत्र कुमाराः पुनराययुः । कुमारीभूय सोऽप्यागात्सर्वेऽप्यारुरुहुस्तरम् ॥ ४५ ॥ . पादपाग्रं कुमारेभ्यः प्राप प्रथमतः प्रभुः । यद्दा कियदमुष्थेदं यो लोकाग्रं गमिष्यति ॥ ४६ ॥ शुशुभे भगवांस्तत्र मेरुशृङ्ग इवायैमा । लम्बमाना बभुः शाखाखन्ये शाखामृगा इव ॥ ४७ ॥ (१) क ख वीरा। (२) व वीरम् । (३) ख अविवेष्टत् । Page #8 -------------------------------------------------------------------------- ________________ योगशास्त्रे जिग्ये भगवता तत्र कृतश्चासीदयं पणः | जयेद्यइह स ह्यन्यान् पृष्ठमारुह्य वाहयेत् ॥ ४८ ॥ आरुह्यावाहयद्दाहानिव वीरः कुमारकान् । आरुरोह सुरस्यापि पृष्ठं पृष्ठो महौजसाम् ॥ ४८ ॥ ततः करालं वेतालरूपमाधाय दुष्टधीः । भूधरानप्यधरयन् प्रारब्धो वर्द्धितुं सुरः ॥ ५० ॥ वक्त्रे पातालकल्पेऽस्य जिह्वया तक्षकायितम् । पिङ्गैस्तुङ्गे शिरःशैले केशैर्दावानलायितम् ॥ ५१ ॥ तस्यातिदारुणे दंष्ट्रे अभूतां क्रकचाकृती । जाज्वल्यमाने अङ्गारशकट्याविव लोचने ॥ ५२ ॥ घोणारन्ध्रे महाघोरे महोधरगुहे इव | भृकुटीभङ्गुरे भीमे महोरग्याविव भ्रुवौ ॥ ५३ ॥ व्यरंसोद्दर्द्धनान्नासौ यावत्तावन्महौजसा । आहत्य मुष्टिना पृष्ठे स्वामिना वामनौक्कतः ॥ ५४ ॥ एवं च भगवद्धैर्यं' साक्षात् क्वत्येन्द्रवर्णितम् । प्रभुं नत्वात्मरूपेण निजं धाम जगाम सः ॥ ५५ ॥ मातापितृभ्यामन्येद्युः प्रारब्धेऽध्यापनोत्सवे । सर्व्वज्ञस्य शिष्यत्व मितोन्द्र स्तमुपास्थितः ॥ ५६ ॥ उपाध्यायासने तस्मिन्वासवेनोपवेशितः । प्रणम्य प्रार्थितः स्वामी शब्दपारायणं जगौ ॥ ५७ ॥ (१) क घ ङ वीर्यं । (२) क घ ङ -त्वे । Page #9 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाश:। इदं भगवतेन्द्राय प्रोक्तं शब्दानुशासनम् । उपाध्यायेन तच्छुत्वा लोकेष्वैन्द्रमितीरितम् ॥ ५८ ॥ मातापित्रोरनुरोधादष्टाविंशतिवत्सरीम् । कथञ्चिद्ग्रहवासेऽस्थाप्रव्रज्योत्कण्ठितः प्रभुः ॥ ५८ ॥ अथ पूर्णायुषोः पित्रोदेवभूयमुपेयुषोः । ईहाञ्चके परिव्रज्यां निरीही राज्यसम्पदः ॥ ६० ॥ भगवन्मा क्षते क्षारं क्षेप्सोरिति सगह्रदम् । भ्रात्रोत्वा ज्यायसा नन्दिवईनेनोपरोधितः ॥ ६१ ॥ भावतो यतिरवाहं नानाभरणभूषितः । कायोत्सर्ग श्रयंश्चिस्वशालिकायामवस्थितः ॥ १२ ॥ एषणीयप्रासुकाबपानवृत्तिमहामनाः । वर्षमेकं कथमपि भगवानत्यवाहयत् ॥ ६३ ॥ तीर्थं प्रवर्तयेत्यभ्यर्थितो लोकान्तिकामरैः । यथाकामीनमर्थिभ्यो दानं दातुं प्रचक्रमे ॥ ६४ ॥ हैतीयोकेन वर्षेण विनिर्मायानृणां भुवम् । औज्झट्राज्यश्रियं स्वामी मन्यमानस्तृणाय ताम् ॥ ६५ ॥ सर्देवनिकायैश्च कतनिष्क्रमणोत्सवः । सहस्रवाह्यामारुह्य शिबौं चन्द्रप्रभाभिधाम् ॥ ६६ ॥ ज्ञातखण्ड वने गत्वा सर्वसावद्यवर्जनात् । प्रव्रज्यामग्रहीदहशतुर्थप्रहरे प्रभुः ॥ ६७ ॥ जगन्मनोगतान् भावान् प्रकाशयदथ प्रभोः । नानं तुरीयं संजने मनःपर्ययसंज्ञकम् ॥ ६८ .. Page #10 -------------------------------------------------------------------------- ________________ योगशास्त्रे ततश्च गत्वा सन्ध्यायां कमारग्रामसन्निधौ । गिरीन्द्र इव निष्कम्पः कायोत्सर्ग व्यधाद्विभुः ॥ ६८ ॥ गोपालेनाथ यामिन्यां निष्कारण कतक्रुधा । उपद्रोतुं समारेभे भगवानात्मवैरिणा ॥ ७० ॥ अथेन्द्रेणावधिज्ञानाज्जज्ञे प्रभुमुपद्रवन् । स दुःशीलो महाशैलमाखुश्चेष निखत्रिव ॥ ७१ ॥ कल्याणीभक्तिरागाच्च शक्रः प्रभुपदान्तिकम् । नष्टो मत्कुणनाशं च स गोपहतकः क्वचित् ॥ ७२ ॥ तत: प्रदक्षिणीकृत्य निर्मुर्डी प्रणिपत्य च । ' इति विज्ञापयाञ्चक्रे प्रभुः प्राचीनबहिषा ॥ ७३ ॥ भविष्यति हादशाब्दान्युपसर्गपरम्परा। तां निषेधितुमिच्छामि भगवन् पारिपार्खिकः ॥ ७४ ॥ समाधि पारयित्वेन्द्रं भगवानूचिवानिति । नापेक्षाञ्चक्रिरेऽर्हन्तः परसाहायिक क्वचित् ॥ ७५ ॥ . ततो जगद्गुरुः शीतलेश्य: शीतमयूखवत् । तपस्तेजोदुरालोकोऽधिपतिस्तेजसामिव ॥ ७६ ॥ शौण्डीर्यवान् गज इव सुमेरुरिव निश्चलः । सर्वस्पर्शान् सहिष्णुश्च यथैव हि वसुन्धरा ॥ ७७ ॥ अम्भोधिरिव गम्भीरो मृगेन्द्र इव निर्भयः । मिथ्यादृशां दुरालोकः सुहुतो हव्यवाडिव ॥ ७८ ॥ खनिशृङ्गमिवैकाकी जातस्थामा महोक्षवत् । गुप्तेन्द्रियः कूर्म इवाहिरिवैकान्तदत्तदृक् ॥ ७० ॥ Page #11 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । निरञ्जनः शङ्ख इव जातरूपः सुवर्णवत् । विप्रमुक्तः खग इव जीव इवास्वलद्गतिः ॥ ८० ॥ व्योमेवानाश्रयो भारुण्डपक्षीवाप्रमद्दरः । अम्भोजिनौदलमिवोपलेपपरिवर्जितः ॥ ८१ ॥ शत्रौ मित्रे तृणे स्त्रैणे स्वर्णेऽश्मनि मणौ मृदि । इहामुत्र सुखे दुःखे भवे मोक्षे समाशयः ॥ ८२ ॥ निष्कारणैककारुण्य परायणमनस्तया । मज्जद्भवोदधौ मुग्धमुद्दिधीर्षुरिदं जगत् ॥ ८३ ॥ प्रभुः प्रभञ्जन इवाप्रतिबद्धोऽब्धिमेखलाम् । नानाग्रामपुरारण्या विजहार वसुन्धराम् ॥ ८४ ॥ देशं दक्षिणचावालमवाप्य प्रभुरन्यदा । श्वेतम्बों नगरौं गच्छन्नित्यूचे गोपदारकैः ॥ ८५ ॥ देवार्यांयमृजुः पन्थाः श्वेतम्बीमुपतिष्ठते । किन्त्वन्तरेऽस्य कनकखलाख्यस्तापसा श्रमः ॥ ८६ ॥ स हि दृग्विषसर्पेणाधिष्ठितो वर्त्ततेऽधुना । वायुमात्रैकसञ्चारोऽप्रचारः पक्षिणामपि ॥ ८७ ॥ विहाय तदमुं मार्ग वक्रेणाप्यमुना व्रज । सुवर्णेनापि किं तेन कर्णच्छेदो भवेद्यतः ॥ ८८ ॥ तं चाहिं प्रभुरज्ञासोद्यदसौ पूर्वजन्मनि । क्षपकः पारणकार्थं विहतुं वसतेरगात् ॥ ८६ ॥ गच्छता तेन मण्डूकौ पादपाताद्विराधिता । आलोचनार्थमेतस्य दर्शिता क्षुल्लकेन सा ॥ ८० ॥ ११ Page #12 -------------------------------------------------------------------------- ________________ योगशास्त्र सोऽथ प्रत्युतमण्डूकोर्दर्शयन् लोकमारिताः । जचे क्षुलं मया क्षुद्र किमता अपि मारिताः ॥ ८१ ॥ तूणीकोऽभूत्ततः क्षुल्लोऽमस्त चैवं विशुद्धधीः । महानुभावो यदसौ सायमालोचयिष्यति ॥ ८२ ॥ आवश्यकेऽप्यनालोच्य यावदेष निषेदिवान् । क्षुल्लकोऽचिन्तयत्तावविस्मृतास्य विराधना ॥ ८३ ॥ अस्मारयच्च तां भेकीमालोचयसि किं नहि। क्षफ्कोऽपि क्रुधोत्थाय क्षुल्लं हन्मोति धावित: ॥ ८४ ॥ कोपान्धश्च ततः स्तम्भे प्रतिफल्य व्यपद्यत । विराधितश्रामण्योऽसौ ज्योतिष्केषूदपद्यत ॥ ८५ ॥ स च्युत्वा कनकखले सहस्राईतपस्विनाम् । पत्युः कुलपतेः पत्नया: पुत्रोऽभूत्कौशिकाह्वयः ॥ ८६ ॥ तत्र कौशिकमोत्रत्वादासबन्केपि कौशिकाः । अत्यन्तकोपनत्वाच्च स ख्यातश्चण्डकौशिकः ॥ ८७ ॥ श्राद्धदेवातिथित्वं च तस्मिन् कुलपतौ गते । असौ कुलपतिस्तत्र तापसानामजायत । ८८ ॥ मूर्च्छया वनखण्डस्य सोऽन्तर्धाम्यवहर्निशम् । अदाल्कस्यापि नादातुं पुष्पं मूलं फलं दलम् ॥ ८ ॥ विशीर्णमपि योऽग्टह्लादने तत्र फलादिकम् । उत्पाद्य परशुं यष्टिं लोष्टं वा तं जघान सः ॥ १० ॥ फलाद्यलभमानास्तु सीदन्तस्ते तपखिनः । पतिते लगुडे काका इव जम्मुर्दिशोदिशम् ॥ १ ॥ Page #13 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । अन्येद्युः कण्टिकाहेतोः कौशिक बहिरीयुषि । अभाक्षुर्मक्षु राजन्याः श्वेतम्बया एत्य तद्दनम् ॥ २ ॥ अथ व्यावर्तमानस्य गोपास्तस्य न्यवीविदन् । पश्य पश्य वनं कैश्चिद्भज्यते भज्यते तव ॥ ३ ॥ जाज्वल्यमानः क्रोधेन हविषेव हुताशनः ।। अकुण्ठधारमुद्यम्य कुठारं सोऽभ्यधावत ॥ ४ ॥ राजपुत्रास्ततो नेशः श्येनादिव शकुन्तयः । स्खलित्वा च पपातायं यमवक्त्र इवावटे ॥ ५ ॥ पतत: पतितस्तस्य सम्मुखः परशुः शितः । शिरो विधाकृतं तेन ही विपाकः कुकर्मणाम् ॥ ६ ॥ स विपद्य वनेऽत्रैव चण्डोऽहिर्दृग्विषोऽभवत् । क्रोधस्वीबानुबन्धी हि सह याति भवान्तरे ॥ ७ ॥ अवश्यं चैष बोधार्ह इति बुद्धया जगद्गुरुः । आत्मपीडामगणयबृजुनैव पथा ययौ ॥ ८॥ .. अभवत्पदसञ्चार सुखमीभूतवालुकम् । उदपानावहत्कुल्यं शुष्कजर्जरपादपम् ॥ ८ ॥ जीर्म पसंचयास्तीम कोर्स वल्मीकपर्वतैः । स्थलीभूतोटजं जीसारण्यं न्यविशत प्रभुः ॥ १० ॥ तत्र चाथ जगन्नाथो यक्षमण्ड पिकान्तरे । तस्थौ प्रतिमया नासाप्रान्तविश्रान्तलोचनः ॥ ११ ॥ ततो दृष्टिविषः सर्प: सदो भ्रमितुं बहिः।.. बिलाविरसरजिह्वा कालरात्रिमुखादिव ॥ १२ ॥ Page #14 -------------------------------------------------------------------------- ________________ १४ योगशास्त्रे भ्रमन् सोऽनुवनं रेणुसंक्रामद्भोगलेखया । खानालेखामिव लिखन्त्रीक्षाञ्चके जगद्गुरुम् ॥ १३ ॥ अन मां किमविज्ञाय किमवज्ञाय कोऽप्यसौ। शः प्रविष्टो निराशझं निष्कम्मः शङ्खवत् स्थितः ॥ १४ ॥ तदेनं भस्मसादद्य करोमोति विचिन्तयन् । आभायमानं कोपेन फटाटोपं चकार सः ॥ १५ ॥ ज्वालामालामुद्दमन्त्या निर्दहन्त्या लताद्रुमान् । भगवन्तं दृशापश्यत्स्फारफत्कारदारुणः ॥ १६ ॥ दृष्टिज्वालास्ततस्तस्य ज्वलन्यो भगवत्तनौ। विनिपेतुर्दुरालोका उल्का इव दिवो गिरौ ॥ १७ ॥ प्रभोर्महाप्रभावस्य प्रभवन्ति स्म नैव ताः। । महानपि मरुन्मेरं किं कम्पयितुमीखरः ॥ १८ ॥ दारुदाहं न दग्धोऽसावद्यापीति क्रुधा ज्वलन् । दर्श दर्श दिनकरं दृग्ज्वालाः सोऽमुचत्पुनः ॥ १८ ॥ सम्पन्नासु प्रभौ वारिधाराप्रायासु तास्वपि । ददंश दन्दशूकोऽसौ निःशूकः पादपङ्कजे ॥ २० ॥ दष्ट्वा दष्ट्वापचक्राम स्खविषोद्रेकदुर्मदः । यत्पतन्महिषाक्रान्तो रह्रौयादेष मामपि ॥ २१ ॥ दशतोऽप्यसकृत्तस्य न विषं प्राभवत्प्रभो। गोक्षीरधाराधवलं केवलं रक्तमक्षरत् ॥ २२ ॥ ततश्च पुरतः स्थित्वा किमेतदिति चिन्तयन् । वीक्षाञ्चके जगन्नाथं वीक्षापत्रः स पन्नगः ॥ २३ ॥ Page #15 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । सतो निरूप्य रूपं तदनुरूपं जगहुरोः । कान्तिसौम्यतया मच विध्याते तहिलोचने ॥ २४ ॥ उपसन्नं च तं ज्ञात्वा बभाष भगवानिति । चण्डकौशिक बुद्धास्व बुद्धास्व ननु मामुहः ॥ २५ ॥ श्रुत्वा तद्भगवदाक्यमूहापोहं वितन्वतः । पचगस्य समुत्पेदे स्मरणं पूर्वजन्मनाम् ॥ २६ ॥ स त्रिः प्रदक्षिणीकृत्य ततश्च परमेश्वरम् । निष्कषायः सुमनसाऽनशनं प्रत्यपद्यत ॥ २७ ॥ कतानशनकम्माणं निष्कणिं महोरगम् । प्रशमापनमज्ञासीदन्वज्ञासौच्च तं प्रभुः ॥ २८ ॥ कुत्राप्यन्यत्र मा यासीढष्टिमें विषभीषणा । इति तुण्डं बिले क्षिप्त्वा पपौ स ममतामृतम् ॥ २८ ॥ तस्थौ तथैव तत्रैव स्वामी तदनुकम्पया। परेषामुपकाराय महतां हि प्रवृत्तयः ॥ ३० ॥ भगवन्तं तथा दृष्ट्वा विस्मयस्मेरलोचनाः । गोपाला वसपालाश्च तत्रोपसम्पुर्दुतम् ॥ ३१ ॥ वृक्षान्तरे तिरोभूय यथेष्टं ग्रावलोष्टुभिः । प्रणिजघ्नुरनिनास्ते पन्नगस्य महात्मनः ॥ ३२ ॥ तथाप्यविचलन्तं तं वीक्ष्य विशम्भभाजिनः । यष्टिभिर्घयामासुनिकटीभूय तत्तनुम् ॥ ३३ ॥ आख्यन् जनानां ते गोपास्ततस्तत्रागमन् जनाः ।। ववन्दिरे महावीरममहंश्च महोरगम् ॥ ३४ ॥ Page #16 -------------------------------------------------------------------------- ________________ योगशास्त्रे सृतविक्रयकारिण्यो गच्छन्त्यस्तेन वर्मना। . नागं हैयङ्गवौनेनाम्रक्षयन् पस्पृशुश्च तम् ॥ ३५ ॥ आगत्य तगन्धेन तीक्ष्णतुण्डाः पिपीलिकाः । चक्रिरे तितउप्रायमहेस्तस्य कलेवरम् ॥ ३६ ॥ मत्कम्र्मणां कियदेतदित्यात्मानं विबोधयन् । वेदनामधिसेहे तां दुःसहां सोऽहिपुङ्गवः ॥ ३७॥ वराक्यो मास्म पोल्यन्त स्वल्पसाराः पिपीलिकाः । इत्यचीचलदङ्ग न मनागपि महोरगः ॥ ३८ ॥ . सिक्तः कपासुधावृध्या दृध्या भगवतीरगः ।.. पक्षान्ते पञ्चतां प्राप्य सहस्रारदिवं ययौ ॥ ३८॥ विदधति विविधोपसर्गबाधां फणिभृति दृष्टिविष हरौ तु भक्तिम् । इति तुल्यमनस्कता शशंसे चरम जिनस्य जगत्त्रयैकबन्धोः ॥ १४० ॥ २ ॥ प्रकारान्तरेण पुनर्योगगर्भामेव स्तुतिमाहकृतापराधेऽपि जने कृपामन्थरतारयोः । ईषडाष्पाईयोर्भद्रं श्रीवीरजिननेत्रयोः ॥ ३ ॥ विहितविप्रियेऽपि जने सङ्गमकादौ कृपया मन्थरे इषव्रते तारे कनौनिके ययोः ईषद्वाष्पश्चक्षुर्जलं स च करुणावत एव तेन आने लिने भगवतो नेत्र तयोभद्रमिति सामयाबमस्कारप्रतीतिः । तथाहि-- Page #17 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । अनुग्राममनुपुरं विहरन् विभुरन्यदा । दृढभूमिमनुप्राप बहुम्लेच्छकुलाकुलाम् ॥ १ ॥ पेढालग्रामं निकषा पेढालाराममन्तरा । कृताष्टमतपःकम्मा पोलासं चैत्यमाविशत् ॥ २ ॥ जन्तूपरोधरहितमधिष्ठाय शिलातलम् । जामुलम्बितभुजी दरावनतविग्रहः ॥ ३ ॥ स्थिरीकृतान्तःकरणणे निर्निमेषविलोचनः । तस्थौ तत्रैकरात्रिया महाप्रतिमया प्रभुः ॥ ४ ॥ तदां शक्रः सुवर्मायां सभायां परिवारितः । सहस्त्रैश्चतुरशत्या सामानिक दिवौकसाम् ॥ ५॥ त्रयस्त्रिंशस्त्रायस्त्रिंशैः पर्षद्भिस्तिसृभिस्तथा । चतुर्भिर्लोकपालैश्च संख्यातीतेः प्रकीर्णकैः ॥ ६ ॥ प्रत्येकं चतुरशीत्या सहस्रैरङ्गरक्षकैः । डढाबद्धपरिकरैः ककुप्सु चतसृष्वपि ॥ ७ ॥ सेनाधिपतिभिः सेनापरिवीतैश्च सप्तभिः । देवदेवोमणैराभिखोग्यैः किल्बिषिकादिभिः ॥८॥ सूर्यत्रयादिभिः कालं विनोदैरतिवाहयन् । गोप्ता दक्षिणलोकाईं शक्रः सिंहासने स्थितः ॥ ८ ॥ अवधिज्ञानतो ज्ञात्वा भगवन्तं तथास्थितम् । उत्थाय पादुके त्यक्वोत्तरासङ्गं विधाय च ॥ १० ॥ जान्व सव्यं भुवि न्यस्य सव्यं च न्यञ्च किञ्चन । शक्रस्तवेनावन्दिष्ट भूतलन्यस्तमस्तकः ॥ ११ ॥ ३ १७ Page #18 -------------------------------------------------------------------------- ________________ - योगशास्त्रे समुत्थाय च सर्वाङ्गोदञ्चद्रोमाञ्चकञ्चकः । शचीपतिरुवाचेदमुद्दिश्य सकलां सभाम् ॥ १२ ॥ भो भोः सर्वेऽपि सौधम्मवासिनस्त्रिदशोत्तमाः । शृणुत श्रीमहावीरस्वामिनो महिमाद्भुतम् ॥ १३ ॥ दधानः पञ्चसमितीर्गमित्रयपवित्रितः। क्रोधमानमायालोभानभिभूतो निरास्रवः ॥ १४ ॥ द्रव्ये क्षेत्रे च काले च भावे चाप्रतिबद्धधीः । रुक्षकपुद्गलन्यस्तनयनो ध्यानमास्थितः ॥ १५ ॥ अमरैरसुरैयक्षरक्षोभिरुरगैनरैः । त्रैलोक्येनापि शक्येत ध्यानाञ्चालयितुं नहि ॥ १६ ॥ इत्याकर्ण्य वचः शाकं शक्रसामानिकः सुरः ।। ललाटपट्टघटितभृकुटीभङ्गभीषण: ॥ १७ ॥ कम्पमानाधरः कोपालोहितायितलोचनः । अभव्यो गाढमिथ्यात्वसङ्गः सङ्गमकोऽवदत् ॥ १८ ॥ मर्त्यः श्रमणमात्रोऽयं यदेवं देव वर्ण्यते । स्वच्छन्दं सदसद्दादे प्रभुत्वं तत्र कारणम् ॥ १८ ॥ देवैरपि न चाल्योऽयं ध्यानादित्युद्भटं प्रभोः । कथं धार्येत हृदये धृते वा प्रोच्यते कथम् ॥ २० ॥ रुद्धान्तरिक्षः शिखरैर्मूलरुहरसातलः । यैः किलोदस्यते दोणा सुमेरुलॊष्टुलोलया ॥ २१ ॥ सकुलाचलमेदिन्या: मावनव्यक्तवैभवः । येषामेषोऽपि गण्डषसुकरी मकराकरः ॥ २२ ॥ Page #19 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः। १८ १८ अप्येकभुजदण्डेन प्रचण्डाछवलीलया। उदरन्ति सहानेकभूधरां ये वसुन्धराम् ॥ २३ ॥ तेषामसमऋद्धीनां सुराणाममितौजसाम् । इच्छासम्पबसिद्धीनां मर्त्यमानः कियानयम् ॥ २४ ॥ एषोऽहं चालयिथामि तं ध्यानादित्युदीर्य सः । करेण भूमिमाहत्योदस्थादास्थानमण्डपात् ॥ २५ ॥ अर्हन्तः परसाहाय्यात्तपः कुर्वन्त्यखण्डितम् । माज्ञासौदिति दुर्बुद्धिः शक्रण स उपेक्षितः ॥ २६ ॥ ततो वेगानिलोत्पातपतापतघनाघनः । रौद्राकतिर्दुरालोको भयापसरदसराः ॥ २० ॥ विकटोरस्थलाघातपुञ्जितग्रहमण्डल:। स पापस्तत्र गतवान् यत्रासोत्परमेखरः ॥ २८ ॥ निष्कारणजगहन्धुं निराबाधं तथास्थितम् । . श्रौवीरं पश्यतस्तस्य मत्सरो ववृधेऽधिकम् ॥ २८ ॥ गोवाणपांसन: पांशुवृष्टिं दुष्टोऽतनिष्ट सः । अकाण्डघटितारिष्टामुपरिष्ठाजगत्प्रभोः ॥ ३० ॥ विधुर्विधन्तुदेनेव दुर्दिनेनेव भास्करः । पिदधे पांशुपूरेण सर्वाङ्गीसं जगत्प्रभुः ॥ ३१॥ समन्ततोऽपि पूर्णानि तथा श्रोतांसि पांशुभिः । यथा समभवत्स्वामी निश्वासोच्छासवर्जितः ॥ ३२ ॥ तिलमानमपि ध्यानान चचाल जगद्गुरुः ।। कुलाचलचलति किं गजैः परिणतैरपि ॥ ३३ ॥ Page #20 -------------------------------------------------------------------------- ________________ . योगशास्त्रे । अपनीय ततः पांशु वचतुण्डाः पिपीलिकाः । स समुत्पादयामास प्रभोः साङ्गपीलिकाः ॥ ३४ ॥ प्राविशन्नेकतोऽङ्गेषु स्वैरं निययुरन्यतः । विध्यन्तस्तीक्ष्णतुण्डायैः सूचो निवसनेष्विव ॥ ३५॥ निर्भाग्यस्येव वाञ्छासु मोधीभूतासु तास्वपि। स दंशणन् रचयामास नाकृत्यान्ती दुरात्मनाम् ॥ ३६ ॥ तेषामकप्रहारेण रक्त!क्षीरसोदरैः। क्षरद्भिरभवन्नाथः सनिझर इवाद्रिराट् ॥ ३७॥ तैरप्यक्षोभ्यमाणेऽथ जगनाथ स दुम्मतिः । चक्रे प्रचण्डतुण्डाग्रा दुर्बिवारा तेलिकाः ॥ ३८ ॥ शरीरे परमेशस्य निमग्नमुखमण्डलाः । ततस्ता: समलक्ष्यन्त रोमाणीव सहोस्थिताः ॥ ३९ ॥ ततोऽप्यविचलच्चित्ते योगचित्ते जगद्गुरौ। स महावृश्चिकांश्चक्रे ध्यानव्रश्चननिश्चयो ॥ ४० ॥ प्रलयाग्निस्फुलिङ्गाभास्तप्ततोमरदारुणः । तेऽभिन्दन् भगवहेहं ला लाङ्गुरकण्टकैः ॥ ४१ ॥ तैरप्यनाकुले नाथे कूटसङ्कल्पसङ्खलः । सोऽनल्पान् कल्पयामास नकुलान् दशनाकुलान् ॥ ४२ ॥ खिखीति रसमानास्ते दंष्ट्राभिर्भगवत्तनुम् । खण्डखण्डेस्त्रोटयन्तो मांसखण्डान्यपातयन् ॥ ४३ ॥ तैरप्य कृतकृत्योऽसौ यमदोईण्डदारुणान् । अत्युत्कटफटाटोपान् कोपापायुक्त पन्नगान् ॥ ४४ ॥ Page #21 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । आशिरः पादमापीय महावीरं महोरगाः । अवेष्टयन्महावृक्षं कपिकच्छुलता इव ॥ ४५ ॥ . प्रजघ्नुस्ते तथा तत्र स्फुटन्ति स्म फटा यथा । तथा दशन्ति स्म यथाऽभज्यन्त दशना अपि ॥ ४६ ॥ उद्दान्तगरलेष्वेषु लम्बमानेषु रज्जुवत् । स वच्चदशनानाश मूषकानुदपोपदत् ॥ ४७ ॥ स्वाम्यङ्गं खनकाचख्नुर्नखैर्दन्तेर्मुखैः खरैः । मोमूत्रप्रमाणास्तत्रैव क्षते क्षारं निचिचिपुः ॥ ४८ ॥ तेष्वप्यकिञ्चिद्भूतेषु भूतोभूत इव क्रुधा । उद्दण्डदन्तमुसलं हस्तिरूपं ससर्ज सः ॥४॥ सोऽधावत्पादपातेन मेदिनों नमयन्निव । उडून्युदस्तहस्तेन नभस्तस्त्रोटयत्रिव ॥ ५० ॥ कराग्रेण गृहीत्वा च दुर्वारेण स वारणः । दूरमुक्तालयामास भगवन्तं नभस्तले ॥ ५१ ॥ विशीर्यं कणशो गच्छत्वसाविति दुराशयः । दन्तावुत्रम्य स व्योम्नः पतन्तं स्म प्रतीच्छति ॥ ५२ ॥ पंतितं दन्तघातेन विध्यति स्म मुहुर्मुहुः । वक्षसो वज्जकठिनाव् समुत्तस्युः स्फुलिङ्गकाः ॥ ५३ ॥ न शशाक वराकोऽसौ कर्त्तुं किञ्चिदपि द्विपः । यावत्तावत्सुरश्चक्रे करिणों वैरिणोमिव ॥ ५४ ॥ अखण्डशुण्डदन्ताभ्यां भगवन्तं बिभेद सा । स्वैरं शरोरनीरेण विषेणेव सिषेच च ॥ ५५ ॥ २१ Page #22 -------------------------------------------------------------------------- ________________ योगशास्त्रे करणो रेसाकते तस्याः सारे सुराधमः । पिशाचरूपमकरोन्मकरोत्कटदंष्ट्रकम् ॥ ५६ ॥ ज्वालाजालाकुलं व्यात्तं व्यायतं वनकोटरम् । अभवदीषणं तस्य वहिकुण्ड मिव ज्वलत् ॥ ५७ ॥ यमौकस्तोरणस्तम्भाविव प्रोत्तभिती भुजौ । अभूच तस्य जजोर तुझं तालट्ठमोपमम् ॥ ५८ ॥ स साहास: फेत्कुर्वन् स्फूर्जत्किलकिलारवः । कृत्तिवासाः कर्तृकाभृगगवन्तमुपाद्रवत् ॥ ५८ ॥ तस्मिबपि हि विध्याते क्षीणतैलप्रदीपवत् । व्याघ्ररूपं क्रुधाघ्रात: शीघ्रं चक्रे स निर्गुणः ॥ १० ॥ अथ पुच्छच्छटाच्छोटः पाटयबिव मेदिनीम् । वूत्कारप्रतिशब्दैश्च रोदसौं रोदयन्निव ॥ ६१ ॥ दंष्ट्राभिर्वजसाराभिनखरैः शूलसोदरैः । अव्यग्रं व्यापिपर्ति स्म व्याघ्रो भुवनभर्तरि ॥ ३२ ॥ तत्र विच्छायता प्राप्त दवदग्ध इव द्रुमे । सिद्धार्थराजत्रिशलादेव्यो रूपं व्यधत्त सः ॥ ६३ ॥ किमेतद्भवता तात प्रक्रान्तमतिदुष्करम् । प्रव्रज्यां मुञ्च मास्माकं प्रार्थनामवजीगणः ॥ ६४ ॥ वृद्धावशरणवावां त्यक्तवाबन्दिवईनः । वायखेति वरैर्दीनदीनैय॑लपतां च तौ ॥ ६५ ॥ (युग्म) ततस्तयोर्विलापैरप्यलिप्तमनसि प्रभो । आवासितं दुराचारः स्कन्धावारमकल्पयत् ॥ ६६ ॥ Page #23 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाश: । तत्रानासाथ हषदं सूद: सादर ओदने । चुल्लीपदे प्रभोः पादौ क्कृत्वा स्थालोमकल्पयत् ॥ ६७ ॥ तत्कालं ज्वालितस्तेन जज्वाल ज्वलनोऽधिकम् । पादमूले जगद्भर्त्तुर्गिरेरिव दवानलः ॥ ६८ ॥ तप्तस्यापि प्रभोः स्वर्णस्येव न श्रीरहीयत । ततः सुराधमश्चक्रे पक्कणं दारुणक्कणम् ॥ ६८ ॥ पक्कणोऽपि प्रभोः कण्ठे कर्णयोर्भुजदण्डयोः । जङ्घयोश्च क्षुद्रपक्षिपञ्जराणि व्यलम्बयत् ॥ ७० ॥ खगैथे सुनखाघातैस्तथा दद्रे प्रभोस्तनुः । यथा च्छिद्रताकीर्णा तत्पश्चरनिभाभवत् ॥ ७१ ॥ तत्राप्यसारतां प्राप्ते पक्कणे पक्कपत्रवत् । उत्पादितमहोत्पातं खरवातमजीजनत् ॥ ७२ ॥ अन्तरिक्षे महाष्टक्षांस्तृणोत्क्षेपं समुत्क्षिपन् । विक्षिपन् पांशुविक्षेपं दिक्षु च ग्रावकर्करान् ॥ ७३ ॥ सर्व्वतो रोदसीगर्भं भस्त्रापूरं च पूरयन् । उत्पाद्योत्पाद्य वातोऽसौ भगवन्तमपातयत् ॥ ७४ ॥ ( युग्मं ) तेनापि खरवातेनापूर्णकामो विनिम्मे । २३ युसत्कुलकलङ्गोऽसौ ट्राकुलं कलिकानिलम् ॥ ७५ ॥ भूभृतोऽपि भ्रमयितुमलङ्कमणविक्रमः । भ्भ्रमयामास चक्रस्यमृत्पिण्डमिव स प्रभुम् ॥ ७६ ॥ भ्रम्यमाणोऽर्णवावर्त्तेनेव तेन नभखता । तदेकतानो न ध्यानं मनागपि जहौ प्रभुः ॥ ७७ ॥ Page #24 -------------------------------------------------------------------------- ________________ २४ योगशास्त्रे वजसारमनस्कोऽयं बहुधाऽपि कर्थितः । न क्षोभ्यते कथमहं भग्नागूर्यामि तां सभाम् ॥ ७८ ॥ तदस्य प्राणनाशेन ध्यानं नश्यति नान्यथा । चिन्तयित्वेति चक्रे स कालचक्रं सुराधमः ॥ ७ ॥ अहाय तदयोभारसहस्रघटितं ततः। उद्दधार सुरः शैलं कैलासमिव रावणः ॥ ८ ॥ पृथिवौं सम्पुटीकत्तुं कृतं मन्ये पुटान्तरम् । उत्पत्त्य कालचक्र स प्रचिक्षेपोपरि प्रभोः ॥ ८१ ॥ ज्वालाजालैरुच्छलनिर्दिशः सर्वाः करालयन् । उत्पपात जगत?निल इवार्यवे ॥ २ ॥ कुलक्षितिधरक्षोदक्षमस्यास्य प्रभावतः । । ममज्जाजानुभगवानन्तर्वसुमतीतलम् ॥ ८३ ॥ एवम्भूतोऽपि भगवानशोचदिदमस्य यत् । तितारयिषवो विश्वं वयं संसारकारणम् ॥ ८४ ॥ कालचक्रहतोऽप्येष प्रपेदे पञ्चतां न यत् । अगोचरस्तदत्राणामुपायः क इहापरः ॥ ८५ ॥ अनुकूलैरुपसर्गः क्षुभ्येद्यदि कथञ्चन । इति बुद्धया विमानस्थः स पुरोऽस्थादुवाच च ॥ ८६ ॥ महर्षे तव तुष्टोऽस्मि सत्वेन तपसौजसा। प्राणानपेक्षभावेनारब्धनिर्वहणेन च ॥ ८७ ॥ पर्याप्तं तपसानेन शरीरलेशकारिणा । ब्रूहि याचख माकार्षीः शतां यच्छामि किं तव ॥ ८८ ॥ Page #25 -------------------------------------------------------------------------- ________________ प्रथम: प्रकाशः। इच्छामात्रेण पूयन्ते यत्न नित्यं मनोरथाः । किमनेनैव देहेन त्वां स्वर्ग प्रापयामि तम् ॥ ८८ ॥ अनादिभवसंरूटकम्मनिर्मोक्षलक्षणम् । एकान्तपरमानन्दं मोक्षं वा त्वां नयामि किम् ॥ ४० ॥ अशेषमण्डलाधीशमौलिलालितशासनम् । अथवात्रैव यच्छामि साम्राज्यं प्राज्यसद्धिभिः ॥८१ ॥ इत्थं प्रलोभनावाक्यरक्षोभ्यमनसि प्रभौ। अप्राप्तप्रतिवाक्यापः पुनरेवमचिन्तयत् ॥ ८२ ॥ मोघौकतमनेनैतन्मम शक्तिविजृम्भितम् । ... तदिदानीममोघं स्याद्ययेकं कामशासनम् ॥ १३ ॥ यतः कामास्त्रभूताभिः कामिनीभिः कटाक्षिताः । दृष्टा महापुमांसोऽपि लुम्पन्तः पुरुषव्रतम् ॥ ८४ ॥ इति निश्चित्य चित्तेन निर्दिदेश सुराङ्गमाः। तविभ्रमसहायान् षट् प्रायुक्त स ऋतूनपि ॥ ५ ॥ कृतप्रस्तावना मत्तकोकिलाकलकूजितैः । कन्दर्पनाटकनटी वसन्तश्रीरशोभत ॥ ६ ॥ मुखवासं सज्जयन्तो विकसनोपरणभिः।। सैरन्ध्रीव दिग्वधूनां ग्रीष्मलक्ष्मीरजृम्भत ॥ ८७ ॥ राज्याभिषेके कामस्य मङ्गल्यतिलकानिव । सर्वाङ्ग केतकव्याजात्कुती प्राडाबभौ ॥ १८ ॥ सहस्रनयनीभूय नवनीलोत्पलच्छलात् । स्वसम्पदमिवोदामां पश्यन्ती शुशुभे शरत् ॥ ८ ॥ Page #26 -------------------------------------------------------------------------- ________________ .. योगशास्त्रे जयप्रशस्सिं कामस्य खेताक्षरसहोदरैः । हेमन्तीलिलेखेव प्रत्यौः कुन्दकुड्मलैः ॥ १० ॥ गणिकेवोपजीवन्ती हेमन्तसुरभीसमम् । कुन्दैश्च सिन्दुवारैश्च शिशिरीरचीयत ॥ १ ॥ एवमुजृम्भमाणषु सर्बत्तूंषु समन्ततः । मौनध्वजपताकिन्यः प्रादुरासन् सुराङ्गनाः ॥ २ ॥ सङ्गीतमिव गीतायः पुरो भगवतस्ततः । ताः प्रचक्रमिरे जैत्र मन्त्रास्त्र मिव मान्मथम् ॥ ३ ॥ 'तत्राधिसूत्रितलयं गान्धारग्राम बन्धुरम् । ‘काभिश्चिदुदगीयन्त जातयः शुद्धवेसराः ॥ ४ ॥ क्रमव्युत्क्रमगैस्तानैव्यक्तव्यंञ्जनधातुभिः। । प्रवीणावादयहीणां काचित्सकलनिष्कलाम् ॥ ५ ॥ स्फुटत्तकारधोङ्कारप्रकारैर्मेघनिखनान् । काश्चिञ्च वादयामामुर्मूदङ्गास्त्रिविधानपि ॥ ६ ॥ नभोभूगतचारीकं विचित्रकरणोद्भटम् । दृष्टिभावनवनवैः काचिदयनरीनृतः ॥ ७ ॥ दृढाङ्गहाराभिनयैः सद्यस्त्रुटितकञ्चुका। बनती नयधम्मिलं दोर्मूलं काप्यदीदृशत् ॥ ८ ॥ दण्डपादाभिनयनच्छलात्कापि मुहुर्मुहुः । चारुगोरोचनागौरमूरुमूलमदर्शयत् ॥ ८ ॥ (१) ख तत्रातिसूलितलयम्। (२) च सुन्दरम् । Page #27 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । श्लथचण्डातकग्रन्थिदृढीकरणलीलया । कापि प्राकाशयद्दापौसनाभिं नाभिमण्डलम् ॥ १० ॥ व्यपदिश्येभदन्ताख्यहस्तकाभिनयं मुहुः । गाढमङ्गपरिष्वङ्गसंज्ञा काचिञ्च निर्ममे ॥ ११ ॥ सञ्चारयन्त्यन्तरीयं नोवोनिविडनच्छलात् । नितम्बबिम्बफलकं काचिदाविरभावयत् ॥ १२ ॥ अङ्गभङ्गापदेशेन वक्षःपीनोन्र्तस्तनम् । सुचिरं रोचयामास काचिद् रुचिरलोचना ॥ १३ ॥ यदि त्वं वीतरागोऽसि रागं तन्नस्तनोषि किम् । शरीरनिरपेक्षश्चेद्दत्से वक्षोऽपि किं न नः ॥ १४ ॥ दयालुर्यदि वासि त्वं तदानों विषमायुधात् । अकाण्डाक्कष्टकोदण्डादस्मान्न त्रायसे कथम् ॥ १५ ॥ उपेक्षसे कौतुकेन यदि नः प्रेमलालसाः । किञ्चिन्मात्रं हि तद्युक्तं मरणान्तं न युज्यते ॥ १६ ॥ स्वामिन् कठिनतां मुञ्च पूरयास्मन्मनोरथान् । प्रार्थनाविमुखो माभूः काश्चिदित्युचिरं चिरम् ॥ १७ ॥ एवं गीतातोद्यनृत्तै र्विकारैराङ्गिकैरपि । चाटुभिश्च सुरस्त्रीणां न चुक्षोभ जगत्प्रभुः ॥ १८ ॥ एवं रात्रौ व्यतीतायां ततो विहरतः प्रभोः । निराहारस्य षण्मासान् सुराधम उपाद्रवत् ॥ १८ ॥ ( १ क च न्दत्यैः । Page #28 -------------------------------------------------------------------------- ________________ योगशास्त्रे भट्टारक सुखं तिष्ठ खैरं भ्रम गतोऽस्माहम् । षण्मासान्ते ब्रुवन्नेवं खिन्नः सङ्गमकोऽगमत् ॥ २० ॥ कम्मणैवंविधनायं क्व वराको व्रजिष्यति । न शक्यते तारयितुमस्माभिरपि तारकैः ॥ २१ ॥ एवं भगवतश्चिन्तां तन्वतस्तत्र गच्छति । दृशावभूतां कृपयोहाष्ये मन्थरतारके ॥ १२२ ॥ ३ ॥ एवं देवतां नमस्कृत्य मुक्तिमार्ग योगमभिधित्सुस्तच्छास्त्रं प्रस्तौति । श्रुताम्भोधेरधिगम्य सम्प्रदायाच्च सगुरोः । खसम्वेदनतश्चापि योगशास्त्रं विरच्यते ॥ ४ ॥ इह नानिर्णीतस्य योगस्य पदवाक्यप्रबन्धेन शास्त्रविरचना कर्तुमुचितेति । योगस्य बिहेतुको निर्णय: ख्याप्यते । शास्त्रतो गुरुपारम्पर्य्यात् खानुभवाच्च तं विविधमपि क्रमेणाह। श्रुताम्भोधेः सकाशादधिगम्य निर्णीय योगमिति शेषः । तथा गुरुपारम्पर्ध्यात् तथा स्वसम्वेदनादेवं विधा योगं निश्चित्य तच्छास्त्रं विरच्यते । एतदेव निर्वहणे वक्ष्यति । या शास्त्रात्वगुरोर्मुखादनुभवाचाज्ञायि किञ्चित् क्वचित् योगस्योपनिषदिवकिपरिषञ्चेतश्चमत्कारिणी । श्रीचौलुक्यकुमारपालनृपतेरत्यर्थमभ्यर्थनादाचार्येण निवेशिता पथि गिरां श्रीहेमचन्द्रेण सा ॥ १ ॥ ४ ॥ Page #29 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाश: । २८ योगस्यैव माहात्मामाह· योगः सर्वविपदल्लीविताने परशुः शितः । अमूलमन्वतन्वं च कार्मणं नितिश्रियः ॥ ५ ॥ सा विपद आध्यात्मिक-आधिभौतिक आधिदैविकलक्षणाः ताधातिविततत्वाल्लीरूपास्तासां वितान: समूहस्तत्र तीक्ष्णः परशुर्योग इत्यनर्थपरिहारो योगस्य फलम् । उत्तरार्द्धनार्थप्राप्तिर्मोक्षलक्ष्मयाः परमपुरुषार्थरूपाया मूलमन्वतन्त्रपरिहारण काम्मणं संवननं योगः · काम्भणं हि मूलमन्त्रतन्वैविधीयते। योगस्त मूलादिरहित एव मोक्षलक्ष्मीवशीकरणहेतुरिति ॥ ५ ॥ ... कारणोच्छेदमन्तरेण न विपल्लक्षणस्य कार्यस्योच्छेदः शक्यः क्रियत इति विपत्कारणपापनिर्घातहेतुत्वं योगस्याहभूयांसोऽपि हि पाप्मान: प्रलयं यान्ति योगतः । चण्डवाताहनघना घनाघनघटा इव ॥६॥ बहन्यपि पापानि योगाप्रलयमुपयान्ति प्रचण्डवातोडूता अतिघना मेघघटा इव ॥ ६ ॥ स्यादेतदेकजन्मोपार्जितं पापं योगः क्षिणुयादपि अनेकभवपरम्परोपात्तपापस्य तु निर्मूलनं योगादसम्भावनीयमित्याहक्षिणोति योगः पापानि चिरकालाजितान्यपि । प्रचितानि यथैधांसि क्षणादेवाशुशक्षणिः ॥ ७ ॥ Page #30 -------------------------------------------------------------------------- ________________ ३० योगशास्त्रे यथा चिरकालमोलितान्यपौन्धनानि क्षणमात्रप्रचितोऽप्यक्कृशः कशानुर्भस्मसात्करोति । एवं योगः क्षणमात्रेणैव चिरसञ्चितपापसंचयक्षमो भवतीति ॥ ७ ॥ योगस्य फलान्तरमाह कफविप्रुण्मलामर्शसर्व्वैषधिमहर्द्धयः । सम्भिन्नश्रोतोलब्धिश्च योगं ताण्डवडम्बरम् ॥ ८॥ महर्द्धिशब्दः प्रत्येकमपि सम्बध्यते । कफ श्लेष्मा विप्रुडुच्चारः पुरोष - मिति यावत् । मल: कर्णदन्तनासिकानयनजिह्वोद्भवः शरीरसन्भवश्च । आमर्शो हस्तादिना स्पर्शः सर्व्वे विण्मूत्र केशनखादय उक्ता अनुक्ताश्च श्रौषधयो योगप्रभावान्महर्डयो भवन्ति । अथवा महर्द्धयो विभिन्ना एवाणुत्वादयः । तथा श्रोतांसीन्द्रियाणि संभिन्नानि सङ्गतानि एकैकशः सर्व्वविषयैस्तेषां लब्धिर्योगस्येदं यौगं ताण्डवडम्बरं 'दर्शितम् । तथाहि योगमाहात्मप्राद्योगिनां कफबिन्दवः । सनत्कुमारादेरिव जायन्ते सर्व्वरुक्छिदः ॥ १ ॥ सनत्कुमारो हि पुरा चतुर्थश्चक्रवर्त्यभूत् । षट्खण्डपृथिवीभोक्ता नगरे हस्तिनापुरे ॥ २ ॥ कदाचिश्च सुधमायां सभायां जातविस्मयः । रूपं तस्याप्रतिरूपं वर्णयामास वासवः ॥ ३ ॥ (१) खगच विलसितम् । Page #31 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः। राज: सनत्कुमारस्य कुरुवंशशिरोमणेः । यद्रूपं न तदन्यत्र देवेषु मनुजेषु वा ॥ ४ ॥ इति प्रशंसां रूपस्याबद्दधानावुभौ सुरौ। विजयो वैजयन्तश्च पृथिव्यामवतरतुः ॥ ५ ॥ ततस्तौ विप्ररूपेण रूपान्वेषणहेतवे। .. प्रासादहारि नृपतेस्तस्यतुर्दास्थसविधौ ॥ ६ ॥ पासीत् सनत्कुमारोऽपि तदा प्रारब्धमज्जनः । मुक्तनिःशेषनेपथ्यः सर्वाङ्गाभ्यङ्गमुहहन् ॥ ७ ॥ हारखो हारपालेन द्विजाती तो निवेदिती। न्यायवर्ती चक्रवर्ती तदानीमप्यवौविशत् ॥ ८॥ सनत्कुमारमालोक्य विस्मयस्मेरमानसौ। धूनयामासतौलिं चिन्तयामासतुश्च तौ ॥८॥ ललाटपट्टः पर्यस्ताष्टमौरजनिजानिकः । नेत्र कर्णान्तविश्रान्ते जितनीलोत्पलविषी ॥ १० ॥ दन्तच्छदौ पराभूतपक्कबिम्बोफलच्छवी। निरस्तशक्तिको कौँ कण्ठोऽयं पाञ्चजन्यजित् ॥ ११ ॥ करिराजकराकारतिरस्कारकरौ भुजौ। स्वर्णशैलशिलालमोविलुण्याकमुरस्थलम् ॥ १२ ॥ मध्यभागो मगारातिकिशोरीदरसोदरः । किमन्यदस्य सर्वाङ्गालक्ष्मीर्वाचां न गोचरः ॥ १३ ॥ अहो कोऽप्यस्य लावण्यसरित्यूरो निरर्गलः । . येनाभ्यङ्गं न जानोमो ज्योत्स्रयोडुप्रभामिव ॥ १४ ॥ Page #32 -------------------------------------------------------------------------- ________________ योगशास्त्र यथेन्द्रो वर्णयामास तथेदं भाति नान्यथा । : .. मिथ्या न खलु भाषन्ते महात्मान: कदाचन ॥ १५ ॥ किं निमित्तमिहायातौ भवन्तौ हिजसत्तमौ। इत्थं सनत्कुमारण पृष्टौ तावेवमूचतुः ॥ १६ ॥ लोकोत्तरचमत्कारकारकं सचराचरे । भुवने भवतो रूपं नरशार्दूल गीयते ॥ १७ ॥ दूरतोऽपि तदाकणं तरङ्गितकुतूहलौ । विलोकयितुमायातावावामवनिवासव ॥ १८ ॥ वर्ण्यमानं यथा लोके शुश्रुवेऽस्माभिरद्भुतम् । रूपं नृप ततोऽप्येतसविशेषं निरीक्ष्यते ॥ १८ ॥ " जचे सनत्कुमारोऽपि स्मितविस्फुरिताधरः । ... इयं हि कियतो कान्तिरङ्गेऽभ्यङ्गतरङ्गिते ॥ २० ॥ इतो भूत्वा प्रतीक्षेथां क्षणमात्रं हिजोत्तमौ।। यावविवर्त्यतेऽस्माभिरेष मज्जनकक्षण: ॥ २१ ॥ विचित्ररचिताकल्यं भूरिभूषणभूषितम् । रूपं पुनर्निरीक्षेथां सरत्नमिव काञ्चनम् ॥ २२ ॥ ततोऽवनिपतिः सात्वा कल्पिताकल्पभूषणः । साडम्बरः सदोऽध्यास्ताम्बररत्नमिवाम्बरम् ॥ २३ ॥ अनुज्ञातौ ततो विप्रो पुरोभूय महीपतेः । निदध्यतुश्च तद्रूपं विषयो दध्यतुश्च तौ ॥ २४ ॥ क तद्रूपं क सा कान्तिः क तनावण्यमप्यगात् । क्षणेनाप्यस्य मानां क्षणिकं सर्वमेव हि ॥ २५ ॥ Page #33 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः। नृपः प्रोवाच तो कस्मादृष्ट्वा मां मुदितौ पुरा । कस्मादकस्मादधुना विषादमलिनाननौ ॥ २६ ॥ ततस्तावूचतुरिदं सुधामधुरया गिरा। महाभाग मुरावावां सौधम्मस्वर्गवासिनी ॥ २७ ॥ मध्येमुरसभं शक्रश्चक्रे त्वद्रूपवर्णनम् । अश्रद्दधानौ तद्रष्टुं मर्त्य मूत्यागताविह ॥ २८ ॥ शक्रेण वर्णितं यादृक् 'तादृशं वपुरीक्षितम् । रूपं नृप तवेदानीमन्यादृशमजायत ॥ २८ ॥ प्रधुना व्याधिभिरयं कान्तिसवस्वतस्करैः। देहः समन्तादाक्रान्तो निःखासैरिव दर्पण: ॥ ३० ॥ यथार्थमभिधायेति द्रातिरोहितयोस्तयोः । . .. विच्छायं स्वं नृपोऽपश्यद्धिमग्रस्तमिव द्रुमम् ॥ ३१ ॥ । अचिन्तयच्च धिगिदं सदा गदपदं वपुः । मुधैव मुग्धाः कुर्वन्ति तन्मूछां तुच्छबुद्धयः ॥ ३२ ॥ शरीरमन्तरुत्पन्नाधिभिर्विविधैरिदम् । दीर्यते दारुणैर्दारु दारुकोटगणैरिव ॥ ३३ ॥ बहिः कथञ्चिद्यद्येतत्परोच्येत तथापि हि । नैयग्रोधं फलमिव मध्ये कमिकुलाकुलम् ॥ ३४ ॥ रुजा लुम्पति कायस्य तत्कालं रूपसम्पदम् । महासरोवरस्येव वारिसेवालवल्लरी ॥ ३५ ॥ ___(१) ख ग ताडगेव पुरेक्षितम् । Page #34 -------------------------------------------------------------------------- ________________ योगशास्त्र शरीरं श्मथते नाथा रूपं याति न पापधीः । अरा स्फुरति न जानं धिग् स्वरूपं शरीरिणाम् ॥ ३६ ॥ रूपं लवणिमा कान्तिः शरीरं द्रविणान्यपि । संसार तरलं सर्व कुशाग्रजलबिन्दुवत् ॥ ३० ॥ अद्यखौनविनाशस्य शरीरस्य शरीरिणाम् । सकामनिर्जरासारं तप एव महत्फलम् ॥ ३८॥ इति सनातवैराग्यभावन: पृथिवीपतिः । प्रव्रज्यां खयमादित्सुः सुतं राज्ये न्यवीविशत् ॥ ३८ ॥ गत्वोद्याने सविनयं विनयन्धरसूरितः । सर्वसावद्यविरतिप्रधानं सोऽग्रहीत्तपः ॥ ४० ॥ महाव्रतधरस्यास्य दधानस्योत्तरान् गुणान् । ग्रामाद्ब्रामं विहरतः समतैकाग्रचेतसः ॥ ४१ ॥ गाढानुरागबन्धेन सर्व प्रकतिमण्डलम् । पृष्ठतोऽगाकरिकुलं महायूथपतेरिव ॥ ४२ ॥ (युग्मं ) निष्कषायमुदासोनं निम्मं निष्परिग्रहम् । तं पर्युपास्य षण्मासान् कथञ्चित्तबावर्तत ॥ ४३ ॥ यथाविध्यात्तभिक्षाभिरकालापथ्यभोजनैः । व्याधयोऽस्य वधिरे सम्पूर्णेयॊहदैरिव ॥ ४४ ॥ कच्छूशोषज्वरखासारुचिकुक्ष्यक्षिवेदनाः । सप्ताधिसेहे पुण्यात्मा सप्तवर्षशतानि सः ॥ ४५ ॥ दुःसहान् सहमानस्य तस्याशेषपरीषहान् । उपायनिरपेक्षस्य समपद्यन्त लब्धयः ॥ ४६ ॥ Page #35 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । पत्रान्तरे सुरपतिः समुद्दिश्य दिवौकसः । हदि जातचमत्कारश्चकारेत्यस्य वर्णनम् ॥ ४७ ॥ चक्रवर्तिश्रियं त्या प्रज्वलत्तृणपूलवत् । अहो सनत्कुमारोऽयं तप्यते दुस्तपं तपः ॥ ४८ ॥ तपोमाहात्मालब्धासु सर्खास्वपि हि लब्धिषु । शरीरनिरपेक्षोऽयं स्वरोगात्र चिकित्सति ॥ ४ ॥ प्रश्रद्दधानी तहाक्यं वैद्यरूपधरौ सुरौ । विजयो वैजयन्तश्च तत्समीपमुपेयतुः ॥ ५० ॥ जचतुश्च महाभाग किं रोगः परिताम्यसि । वैद्यावावां चिकित्सावो विखं खैरेव भेषजैः ॥ ११ ॥ यदि त्वमनुजानासि रोगग्रस्तशरीरकः । । तदहाय निग्रहोवो रोगानुपचितांस्तव ॥ ५२ ॥ ततः सनत्कुमारोऽपि प्रत्यूचे 'भोचिकित्सको। हिविधा देहिनां रोगा द्रव्यतो भावतोऽपि च ॥ ५३ ॥ क्रोधमानमायालोभा भावरोगाः शरीरिणाम् । जन्मान्तरसहस्रानुगामिनोऽनन्तदुःखदाः ॥ ५४॥ तांचिकित्सितमौशी चेावां तर्हि चिकित्मतम् । : पथो चिकित्सथो द्रव्यरोगांस्तहत पश्यतम् ॥ ५५ ॥ ततोऽङ्गुलौं गलत्यामां शीणां स्वकफविपुषा । लिखा शुल्वं रसेनेव द्राक् सुवर्णीचकार सः ॥ ५६ ॥ (१) क च तौ। Page #36 -------------------------------------------------------------------------- ________________ ... योगशास्त्रे ततस्तामङ्गलौं स्वर्णशलाकामिव भास्वतीम् । पालोक्य पादयोस्तस्य पेततुः प्रोचतुश्च तौ ॥ ५७ ॥ निरुरूपयिषू रूपं यौ त्वामायातपूर्बिणौ। तावेव त्रिदशावावां सम्प्रत्यपि समागतौ ॥ ५८ ॥ सिद्धलब्धिरपि व्याधिबाधां सोढा तपस्यति । सनत्कुमारो भगवानितीन्द्रस्त्वामवर्णयत् ॥ ५८ ॥ आवाभ्यां तदिहागत्य प्रत्यक्षेण परीक्षितम् । इत्युदित्वा च नत्वा च त्रिदशौ तौ तिरोहितौ ॥ ६० ॥ एतनिदर्शनमात्रं कफलब्धेः प्रदर्शितम् । लब्धान्तरकथा नीता ग्रन्यगौरवभौरुभिः ॥ ६१॥ योगिनां योगमाहात्मनात्पुरोषमपि कल्पते। रोगिणां रोगनाशाय कुमुदामोदशालि च ॥ ६२ ॥ मलः किल समानातो विविधः सर्वदेहिनाम् । कर्णनेत्रादिजन्मेको द्वितीयस्तु वपुर्भवः ॥ ६३ ॥ योगिनां योगसम्पत्तिमाहात्मवाहिविधोऽपि सः । कस्तूरिकापरिमलो रोगहा सर्वरोगिणाम् ॥ ६४ ॥ योगिनां कायसंस्पर्शः सिञ्चत्रिव सुधारसैः। क्षिणोति तत्क्षणं सर्वानामयानामयाविनाम् ॥ ६५ ॥ नखाः केशा रदाश्चान्यदपि योगिशरीरगम् । भजते भषजीभावमिति सौंषधिः स्मृता ॥ ६६ ॥ तथाहि तीर्थनाथानां योगभृच्चक्रवर्तिनाम् । देहास्थिशकलस्तोमः सर्वस्वर्गेषु पूज्यते ॥ ६७ ॥ Page #37 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । किञ्च - मेघमुक्तमपि वारि यदङ्गसङ्गमात्त्रान्नदीवाप्यादिगतमपि सर्व्वरोगहरं भवति । तथा विषमूर्च्छिता अपि यदीयाङ्गसङ्गिवातस्पर्धादेव निर्विषा भवन्ति । विषसंपृक्तमप्यन्नं यन्मुखप्रविष्टमविषं भवति । महाविषव्याधिवाधिता अपि यद्दचः श्रवणमात्राद्यद्दर्शनाच वौतविकारा भवन्ति । एष सर्वोऽपि सर्वौषधिप्रकारः । एते कफादयो महर्द्धिरूपाः । अथवा महर्षयो विभिन्ना एव । वैक्रियालब्धयोऽनेकधा अणुत्व - महत्त्व - लघुत्व- गुरुत्व-प्राप्ति - प्राकाम्यईशित्व - वशित्व - अप्रतिघातित्व-अन्तर्द्धान कामरूपित्वादिभेदात् । अणुत्वमणशरौरविकरणम् । येन बिसच्छिद्रमपि प्रविशति तत्र च चक्रवर्त्तिभोगानपि भुङ्क्ते । महत्त्वं मेरोरपि महत्तरशरीरकरणसामर्थ्यम् । लघुत्वं वायोरपि लघुतरशरोरता । गुरुत्वं वञ्चादपि गुरुतरशरीरतया इन्द्रादिभिरपि प्रक्कष्टबलैर्दुःसहता । प्राप्तिर्भूमिस्थस्य अङ्गुल्यग्रेण मेरुपर्व्वताग्रमपि प्रभाकरादिस्पर्शसामर्थ्यम् । प्राकाम्यमप्सु भूमाविव प्रविशतो गमनशक्तिः तथा अविव भूमावुन्मज्जन निमज्जने । ईशित्वं त्रैलोक्यस्य प्रभुता तौर्थकरत्रिदशेश्वरऋद्धिविकरणम् । वशित्वं सर्व्वजीववशीकरणलब्धिः । अप्रतिघातित्वं अद्रिमध्येऽपि निःसङ्गगमनम् । अन्तर्द्धानमदृश्यरूपता । कामरूपित्वं युगपदेव नानाकाररूपविकरणशक्तिः । इत्येवमादयो महर्द्धयः । अथवा प्रकृष्टश्रुतावरणवौर्यान्तरायक्षयोपशमाविर्भूता साधारणमहाप्रन्नर्द्धिलाभा अनधीतद्वादशाङ्गचतुर्द्दशपूर्वा अपि सन्तो यमर्थं चतुर्द्दशपूर्वी निरूपयति Page #38 -------------------------------------------------------------------------- ________________ योगशास्त्रे ३८ तस्मिन् विचारक्कच्छ्रेऽप्यर्थेऽतिनिपुणप्रज्ञाः प्राज्ञश्रमणाः । अन्येऽधीतः दशपूर्णा रोहिणीप्रन्नतादिमहाविद्यादिभिरहुष्टप्रसेनिकाभि रल्पविद्यादिभिश्चोपनतानां भूयसोनामृद्धीनां अवशगा विद्यावेगधारणात् विद्याधरश्रमणाः । केचिद्दोजकोष्ठपदानुसारिबुद्धिविशेषर्द्वियुक्ताः । सुकृष्टवसुमतीकृते क्षेत्रे चित्युदकाद्यनेककारणविशेषापेक्षं बीजमनुपहतं यथानेकबीजकोटीप्रदं भवति तथैव ज्ञानावरणादिक्षयोपशमातिशयप्रतिलम्भादेकार्थबीजश्रवणे सति अनेकार्थबीजानां प्रतिपत्तारो बौजबुद्धयः । कोष्ठागारिकस्थापितानामसङ्गीर्णनामविनष्टानां भूयसां धान्यबीजानां यथा कोष्ठेऽवस्थानं तथा परोपदेशावधारितानां श्रतानामर्थग्रन्थबीजानां भूयसामनुस्मरणमन्तरेणाविनष्टानामवस्थानात्कोष्ठबुद्धयः । पदानुसारिणोऽनुश्रोतः पदानुसारिणः प्रतिश्रोत: पदानुसारिण उभयपदानुसारिगश्च । तत्रादिपदस्यार्थं ग्रन्यं च परत उपश्रुत्य श्राश्रन्त्यपदादर्थग्रन्थविचारणासमर्थपटुतरमतयो ऽनुश्रोतः पदानुसारिबुद्धयः । अन्त्यपदस्यार्थं ग्रन्थं च परत उपश्रुत्य ततः प्रातिकूल्येनादिपदादा अर्थग्रन्थविचारपटवः प्रतिश्रोतः पदानुसारिबुद्धयः । मध्यपदस्यार्थं ग्रन्यं च परकीयोपदेशादधिगम्याद्यन्तावधिपरिच्छित्रपदसमूहप्रतिनियतार्थग्रन्थोदधिसमुत्तरणसमर्थासाधारणातिशयपटुविज्ञाननियता उभयपदानुसारिबुद्धयः । बोजबुद्धिरेक पदार्थावगमादनेकार्थानामवगन्ता पदानुसारी त्वेकपदावगमात्पदान्तराणामवगन्तेति विशेषः । तथा मनोवाक्कायबलिनः । तत्र प्रकृष्टज्ञानावरणवोर्यान्तरायक्षयोपशमविशेषेण वस्तूद्धृत्यान्तर्मुहूर्त्तेन सकल तो Page #39 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः | ३८ दध्यवगाहनावदातमनसो मनोबलिनः । अन्तर्मुहर्त्तेन सकल श्रुतवस्तूञ्चारणसमर्था वाग्बलिनः । अथवा पदवाक्यालङ्कारोपेतां बाचमुञ्चैरुच्चारयन्तो ऽविरहितवाक्माहोनकण्ठा वाग्बलिनः । वौर्यान्तरायक्षयोपशमाविर्भूतासाधारणकायबलत्वात्प्रतिमयावतिष्ठमानाः श्रमक्लमत्रिरहिता वर्षमात्रप्रतिमाधरा बाहुबलिप्रभृतयः कायबलिनः । तथा क्षीरमधुसर्पिरमृतास्स्रविणो येषां पानपतितं कदन्त्रमपि क्षीरमधुसर्पिरमृतरसवोर्यविपाकं जायते वचनं वा शरोरमानसदुःखप्राप्तानां देहिनां क्षौरादिवत्सन्तर्पकं भवति ते क्षीरास्त्रविणो मध्वास्त्रविणः सर्पिरास्त्रविणोऽमृतास्स्रविणश्च । केचिदक्षीणईियुक्तास्ते च द्विविधा अक्षीणमहानसा अक्षीणयेषामसाधारणान्तरायक्षयोपशमादल्पमात्रमपि महालयाच | पात्रपतितमन्त्रं गौतमादीनामिव बहुभ्यो दीयमानमपि न श्रीयते तेऽक्षीणमहानसाः । अक्षीणमहालयर्थिप्राप्ताश्च यत्त्र परिमितभूप्रदेशेऽवतिष्ठन्ते तत्त्रासंख्याता अपि देवास्तिर्यच्चो मनुष्याच सपरिवाराः परस्परबाधारहितास्तीर्थकर पर्षदौव सुखमासते | इति प्रज्ञाश्रमणादिषु महाप्रज्ञादयो महई यो दर्शिताः । सर्वेन्द्रियाणां विषयान् गृह्णात्येकमपीन्द्रियम् । यत्प्रभावेन सम्भिन श्रोतोलब्धिस्तु सा मता ॥ १ ॥ ८ ॥ तथा चारणाशीविषावधिमनः पर्यायसम्पदः । योगकल्पद्रुमस्यैता विकासि कुमुमश्रियः ॥ ८ ॥ Page #40 -------------------------------------------------------------------------- ________________ ४. - योगशास्त्रे अतिशयचरणाञ्चारणा अतिशयगमनादित्यर्थः । तत्सम्पबलब्धिरित्यर्थः । आशीविषलब्धिर्निग्रहानुग्रहसामर्थम् । अवधिज्ञानलब्धिमूर्त्तद्रव्यविषयं ज्ञानम्। मन:पर्यायज्ञानलब्धिमनोद्रव्यप्रत्यक्षी. करणशक्तिः। एता लब्धयो योगकल्पवृक्षस्य कुसुमभूताः। फलं त केवलज्ञानं मोक्षो वा । भरतमरुदेव्युदाहरणाभ्यां वक्ष्यते । तथाहि द्विविधाश्चारणा जेया जङ्घाविद्योत्थशक्तितः । तत्राद्या रुचकहोपं यान्त्येकोत्यातलीलया ॥ १ ॥ वलन्तो रुचकद्दोपादेकेनोत्यतनेन ते। नन्दीखरे समायान्ति हितीयेन यतो गताः ॥ २ ॥ से चोर्ध्वगत्यामेकेन समुत्पतनकम्मणा । गच्छन्ति पाण्डुकवनं मेरुशैलशिरःस्थितम् ॥ ३ ॥ ततोऽपि वलिता एकोत्पातेनायान्ति नन्दनम्। उत्पातेन हितोयेन प्रथमोत्यातभूमिकाम् ॥ ४ ॥ विद्याचारणास्तु गच्छन्त्येकेनोत्यातकम्मणा । मानुषोत्तरमन्येन होपं नन्दौखराह्वयम् ॥ ५ ॥ तस्मादायान्ति चैकेनोत्यातनोत्पतिता यतः । यान्त्यायान्यूडमार्गेऽपि तिर्यग्यानक्रमेण ते ॥ ६ ॥ अन्येऽपि बहुभेदाचारणा भवन्ति । तद्यथा आकाशगामिनः पर्यशावस्थानिषसाः कायोत्सर्गशरीरा वा पादोत्क्षेपनिक्षेपक्रमा. हिना व्योमचारिणः । केचित्तु जलजङ्घाफलपुष्पपनश्रेण्यग्निशिखाधूममीहारावश्यायमेघवारिधारामकंटकतन्तुज्योतीरश्मिपवनाद्या Page #41 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः | लम्बन गतिपरिणामकुशलाः । जलमुपेत्य वापीनिम्नगासमुद्रादिष्वकायिकजीवानविराधयन्तो जले भूमाविव पादोत्क्षेपनिक्षेपकुशला जलचारणाः । भुव उपरि चतुरङ्गुलप्रमिते आकाशे जङ्घानिक्षेपोत्क्षेपनिपुणा जङ्घाचारणाः । नानाद्रुमफलान्युपादाय फलाश्श्रयप्राण्यविरोधेन फलतले पादोत्क्षेपनिक्षेपकुशलाः फलचारणः । नानाद्रुमलतागुल्मपुष्पान्युपादाय पुष्प सूक्ष्मजीवानविराधयन्तः कुसुमतलदलावलम्बन सङ्गगतयः पुष्पचारणाः । नानावृक्षगुल्मवीरुल्लताविताननानाप्रवालतरुणपल्लवालम्बनेन पर्णसूक्ष्मजीवानविराधयन्तश्चरणोत्क्षेपनिक्षेपपटवः पत्रचारणाः । चतुर्योजनशतोच्छ्रितस्य निषधस्य नोलस्य चाद्रेष्टङ्गच्छिवां श्रेणिमुपादायोपय्र्यधो वा पादपूर्वकमुत्तरणावतरणनिपुणाः श्रेणिचारणाः । अग्निशिखामुपादाय तेजः कायिकानविराधयन्तः स्वयमदह्यमानाः पादविहारनिपुणा अग्निशिखाचारणाः । धूमवर्त्ति तिरश्चीनामूर्द्धगां वा आलम्बनास्वलितगमनास्कन्दिनो धूमचारणः । नोहारमवष्टभ्याप्कायिकपोडामजनयन्तो गतिमसङ्गमामश्रुवाना नीहारचारणाः । श्यायमाश्रित्य तदाश्रयजीवानुपरोधेन यान्तोऽवश्यायचारणः । नभोवर्त्मनि प्रविततजलधरपटलप टास्तरणे जीवानुपघातिचङ्कमणप्रभवो मेघचारणः । प्रावृषेण्यादिजलधरादेर्विनिर्गतवारिधारावलम्बनेन प्राणिपीडामन्तरेण यान्तो वारिधाराचारणः । कुनवृक्षान्तरालभाविनभः प्रदेशेषु कुलवृतादिसम्बद्धमर्कट कतन्वालम्बनपादोद्धरणनिचेपावदाता मर्कटकसन्तूनच्छिन्दन्तो यान्तो मर्कटकतन्तुचारणाः । चन्द्रार्क ग्रहनक्षत्राद्यन्यतमज्योतौरश्मि सम्ब अव ४१ Page #42 -------------------------------------------------------------------------- ________________ - योगशास्त्रे धेन भुवीव पादविहारकुशलाः ज्योतीरश्मिचारणाः। पवनेबनेकदिग्मुखोन्मुखेषु प्रतिलोमानुलोमवर्त्तिषु तत्प्रदेशावलीमुपादाय गतिमस्खलितचरणविन्यासामास्कन्दन्तो वायुचारणा: । तपश्चरणमाहात्मयाहुणादितरतोऽपि वा। प्राशीविषाः समर्थाः स्युनिग्रहेऽनुग्रहऽपि च ॥ १ ॥ द्रव्याणि मूर्तिमन्येव विषयो यस्य सर्वतः। नयत्यरहितं ज्ञानं तत्स्यादवधिलक्षणम् ॥ २ ॥ स्यात्मनःपर्ययो ज्ञानं मनुष्यक्षेत्रवर्तिनाम् । प्राणिनां समनस्कानां मनोद्रव्यप्रकाशकम् ॥ ३ ॥ ऋजुश्च विपुलश्चेति स्यात्मन:पर्ययो विधा। विशुद्धाप्रतिपाताभ्यां विपुलस्तु विशिष्यते ॥ ४ ॥ ८ ॥ केवलज्ञानलक्षणफलोपदर्शनेन योगमेव स्तौतिअहो योगस्य माहात्म्यं प्राज्यं सामाज्यमुद्दहन् । अवाप केवलज्ञानं भरतो भरताधिपः ॥ १० ॥ अहो इत्याश्चर्ये प्राज्यं पुष्कलं साम्राज्यं चक्रवर्तित्वमुद्दहन्नेव न पुनस्त्यक्तराज्यसम्पत् । भरताधिपः षटखण्डभरतक्षेत्रस्वामी। तथाहि एतस्यामवसर्पिण्यामकान्तसुषमारके । सागरोपमकोटीनां चतुष्कोटिमिते गते ॥ १ ॥ सागरोपमकोटीनां तिसृभिः कोटिभिर्मिते । परके सुषमानानि दितीयेऽपि गते सति ॥ २ ॥ Page #43 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । ४३ तविकोटाकोटिमिते सुषमदुःषमारके। एल्लपाष्टमांशशेषे च दक्षिणाईस्य भारते ॥ ३ ॥ सप्ताभूवन् कुलकरा इमे विमलवाहनः । .. चक्षुष्मांश्च यशस्वी चाभिचन्द्रोऽथ प्रसेनजित् ॥ ४ ॥ मरुदेवश्च नाभिश्च तत्र नाभगुहिण्यभूत् । मरुदेवेति सच्छोलपवित्रितजगत्त्रया ॥ ५ ॥ हतीयारस्य शेषेषु पूर्वलक्षेषु संख्यया । चतुरशीतौ सा ष्टमासे वर्षत्रयेऽपि च ॥ ६ ॥ • तस्याश्च कुक्षौ सर्वार्थविमानादवतीर्णवान् । चतुर्दशमहास्वप्नसूचितः प्रथमो जिनः ॥ ७॥ नाभश्च मरुदेव्याश्च तदा सम्यगजानतोः । स्वप्नार्थमिन्द्राः सर्वेऽपि व्याचक्रुः प्रमदोन्मदाः ॥ ८ ॥ ततः सुखेन जातस्य शुभेऽह्नि परमेशितुः । षट्पञ्चाशदिक्कुमार्यः सूतिकम्म प्रचक्रिरे ॥ ८ ॥ मेरुमूट्टि विभुं नीत्वा कृत्वोत्सङ्गे दिवस्पतिः । तीर्थोदकैरभ्यषिञ्चत्स्वं च हर्षायुवारिभिः ॥ १० ॥ वासवेन ततो मातुरर्पितस्य जगदगुरोः । धात्रीकम्माणि साणि विदधुर्विबुधस्त्रियः ॥ ११ ॥ निरीक्ष्य ऋषभाकारं लक्ष्मोरी दक्षिण प्रभोः । चक्रतुः पितरौ नाम ऋषभेति प्रमोदतः ॥ १२ ॥ अमन्दं दददानन्दं सुधारश्मिरिव प्रभुः । त्रिदशाहारयोगेन पोषितो वधे क्रमात् .१३ ॥ Page #44 -------------------------------------------------------------------------- ________________ ४४ योगशास्त्र अन्येद्युर्द्युसदामोश उपासितुमुपागतः । अचिन्तयद्भगवतो वंशः क इह कल्पताम् ॥ १४ ॥ अवगत्य तदाकूतमवधिज्ञानतो विभुः । तत्करेक्षुलतां लातुं करोव करमक्षिपत् ॥ १५ ॥ तां समर्प्य जगद्भर्त्तुः प्रणम्य च बिडौजसा । इक्ष्वाकुरिति वंशस्य तदा नाम प्रतिष्ठितम् ॥ १६ ॥ बाल्यं कल्यमिवोल्लङ्घन मध्यन्दिनमिवार्य्यमा । विभुर्विभक्तावयवं द्वितीयं शिश्रिये वयः ॥ १७ ॥ यौवनेऽपि मृदू रक्तौ कमलोदरसोदरौ । उष्णावकम्प्रावस्वेदौ पादौ समतलौ प्रभोः ॥ १८ ॥ नतार्त्तिच्छेदनायेव प्रपेदे चक्रमीशितुः । सदास्थितश्रीकरेणोरिव दामाङ्कुशध्वजाः ॥ १८ ॥ स्वामिनः पादयोर्लक्ष्मीलीलासदनयोरिव । शङ्खकुम्भौ तले पार्णी स्वस्तिकश्च विरेजिरें ॥ २० ॥ मांसलो वर्त्तुलस्तुङ्गो भुजङ्गमफणोपमः । अङ्गुष्ठः स्वामिनो वत्स इव श्रीवत्सलाञ्छितः ॥ २१ ॥ प्रभोर्निर्वातनिष्कम्पाः स्निग्धदीपशिखोपमाः । नीरन्ध्रा ऋजवोऽङ्गुल्यो दलानीव पदान्नयोः ॥ २२ ॥ नन्द्यावर्ता जगद्भर्तुः पादाङ्गुलितलेष्वभान् । हिम्बानि क्षितौ धम्मप्रतिष्ठाहेतुतां ययुः ॥ २३ ॥ यवाः पर्वस्त्रङ्गुलीनामधोवापीभिराबभुः । उप्ता इव जगन्नक्ष्मीविवाहाय जगत्प्रभोः ॥ २४ ॥ Page #45 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । कन्दः पादाम्बुजस्येव पार्णिवृत्तायत: पृथुः । अङ्गुष्ठाङ्गुलिफणिनां फणामणिनिभा नखाः ॥ २५ ॥ हेमारविन्दमुकुलकर्णिकागोलकश्रियम् । गूढौ गुल्फो वितैनाते नितान्त स्वामिपादयोः ॥ २६ ॥ प्रभोः पादावुपर्यानुपूर्त्या कूम्भवदुब्रतो। अप्रकासिरौ स्निग्धच्छवी लोमविवर्जिती ॥ २७ ॥ अन्तमग्नास्थिपिशितपुष्कले क्रमवर्तुले । एणीजङ्घाविडम्बिन्यौ जो गौौं जगत्पतेः ॥ २८ ॥ जानुनी खामिनोऽधातां वर्तुले मांसपूरिते। तूलपूर्णपिधानान्तःक्षिप्तदर्पणरूपताम् ॥ २८ ॥ जरू च मृदुलौ स्निग्धावानुपूर्येण पीवरौ। बिभराञ्चक्रतुः प्रौढकदलीस्तम्भविभ्रमम् ॥ ३० ॥ स्वामिनः कुञ्जरस्येव मुष्की गूढी समस्थिती। प्रतिगूढं च पुंश्चिङ्गं कुलीनस्येव वाजिनः ॥ ३१ ॥ तच्चासिरमनिनोच्चमढ़वादीर्घमनथम् ।.... सरलं मृदु निर्लोम वर्तुलं सुरभीन्द्रियम् ॥ ३२ ॥ शोतंप्रदक्षिणावर्त शब्दयुक्तकधारकम् । अबीभत्सावर्ताकारकोशस्थं पिचरं तथा ॥ ३३ ॥ आयता मांसला स्थूला विशाला कठिना कटिः । मध्यभागस्तनुत्वेन कुलिशोदरसोदरः ॥ ३४ ॥ नाभिर्बभार गम्भौरा सरिदावर्तविभ्रमम् । कुक्षी सिग्धौ मांसवन्तो कोमली सरलौ समौ ॥ ३५ ॥ Page #46 -------------------------------------------------------------------------- ________________ ४६ योगशास्त्रे अधाहक्षःस्थलं स्वर्मशिलापृथुलमुवतम् । श्रीवस्मरत्नपीठाझं श्रीलीलावेदिकाश्रियम् ॥ ३६ ॥ दृढपोनोन्नती स्कन्धौ ककुद्मत्ककुदोपमौ । अल्परोमोनते कक्षे गन्धवेदमलोज्झिते ॥ ३० ॥ पौनौ पाणिफणिच्छनौ भुजावाजानुलम्बितौ । चञ्चलाया नियमने नागपाशाविव श्रियः ॥ ३८ ॥ नवाम्रपल्लवाताम्रतलौ निष्कर्मकर्कशी। । अखेदनावपच्छिद्रावुष्णौ पाणी जगत्पतेः ॥ ३८ ॥ दण्डचक्रधनुमत्स्यश्रीवत्सकुलिशाङ्गुणैः । ध्वजाजचामरच्छत्रशलकुम्भाब्धिमन्दरैः ॥ ४० ॥ मकरर्षभसिंहाखरथस्वस्तिकदिग्गजैः। प्रासादतोरणदीपैः पाणी पादाविवादितौ ॥ ४१ ॥ अङ्गुष्ठाङ्गलय: शोणा: सरलाः शोणपाणिजाः । प्ररोहा इव कल्पद्रो: प्रान्तमाणिक्यपुष्पिताः ॥ ४२ ॥ यवाः स्पष्टमशोभन्त स्वामिनोऽङ्गुष्ठपर्वसु । यशोवरतुरङ्गस्य पुष्टिवैशिष्टाहेतवः ॥ ४३ ॥ अङ्गलौमूईसु विभोः सर्वसम्पत्तिशंसिनः । दधुः प्रदक्षिणावर्ता दक्षिणावर्तशकताम् ॥ ४४ ॥ कृच्छ्रादुद्दरणीयानि जगन्ति त्रीण्यपौत्यभान् । संख्यालेखा इव तिस्रो लेखा मूले करानयोः ॥ ४५ ॥ वालोऽनतिदीर्घश्च लेखात्रयपवित्रितः । गम्भीरध्वनिराधत्ते कण्ठः कम्बु विडम्बनाम् ॥ ४६ ॥ Page #47 -------------------------------------------------------------------------- ________________ ४७ प्रथमः प्रकाशः । विमलं वर्तुलं कान्तितरङ्गि वदनं विभोः । पीयूषदीधितिरिवापरो लान्छनवर्जितः ॥ ४७ ॥ ममृणौ मांसलौ निग्धी कपोलफलको प्रभोः । दर्पणाविव सौवर्णों वाग्लक्ष्मयोः सहवासयोः ॥ ४८ ॥ अन्तरावर्तसुभगो कर्णो स्कन्धान्तलम्बिती। प्रभोर्मुखप्रभासिन्धुतौरस्थे शक्तिके इव ॥ ४८ ॥ पोष्ठी बिम्बोपमौ दन्ता हात्रिंशत्कुन्दसोदराः । क्रमस्फारा क्रमोत्तुङ्गवंशा नासा महेशितुः ॥ ५० ॥ अहवदी, चिबुकं मांसलं वर्तुलं मृदु । मेचकं बहुलं सिग्धं कोमलं श्मश्रु तायिनः ॥ ५१ ॥ प्रत्यग्रकल्पविटपिप्रवालारुणकोमला। . प्रभोजिह्वानतिस्थूला हादशाङ्गागमार्थसूः ॥ ५२ ॥ अन्तरा कृष्णधवले प्रान्तरक्त विलोचने । नौलस्फटिकशोणाश्ममणिन्यासमये इव ॥ ५३ ॥ ते च कर्णान्तविश्रान्ते कज्जलश्यामपक्षमणी। : विकस्वरे तामरसे निलोनालिकुले इव . ५४ ॥ बिभराञ्चकतर्भर्तुः श्यामले कुटिले ध्रुवी। ... दृष्टिपुष्करिणीतौरसमुद्भिवलताश्रियम् ॥ ५५ ॥ विशालं मांसलं वृत्तं ममृणं कठिनं समम्। भालस्थलं जगङ्गतुरष्टमोसोमसोदरम् ॥ ५६ ॥ . भुवनस्वामिनो मौलिरानुपूर्या समुद्रतः । दधावधोमुखीभूतच्छत्रसब्रह्मचारिताम् ॥ ५७ ॥ Page #48 -------------------------------------------------------------------------- ________________ ४८ योगशास्त्रे मौलिच्छत्रे महेशस्य जगदीशवशंसिनि । वृत्तमुत्तुङ्गमुष्णीषं शिश्रिये कलशथियम् ॥ ५८ ॥ केशाचकाशिरे मूड़ि प्रभोर्भमरमेचकाः । कुञ्चिताः कोमला: स्निग्धाः कालिन्द्या इव वीचयः ॥५८॥ गोरोचनागर्भगौरी स्निग्धस्वच्छा त्वगाबभौ । वर्णद्रवविलिप्तेव तनौ त्रिजगदीशितुः ॥ ६ ॥ मृदूनि भ्रमरश्यामान्यद्वितीयोहमानि च । बिसतन्तुतनीयांसि लोमानि स्वामिनस्तनौ ॥ ६१ ॥ उत्फुल्लकुमुदामोदः श्वासो विस्रतरत्पलम् । गोक्षीरधाराधवलं रुधिरं च जगत्पतेः ॥ ६२ ॥ इत्यसाधारणैर्नानालक्षणैर्लक्षितः प्रभुः । रत्नै रत्नाकर इव सेव्यः कस्येह नाभवत् ॥ ६३ ॥ अन्येद्युः क्रीडया क्रीडदालभावानुरूपया। मिथो मिथुनकं किञ्चित्तले तालतरोरगात् ॥ ६४ ॥ तदैव दैवदुर्योगात्तन्मध्यानरमूई नि । तडिद्दण्ड इवैरण्डेऽपतत्तालफलं महत् ॥ ६५ ॥ प्रहतः काकतालीयन्यायेनाम्खेव मम्मणि । विपनो दारकस्तत्र प्रथमेनापमृत्युना ॥ ६६ ॥ कालधम्मं गते तस्मिंस्त द्वितीया नितम्बिनी। यूथभ्रष्टा कुरङ्गीव किंकर्तव्यजडाभवत् ॥ ६७ ॥ प्रकाण्डमुहराघातेनेव सेनापमृत्युना । बभूवुर्मूर्छितानीव मिथुनान्यपराण्यपि ॥ ६८ ॥ Page #49 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः। 2. तानि तामप्रतः कत्वा नारौं पुरुषवज्जिताम् ।। किंकर्तव्यविमूढानि श्रीनाभरुपनिन्यिरे ॥ ६८ एषा वृषभनाथस्य धर्मपत्नी भवत्विति । प्रतिजग्राह तां नाभिर्मेत्रकैरवकौमुदीम् ॥ ७० ॥ भन्यदा तु 'विभोरुद्यप्राग्भोगफलकम्र्मणः । पागादिन्द्रो विवाहार्थं वृन्दारकगणान्वितः ॥ ७१ ॥ ततः वर्णमयस्तम्भभ्राजिष्णुमणिपुत्रिकम् । अनेकनिर्गमहारमकार्षुमण्डपं सुराः ॥ ७२ ॥ खेतदिव्यांशकोलोचच्छलेन गगनस्थया। ... गङ्गयेवात्रितः सोऽभूरिशोभादिदृक्षया ॥ ७३ ॥ तोरणानि चतुर्दिसु सन्तानतरुपल्लवैः । तत्राभूवन धनूंषीव सज्जितानि मनोभुवा ॥ ७४ ॥ चतस्रो रत्नकलशश्रेणयोऽनंलिहाग्रगाः । पर्यस्थाप्यन्त देवोभिनिधानानि रतेरिव ॥ २५ ॥ वषुमण्डपहारे चेलोत्क्षपं पयोमुचः। चक्रे मध्ये मुरीभिर्भूः पशिला यक्षकद्दमैः ॥ ७६ ॥ वाद्यमानेषु तूर्येषु गौयमाने च मङ्गले । भवादयबगायंश्च प्रतिशब्देर्दिगणनाः ॥ ७७ ॥ सुमङ्गलासुनन्दाभ्यां कुमारीभ्यामकारयत् । वासवः परमेशस्य पाणिग्रहमहोत्सवम् ॥ ७८ ॥ कछ विभोरभ्युद्योगफलकर्मणः। (२) ख ग अलिहायकाः । Page #50 -------------------------------------------------------------------------- ________________ ५० योगशास्त्रे ततः सुमङ्गलादेवी देवैः प्रक्कतमङ्गला । अपत्ये भरतब्राह्मौ युग्मरूपे अजीजनत् ॥ ७८ ॥ त्रैलोक्यजनितानन्दा सुनन्दा सुषुवे युगम् । सुबाहुं बाहुबलिनं सुन्दरीं चातिसुन्दरीम् ॥ ८० ॥ पुनरेकोनपञ्चाशत्पुंयुगानि सुमङ्गला । असूत बलिनो मूर्त्तान् द्वैरूप्येणेव मारुतान् ॥ ८१ ॥ अन्येद्युरन्याय इति पूत्कारोद्धृतबाहुभिः । नाभिर्व्यज्ञपि सम्भूय सर्व्वेर्मिथुनकैरिदम् ॥ ८२ ॥ तिस्रो हकारमकारधिक्काराख्याः सुनीतयः । न गण्यन्तेऽधुना पुग्भिः कुर्व्वद्भिरसमञ्जसम् ॥ ८३ ॥ ततः कुलकरोऽप्यूचे त्रातास्मादसमञ्जसात् । एष वो वृषभः स्वामी तद्दर्त्तध्वं तदाज्ञया ॥ ८४ ॥ तदा कुलकराज्ञातः कर्त्तुं राज्यस्थितिं स्फुटाम् । प्रभुर्ज्ञानत्त्रयमयो मिथुनान्येवमन्वशात् ॥ ८५ ॥ राजा भवति मर्यादाव्यतिक्रमनिरोधकः । तस्योच्चासनदानेनाभिषेकः क्रियते जलैः ॥ ८६ ॥ आकर्ण्य वचनं भर्त्तुस्ते सर्व्वे युग्मधम्मिंणः । तच्छिनया ययुः पत्रपुटैर्जलजिघृक्षया ॥ ८७ ॥ तदा चासनकम्पेनावधिज्ञानप्रयोगतः । विज्ञातभगवद्राज्य समयः शक्र श्रययौ ॥ ८८ ॥ रत्नसिंहासनेऽध्यास्य वासवः परमेश्वरम् । साम्राज्येऽभिषिषेचालञ्चक्रे च मुकुटादिभिः ॥ ८ ॥ Page #51 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । इतथाम्भोजिनीपत्रपुटैरञ्जलिधारितैः। .. निजं मन इव स्वच्छमानिन्ये मिथुनर्जलम् ॥ ४० ॥ उदयाद्रिमिवाण मुकुटेनोपशोभितम् । अत्यन्तविमलैर्वस्त्रोमेव शरदम्बुदैः ॥ ८१ ॥ हंसैरिव शरत्कालं सञ्चरच्चारुचामरैः। कताभिषेकं नाभयं ददृशुस्तानि विस्मयात् ॥ ८२ ॥ (युग्मं) नैतद्युक्तं प्रभोर्मू क्षेप्तुमेवंविमर्शिभिः । विनीतैमिथुनैर्वारि निदधे पादपद्मयोः ॥ ८३. योजनान्यथ विस्तीणां नव द्वादश चायताम् ।। विनीताख्यां पुरौं कत्तुं श्रीदमुक्ता हरिययौ ॥ २४ ॥ सोऽपि रत्नमयों भूमर्माणिक्यमुकुटोपमाम् । व्यधात् हिषामयोध्येति तामयोध्यापराभिधाम् ॥ ८५ ॥ तां च निर्माय निर्मायः पूरयामास यक्षराट । अक्षय्यरत्नवसनधनधान्यनिरन्तरम् ॥ ८६ ॥ वब्वेन्द्रनीलवैडूर्यहर्यकिर्भीररश्मिभिः । भित्तिं विनापि खे तत्र चित्रकर्म विरच्यते ॥ १७ ॥ तहप्रे दीप्रमाणिक्यकपिशौर्षपरम्पराः। प्रयत्नादर्शतां यान्ति चिरं खेचरयोषिताम् ॥ ८ ॥ तस्यां ग्रहाङ्गणभुवि स्वस्तिकन्यस्तमौक्तिकैः ।। खैरं कर्करकक्रीडां कुरुते बालिकाजनः ॥ ८ ॥ तत्रोद्यानोच्चवृक्षाग्रस्वल्यमानान्यहर्बिशम् । खेचरीणां विमानानि क्षणं यान्ति कुलायताम् ॥.१०० ॥ Page #52 -------------------------------------------------------------------------- ________________ ५२ योगशास्त्रे तत्र दृष्ट्वाऽह्हर्म्येषु रत्नराशीन् समुच्छ्रितान् । तदवकरकूटोऽयं तते रोहणाचलः ॥ १ ॥ जलकेलिरतस्त्रीणां त्रुटितैरमौक्तिकैः । ताम्रपर्णीश्रियं तत्र दधते गृहदीर्घिकाः ॥ २ ॥ तत्त्रेभ्याः सन्ति ते येषां कस्याप्येकतमस्य सः । व्यवहर्त्तु ं गतो मन्ये वणिक्पुत्रो धनाधिपः ॥ ३ ॥ नक्तमिन्दुदृषद्भित्तिमन्दिरस्यन्दिवारिभिः । प्रशान्तपांशवो रथ्याः क्रियन्ते तत्र सर्व्वतः ॥ ४ ॥ वापीकूपसरोलक्षैः सुधासोदरवारिभिः । नागलोकं नवसुधाकुण्डं परिबभूव सा ॥ ५ ॥ नगरौं तामलङ्कुर्व्वन्नरेन्द्रो वृषभध्वजः । अपत्यानि निजानीव प्रजाश्विरमपालयत् ॥ ६ ॥ तत उत्पादयामास लोकानुग्रहकाम्यया । एकैकशो विंशतिधा पञ्च शिल्पानि नाभिभूः ॥ ७ ॥ राज्यस्थितिनिमित्तं चाऽग्रहोद्गास्तुरगान् गजान् । सामाद्युपायसारां च नौतिरीतिमदर्शयत् ॥ ८॥ द्वासप्ततिकलाकाण्डं भरतं चाध्यजोगपत् । भरतोऽपि निजान् भ्रातॄंस्तनयानितरानपि ॥ ८॥ नाभेयो बाहुबलिनं भिद्यमानान्यनेकशः । लक्षणानि च हस्त्यश्वस्त्रीपुंसानामजिज्ञपत् ॥ १० ॥ अष्टादशलिपोर्ब्राह्मया अपसव्येन पाणिना । दर्शयामास सव्येन सुन्दर्या गणितं पुनः ॥ ११ ॥ Page #53 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः। वर्णव्यवस्था रचयन् न्यायमार्ग प्रवर्तयन् ।... वाशीतिं पूर्वलक्षाणि नाभिभूरत्यवाहयत् ॥ १२ ॥ प्रभुः स्मरकतावासे मधुमासे समैयुषि । .. पगादन्येधुरुधाने परिवारानुरोधतः ॥ १३ ॥ .. गुञ्जलिः फुल्लमाकन्दमकरन्दोमदालिभिः । मधुललीबभूव स्वागतिकीव जगत्प्रभोः ॥ १४ ॥ . पूर्वरङ्ग इवारब्धे पञ्चमोच्चारिभिः पिकैः । पदर्शयलतालास्यं मलयानिललासकः ॥ १५ ॥ प्रतिशोखं विलम्नाभिः पुष्योञ्चयकुतूहलात् । स्त्रीभिस्तबाभवन् वृक्षाः सनातनीफला इव ॥ १६ ॥ पुष्पवासगृहासीनः पुष्पाभरणभूषितः । पुष्पगेन्दुकहस्तोऽभामधुर्मूर्त इव प्रभुः ॥ १७ ॥ तत्र 'खेलायमानेषु निर्भरं भरतादिषु । दध्यौ खामी किमीक्षा क्रीडा दोगुन्दगेष्वपि ॥ १८॥ जशेऽथावधिना स्वामी स्वःसुखान्युत्तरोत्तरम् ।। अनुत्तरस्वर्गसुखं भुक्तपूर्व स्वयं च तत् ॥ १८ ॥ भूयोऽप्यचिन्तयदिदं विगलमोहबन्धनः । धिगेष विषयाक्रान्तो वेत्ति नामहितं जनः ॥ २० ॥ पहो संसारकूपेऽस्मिन् जीवाः कुर्वन्ति कम्मभिः । भरघटघटीन्यायेनैहिरीयाहिरां क्रियाम् ॥ २१ ॥ (१) क होजायमानेषु । Page #54 -------------------------------------------------------------------------- ________________ ५४ - योगशास्त्रे इत्यासीन्मनसा यावद्विभुर्भवपराङ्मुखः । तावल्लोकान्तिका देवा एयुः सारस्वतादयः ॥ २२ ॥ बङ्घरञ्जलिभिमूनि कृतान्यमुकुटा इव । प्रणम्य ते व्यज्ञपयन् स्वामिस्तीर्थं प्रवर्त्तय ॥ २३ ॥ गतेषु तेषु भगवानुद्यानावन्दनाभिधात् । व्यावृत्त्य गत्वा नगरीमाजुहावावनीपतीन् ॥ २४ ॥ राज्येऽभ्यषिञ्चद्भरतं ज्येष्ठपुत्रं ततो विभुः। बाहुबल्यादिपुत्राणां विभज्य विषयान् ददौ ॥ २५ ॥ सांवत्सरिकदानेन ततोऽतीत्तथा भुवम् । !' देहीति दीनवाक्यश्च कश्चिदासौद्यथा नहि ॥ २६ ॥ अथासनप्रकम्पेन सर्वेऽप्यभ्येत्य वासवाः । अभिषेकं प्रभोश्चऋगिररिव पयोमुचः ॥ २० ॥ माल्याङ्गरागैर्देवेशन्यस्तैर्वासितविष्टपैः । खयशोभिरिवाशोभि परितः परमेश्वरः ॥ २८ ॥ विचित्रैरर्चितो वस्त्रैरत्नलप्तश्च भूषणैः । विभुर्बभासे सध्यावधिष्णैरिव मरुत्पथः ॥ २८ ॥ दिवि दुन्दुभिनादं च कारयामास वासवः । जगतो दददानन्दमसन्मान्तमिवात्मनि ॥ ३० ॥ सुरासुरनरोहाह्यामारोहच्छिबिकां विभुः । अईलोकगतर्मागं जगतो दर्शयविव ॥ ३१ ॥ एवं सदेवैर्देवेशैश्चक्रे निष्क्रमणोत्सवः । यं पश्यद्भिर्निजदृशां नैनिमेष्यं कृतार्थितम् ॥ ३२ ॥ Page #55 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाश: । गत्वा सिद्धार्थकोद्याने मुमोच परमेखरः। कुसुमाभरणादीनि कषायानिव सर्वतः ॥ ३३ ॥ चतुर्भिसृष्टिभिः केशानुद्दधार जगद्गुरुः । जिचक्षुः पञ्चमी मुष्टिं वासवेनेति याचितः ॥ ३४ ॥ देवांसयोः स्वर्णरुचोर्वाचातीतातिशोभते । केशवजयंसावास्तामिति तां स्वाम्यधारयत् ॥ ३५ ॥ प्रतीच्छतश्च सौधर्माधिपतेः सिचयाचले। खामिकेशा दधुर्दत्तवर्णान्तरगुणश्रियम् ॥ ३६ ॥ क्षीरोदधौ सुधर्मेश: केशान् क्षिप्वाभ्युपेत्य च। रङ्गाचार्य इवारक्षत्तुमुलं मुष्टिसंनया ॥ ३७॥ । सर्व सावधं प्रत्याख्यामीति चारित्रमुच्चकैः । मोक्षाध्वमो रथमिवाध्यारुरोह जगत्पतिः ॥ ३८ ॥ सर्वतः सर्वजन्तूनां मनोद्रव्याणि दर्शयत् । जझे ज्ञानं प्रभोस्तुयं मनःपर्यायसंज्ञकम् ॥ ३८ ॥... राज्ञां सहस्राथत्वारोऽनुयान्तस्तं निजप्रभुम् । ... व्रतमाददिर भक्त्या कुलीनानां क्रमो यसौ ॥.४० ॥ ततः सर्वेष्वपीन्द्रेषु गतेषु खं स्वमालयम् । .. व्यहरत्तैर्वृत्तः स्वामी यूथनाथ इव हिपैः ॥ ४१ ॥ लोकैर्भिक्षास्वरूपा भिक्षाभ्रमतः प्रभोः । अटौकि कन्येभावादि धिगाजवमपि क्वचित् ॥ ४२ ॥ न्याय्यामप्राप्नुवन् भिक्षा सहमान: परीषहान् । अदीनमानसः स्वामी मौनव्रतमुपाश्रितः ॥ ४३ ॥ Page #56 -------------------------------------------------------------------------- ________________ · · योगशास्त्रे श्रमणानां सहस्रेस्तैश्चतुर्भिरपि नाभिभूः । सुधार्तेर्मुमुचे को वा 'ससत्त्वो भगवानिव ॥ ४४ ॥ वने मूलफलाहारा जजिरे ते तु तापसाः । भवाटवीपथजुषो धिक्तान्मोक्षपथच्युतान् ॥ ४५ ॥ पथ कच्छमहाकच्छपुनावाजागती कचित् । ईयतुर्नमिविनमी स्वामिनं प्रतिमास्थितम् ॥ ४६ ॥ प्रणम्य तो विज्ञपयाम्बभूवतरिति प्रभुम् । पावयो परः स्वामी स्वामिन् राज्यप्रदो भव ॥ ४७ ॥ न किञ्चिदूचे भगवांस्तदा तौ सेवकावपि । निर्ममा हि न लिप्यन्ते कस्याप्यहिकचिन्तया ॥ ४८ ॥ तो कष्टासी सिषेवाते स्वामिनं पारिपार्खिको। अहर्निशं मेरुगिरिं सूर्याचन्द्रमसाविव ॥ ४८ ॥ .. मथ तो धरणन्द्रेण प्रभु वन्दितुमयुषा । को युवामिह को हेतुरित्युक्तावेवमूचतुः ॥ ५० ॥ भृत्यावावामसी भर्ता कचिदप्यादिदेश च । राज्यं विभज्य सर्वेषां स्वपुत्राणामदत्त च ॥ ५१ ॥ पपि प्रदत्तसर्वखो दातासो राज्यमावयोः । अस्ति नास्तीति का चिन्ता कार्या सेवेव सेवकैः ॥ ५२ ॥ याचेयां भरतं स्वामी निर्ममो निष्परिग्रहः । किमद्य दद्यादिति तो तेनोलावित्यवोचताम् ॥ ५३ ॥ (१) ख ग च सत्यवान्। Page #57 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः। विश्वस्वामिनमाप्यामुं कुर्वः खाम्यन्तरं नहि । कल्पपादपमासाद्य कः करोरं निषेवते ॥ ५४॥ . पावां याचावहे नान्यं विहाय परमेखरम् । . पयोमुचं विमुच्चान्यं याचते चातकोऽपि किम् ॥ ५५ ॥ वस्त्यस्तु भरतादिभ्यः किं तवास्मद्विचिन्तया। . . खामिनोऽस्माद्यद्भवति तद्भवत्वपरण किम् ॥ ५६ ॥ सदुक्तिमुदितोऽवादीदथेदं पबगेखरः । पातालपतिरषोऽस्मि स्वामिनोऽस्यैव किङ्करः ॥ ५७ ॥ सेव्यः स्वाम्पयमेवेति प्रतिज्ञा साधु साधु वः । .:: खामिसेवाफलं विद्याधरैखयं ददामि तत् । ५८ ॥ खामिसेवाप्तमेवैतध्येथां हन्त नान्यथा। सम्बोध्येति ददौ विद्याः प्राप्तीप्रमुखास्तयोः ॥ ५८ ॥ ईयतुस्तदनुज्ञातौ पञ्चाशद्योजनौपथम् । तो वैताब्याट्रिमुत्सेधं पञ्चविंशतियोजनम् ॥ ६० ॥ दशयोजनविस्तारदक्षिणश्रेणिमध्यगाः । .... तत्र विद्याबलाचक्रे नमिः पञ्चाशतं पुरोः ॥ ६१ ॥ दशयोजनविस्तारोत्तरश्रेण्या न्यवौविशत्। विद्याधरपतिः षष्टिं पुराणि विनमिः पुनः ॥ ३२ ॥ चक्राते चक्रवर्तित्वं 'चिराद विद्याधरेषु तौ। तादृशः खामिसेवायाः किं नाम स्याद्दरासदम् ॥ ६३ ॥ (१) ख मच चिरम । Page #58 -------------------------------------------------------------------------- ________________ योगशास्त्रे वर्ष मौनी निराहारो विहरन् भगवानपि । पुरं गजपुरं नाम प्रययौ पारणेच्छया ॥ ६४ ॥ तदा च सोमयशसः श्रेयांस: स्वप्नमैक्षत । मेरं श्यामं सुधाकुम्भैः क्षालयित्वोज्वलं व्यधात् ॥ ६५ ॥ सुबुद्धिवेष्ठिनाप्यैक्षि गोसहस्रं रवेथुवतम् । श्रेयांसेनाहितं तत्र ततोऽसौ भासुरोऽभवत् ॥ ६ ॥ अदशि सोमयशसा राजैको बहुभिः परैः । रुद्धः समन्ताच्छ्रेयांससाहाय्याज्जयमौयिवान् ॥ १७ ॥ त्रयस्ते सदसि स्वप्नानान्योऽन्यस्य न्यवीविदन् । ते निर्णयमजानन्तः खं खं स्थानं पुनययुः ॥ ६८ ॥ प्रादुर्भावयितुमिव तदा तत्स्वप्ननिर्णयम् । श्रेयांसस्य ययौ वेश्म भिक्षार्थी भगवानपि ॥ ६८ ॥ भगवन्तं समायान्तं शशाङ्कमिव सागरः । पालोक्य श्रेयसां पात्रं श्रेयांस: शिश्रिये मुदम् ॥ ७० ॥ जहापोहं वितन्वान: श्रेयांसः स्वामिदर्शनात् । .. अवाप जातिस्मरणं पूर्वनष्टनिधानवत् ॥ ७१ ॥ चक्रभृहज्जनाभोऽसौ प्राग्भवेऽस्यास्मि सारथिः । अनुप्रवजितश्चामुं तदेत्यादि विवेद सः ॥ ७२ ॥ ततो विज्ञातनिर्दोषभिक्षादानविधिः सुधीः । स्वामिने प्रासुकायातक्षुरसं मुदितो ददौ ॥ ७३ ॥ भूयानपि रसः पाणिपात्रे भगवतो ममौ । श्रेयांसस्य तु हृदये ममुनहि मुदस्तदा ॥ ७४ ॥ Page #59 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । ५८ स्त्यानोऽनुस्तम्भितोऽन्वासीद् व्योनि लग्नशिखो रसः । अन्जली स्वामिनोऽचिन्त्यप्रभावाः प्रभवः खलु ॥ ७५ ॥ ततो भगवता तेन रसेनाकारि पारणम् । मुरासुरनृणां नेत्रैः पुनस्तद्दर्शनामृतैः ॥ ७६ ॥ कुर्वद्भिर्दुन्दुभिध्वानं देवैर्दिवि घनैरिव । वृष्टयो रत्नपुष्पाणां चक्रिरे वारिदृष्टिवत् ॥ ७७ ॥ अथ तक्षशिला स्वामी ययौ बाहुबलेः पुरीम् । बायोद्याने प्रपेदे च प्रतिमामेकरात्रिकीम् ॥ ७८ ॥ • प्रभाते पावयिष्यामि खं लोकं खामिदर्शनात् । .. इतीच्छतो बाहुबलेः साभून्मासोपमा निशा ॥ ७९ ॥ स प्रात: प्रययौ यावत्तावत्वाम्यन्यतोऽगमत् ।। तच्चास्वामिकमुद्यानं व्योमेवाचन्द्रमैक्षत ॥ ८० ॥ मनोरथो विलीनो मे हृदि बीजमिवोषरे । हा धिक् प्रमहरोऽस्मोति बह्वात्मानं निनिन्द सः ॥ ८१.. यत्रास्थातां प्रभोः पादौ रत्नस्तवार्षभियंधात् । . धम्मचक्र सहस्रारं सहस्रांशुमिवापरम् ॥ २ ॥ विवधाभिग्रहः स्वामी म्लेच्छदेशष्वधर्मसु ।। .. विजहार यथार्येषु समभावा हि योगिनः ॥ ८३ ॥ तदा प्रभृत्यनार्याणामपि पापैककर्मणाम् । धर्मास्तिक्यधिया जन्ने दृढानुष्ठानचेष्टितम् ॥ ८४ ॥ एवं विहरमाणस्तु सहस्रे शरदां गते । पुरं पुरिमतालाख्यमाजगाम जगद्गुरुः ॥ ८५॥ Page #60 -------------------------------------------------------------------------- ________________ :: योगशास्त्रे तत्पूर्वोत्तरदिग्भागे कानने शकटानने। - वटस्थाधोऽष्टमभक्तनास्थाप्रतिमया प्रभुः ॥ ८६ ॥ आरुह्य क्षपकणिमपूर्वकरणक्रमात् । शुक्लध्यानान्तरं शुधमध्यासीच्च जगत्पतिः ॥ ८७॥ ततश्च धातिकर्माणि व्यलोयन्त घना इव । खामिन: केवलज्ञानरविराविबभूव च ॥ ८८ ॥ विमानान्यतिसम्मर्दाद घड्यन्तः परस्परम् । एयुरिन्द्राश्चतुःषष्टिः समं देवगणैस्तदा ॥ ८८॥ त्रैलोक्यभर्तुः समवसरणस्थानभूतलम् । अमृजधायुकुमाराः स्वयं मार्जितमानिनः ॥ १० ॥ गन्धाम्बुदृष्टिभिर्मेधकुमाराः सिषिचुः क्षितिम् । : सुगन्धिबाष्य : सोत्क्षिप्तधूपाधैवैष्यतः प्रभोः ॥ ८१ ॥ पुष्पोपहारमृतवो जानुदघ्नं व्यधुर्भुवि । अप्येषत्पूज्यसंसर्गः पूजायै खलु जायते ॥ ८ ॥ निग्धधूमशिखास्तोमवासितव्योममण्डलाः। : चक्रुधूपघटीस्तत्र तत्र वह्निकुमारकाः ॥ ८३ ॥ इन्द्रचापशतालीढमिव नानामणिविषा । ततः समवसरणं चक्रे शक्रादिभिः सुरैः ॥ ८४ ॥ रजतवर्णमाणिक्यवप्रास्तत्र त्रयो बभुः। भुवनाधिपतिज्योतिर्वैमानिकसुरैः कृताः ॥ ५ ॥ असौ स्वर्गमसौ मोक्षं गच्छत्यध्वेति देहिनाम् ।। शंसन्स्य इव वलान्यः पताकास्तेषु रेजिरे ॥ ८ ॥ Page #61 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । विद्याधर्यो रत्नमय्यो वप्रोपरि चकाशिरे । सतप्रवेशनिष्काशा विमानाशङ्कया सुरैः ॥ ८७ ॥ माणिक्यकपिशीर्षाणि मुग्धामरवधूजनैः। . पालोक्यन्त चिरं हर्षाद्रनताडाशया. ॥८॥ प्रतिवप्रः च चत्वारि गोपुराणि बभासिरे। . चतुर्विधस्य धर्मस्य क्रीडावातायना इव ॥८॥ चक्रे समवसरणान्तरेऽशोकतनः सुरैः। क्रोशत्रयोदयो रत्नत्रयोदयमिवोद्दिशन् ॥ २० ॥ तस्याधःपूर्वदिग्भागे रत्नसिंहासनं सुराः । । सपादपीठं विदधुः सारं स्वर्गश्यिामिव ॥१॥ प्रविश्य पूर्वहारेण नत्वा तीर्थ तमरिच्छदे। ... स्वामी सिंहासनं भेजे पूर्वाचलमिवार्यमा ॥ २ ॥ रत्नसिंहासनस्थानि दिवन्यास्त्रपि तत्क्षणम् । . भगवत्प्रतिबिम्बानि बौणि देवा विचक्रिरे ॥ ३ ॥ वराकीकतराकेन्दुमण्डलं परमेशितः। . .. त्रैलोक्यखामिताचिङ्गमिवच्छतनयं बभौ ॥ ४ ॥ भगवानेक एवायं स्वामौत्यूर्जीवतो भुजः। ..... इन्द्रेण च प्रभोरप्रे रेजे रवमयोः ध्वजः ॥ ५ ॥ .. चका केवलज्ञानिचक्रवर्तित्वसूचकम् । प्रत्यद्भुतप्रभाचक्रं धर्मचक्र प्रभोः पुरः ॥ ६ ॥ रेजतुर्जागवौवीचिसोदर चारुचामरे । हंसाविवानुधावन्तौ स्वामिनी मुखपङ्कजम् ॥ ७ ॥ Page #62 -------------------------------------------------------------------------- ________________ ६२ योगशास्त्रे आविर्बभूवानुवपुस्तदा भामण्डलं विभोः । खद्योतपोतवद्यस्य पुरो मार्त्तण्डमण्डलम् ॥ ८ ॥ प्रतिध्वामैश्चतस्रोऽपि दिशो मुखरयन् भृशम् । अम्भोद इव गम्भीरो दिवि दध्वान दुन्दुभिः ॥ ८ ॥ अधोवृन्ताः सुमनसो विष्वग्वलषिरे सुरैः । शान्तीभूते जने त्यक्तान्यस्त्राणीव मनोभुवा ॥ १० ॥ पञ्चत्रिंशदतिशयान्वितया भगवान् गिरा । त्रैलोक्यानुग्रहायाथ प्रारभे धर्मदेशनाम् ॥ ११ ॥ भगवत्केवलज्ञानोत्सवं चारा अचीकथन् । भरतस्य तदा चक्ररत्नमप्युदपद्यत ॥ १२ ॥ उत्पन्नकेवलस्तात इतश्चक्रमितोऽभ्यगात् । आदौ करोमि कस्यार्चामिति दध्यौ क्षणं नृपः ॥ १३ ॥ क्क विश्वाभयदस्तातः क्व चक्रं प्राणिघातकम् । विमृश्येति स्वामिपूजाहेतोः खानादिदेश सः ॥ १४ ॥ सुनोः परौषहोदन्तदुःखाश्रूत्पन्नदृग्रुजम् । मरुदेवामथोपेत्य नत्वा चासौ व्यजिज्ञपत् ॥ १५ ॥ श्रदिशः सर्व्वदापीदं यन्मे सूनुस्तपात्यये । पद्मखण्ड इव मृदुः सहते वारिविद्रवम् ॥ १६॥ हिमर्त्ती हिमसम्पातपरिक्लेशवशां दशाम् । अरण्ये मालतोस्तम्ब इव याति निरन्तरम् ॥ १७ ॥ उष्णर्त्तावृष्णकिरण किरणैरतिदारुणैः ! सन्तापं चानुभवति स्तम्बेरम इवाधिकम् ॥ १८ ॥ Page #63 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । तदेवं सर्व्वकालेषु वनवासी निराश्रयः । पृथग्जन इवेकाको वत्सो मे दुःखभाजनम् ॥ १८ ॥ त्रैलोक्यस्वामिताभाजः स्वस्नोस्तस्य सम्प्रति । पश्य सम्पदमित्युक्वारोहयामास तां गजे ॥ २० ॥ सुवर्णवञ्च माणिकाभूषणेस्तुरगेगंजः । पत्तिभिः स्यन्दनैर्मूर्त्तश्रौमयैः सोऽचलत्ततः ॥ २१ ॥ सेन्यैर्भूषणभाःपुञ्जकृतजङ्गमतोरणैः । ૧૨ मच्छन् दूरादपि नृपोऽपश्यद्रत्नध्वजं पुरः ॥ २२ ॥ मरुदेवामथावादीद्भरतः पुरतो ह्यदः । प्रभोः समवसरणं देवि देवैर्विनिर्मितम् ॥ २३ ॥ अयं जयजयारावतुमुलस्त्रिदिवौकसाम् । श्रूयते तातपादान्ते सेवोत्सवमुपेयुषाम् ॥ २४॥ मालवकैशिकोमुख्यग्रामरागपवित्रिता । कर्णामृतमियं वाणी स्वामिनो देशनाकृतिः ॥ २५ ॥ मयूरसारस क्रौञ्चहंसाद्यैः स्खस्वराधिका । आकर्ण्यते दत्तकर्णेः स्वामिनो गोः सविस्मयम् ॥ २६ ॥ तातस्य तोयदस्येव ध्वनावायोजनादिह । श्रुते मनोबलाकेव बलवहेवि धावति ॥ २७ ॥ त्रैलोक्यभर्त्तुर्गम्भीरां वाण संसारतारिणीम् । निर्वातदीपनिस्पन्दा मरुदेवा मुदाऽशृणोत् ॥ २८ ॥ शृण्वन्त्यास्तां गिरं देव्या मरुदेव्या व्यलीयत । आनन्दापयः यः पूरैः पङ्गवत्पटलं दृशोः ॥ २८ ॥ Page #64 -------------------------------------------------------------------------- ________________ " : योगशास्त्रे - साऽपश्यत्तीर्थक्कलक्ष्मौ तस्याऽतिशयशालिनीम् । तस्यास्तदर्शनानन्दस्थैर्यात्कर्म व्यशीर्यंत ॥ ३० ॥ भगवद्दर्शनानन्दयोगस्थैर्यमुपेयुषी। केवलज्ञानमम्नानमाससाद तदैव सा ॥ ३१ ॥ करिस्कन्धाधिरूढैव प्राप्तायुःकर्मसङ्घया । अन्तवत्केवलित्वेन निर्वाणं मरुदेव्यगात् ॥ ३२ ॥ एतस्यामवसप्पिण्यां सिद्धोऽसौ प्रथमस्ततः । क्षोराब्धी तहपुः क्षिवा चक्रे मोक्षोत्सवः सुरैः ॥ ३३ ॥ ततो विज्ञाततमोक्षो हर्षशुग्भ्यां समं नृपः । प्रभच्छायातापाभ्यां शरत्काल इवानशे ॥ ३४ ॥ सन्त्यज्य राज्यचिहानि पदाति: सपरिच्छदः । तत: समवसरणं प्रविवेश विशाम्पति: ॥ ३५ ॥ चतुर्भिर्देवनिकायैः स्वामी परितस्तदा । ददृशे भरतेशे न दृक्चकोरनिशाकरः ॥ ३६ ॥ त्रिश्च प्रदक्षिणीतत्य भगवन्तं प्रणम्य च । मूट्टि बछानलिः स्तोतुमिति चक्री प्रचक्रमे ॥ ३० ॥ जयाखिलजगनाथ जय विश्खाभयप्रद । जय प्रथमतीर्थेश जय संसारतारण ॥ ३८ ॥ अद्यावसर्पिणीलोकपद्माकरदिवाकर । त्वयि दृष्टे प्रभातं मे प्रनष्टतमसोऽभवत् ॥ ३८ ॥ . भव्यजीवमनोवारिनिर्मलीकारकर्मणि । पाणी जयति ते नाथ कतकक्षोदसोदरा ॥ ४० ॥ Page #65 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । ६५ तेषां दूरे न लोकाग्रं कारुण्यक्षीरसागर । समारोहन्ति ये नाथ त्वच्छाशनमहारथम् ॥ ४१ ॥ लोकाग्रतोऽपि संसारमग्रिमं देव मन्महे । निष्कारणजगद्दन्धुर्यत्र साक्षात्त्वमोक्ष्यसे ॥ ४२ ॥ - त्वद्दर्शनमहानन्दस्यन्दमिष्यन्दलोचनैः । स्वामिन् मोक्षसुखास्वादः संसारेऽप्यनुभूयते ॥ ४३ ॥ रागद्देषकषायाद्यैरुद्धं जगदरातिभिः । इदमुद्देष्ट्यते नाथ त्वयैवाभयसत्रिणा ॥ ४४ ॥ स्वयं ज्ञापयसे तत्त्वं मार्गं दर्शयसि स्वयम् | स्वयं च वायसे विश्वं त्वत्तो नाथामि नाथः किम् ॥ ४५ ॥ इति त्वा जगन्नाथं महीनाथशिरोमणिः । ८ देशनावाक्सुधां पूर्णं कर्णाञ्जलिपुटं पपौ ॥ ४६ ॥ तदा ऋषभसेनादीन् भगवान्वृषभध्वजः । दोचयामास चतुरशीतिं गणधरान् स्वयम् ॥ ४७ ॥ अदीक्षयत्ततो ब्राह्मीं भरतस्य च नन्दनान् । शतानि पञ्च नष्तॄंश्च शतानि सप्त नाभिभूः ॥ ४८ ॥ साधवः पुण्डरोकाद्याः साध्वयो ब्राह्मादयोऽभवन् । श्रेयांसाद्याः श्रावकाश्च श्राविकाः सुन्दरीमुखाः ॥ ४८ ॥ एवं चतुर्विधः सङ्घः स्थापितः स्वामिना तदा । ततःप्रभृति सङ्घस्य तथैवेयं व्यवस्थितिः ॥ ५० ॥ स्वाम्यथो भव्यबोधायान्यतोऽगात्सपरिच्छदः । तं नत्वा भरताधीशोऽप्ययोध्यां नगरौं ययौ ॥ ५१ ॥ Page #66 -------------------------------------------------------------------------- ________________ योगशास्त्रे तत्र नाभ्यङ्गभूवंशरत्नाकरनिशाकरः । यथाविधि जुगोपोव्वौं न्यायो विग्रहवानिव ॥ ५२ ॥ चतुःषष्टिः सहस्राणि बभूवुस्तस्य वल्लभाः । अनुचर्यः श्रियो यासां जज्ञिरे रूपसम्पदा ॥ ५३ ॥ तस्मित्र सनासीने वासवस्य दिवौकसः । हयोर्भेदमजानन्तः पेतुः प्रणतिसंशये ॥ ५४ ॥ प्रारब्धदिग्जयः पूर्वं पूर्वस्यां भानुमानिक । सोऽगाजितान्यतेजोभिस्तेजोभिर्योतयन् जगत् ॥ ५५ ॥ उत्क्षिप्तामिवोहीचिहस्तविन्यस्तविद्रुमैः । गङ्गासम्भेदसुभगं स प्रापत् पूर्वसागरम् ॥ ५६ ॥ मागधतीर्थकुमारं देवं मनसिकत्य च। प्रपेदेऽष्टमभक्तं सोऽर्थसिद्धेरिमादिमम् ॥ ५७ ॥ यादांसि त्रासयबाशु रथेनारुह्य रहमा । जलधिं मन्दरेणेव नगाहे स महाभुजः ॥ ५८ ॥ रथनाभ्युदये तोये स्थित्वा हादशयोजनीम् । बाणं दूतमिव प्रेषीत्रामाङ्गं मागधाय सः ॥ ५८ ॥ अथ मागधतीर्थस्य पतिनिपतिते शरे । चुकोप विकटाटोपभृकुटीभङ्गभीषणम् ॥ ६ ॥ शरे मन्त्राक्षराणीव तस्य नामाक्षराख्यसो। दृष्ट्वा नागकुमारोऽभूबितान्तं शान्तमानसः ॥ ६१ ॥ प्रथमश्चक्रवत्यैष उत्पन्न इति चिन्तयन् । उपतस्ये स भरतं विजयो मूर्तिमानिव ॥ ६२ ॥ Page #67 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । नरचूडामणेरणे निजं चूडामणिं फणी। चिराजितं तेज इवोपानयत्तच्छरं च सः ॥ ६३ ॥ तवाहं पूर्वदिक्पालः किङ्करः करवाणि किम् । इति विज्ञपयन् राज्ञा सोऽनुजज्ञे महौजसा ॥ ६४ ॥ जयस्तम्भमिवारोप्य तत्र तं मागधाधिपम् । पूर्वनीरनिधेस्तोरावरदेवो न्यवर्त्तत ॥ ६५ ॥ उर्बीमनुवी कुर्वाणश्चलयनचलानपि । चतुरङ्गबलेनाथ प्रपेदे दक्षिणोदधिम् ॥ ६६ ॥ एलालवङ्गलवलोककोलबहले तटे । सैन्यान्यावासयामास सदोर्वीर्य पुरन्दरः ॥ ६॥ तेजसा स दुरालोको हितोयइव भास्करः । महावाहं महाबाहुरारोह महारथम् ॥ ६८॥ तरङ्गैरिव रङ्गद्भिस्ततस्तु स्तुरङ्गमैः । रथनाभ्युदयं तोयं ललझे स महोदधिम् ॥ ६८ ॥ वरदामाभिमुखं च सज्जीकृतशरासनः । : धनुर्वेदोङ्कारमिव ज्याभि?षं ततान सः ॥ ७० ॥ सौवर्मकर्णताडपद्मनालतुलास्पृशम् । काञ्चनं सन्दधे बाणमाकांकष्टकार्मुके । ७१ ॥ वरदामाख्यतीर्थेशमभि श्रीभरतस्ततः । मुमोच नमुचिहेषिस्थामा नामातिं शरम् ॥ ७२ ॥ वरदामपतिर्बाणं प्रेक्ष्य च प्रतिरश च । भरतं प्रत्युपायज्ञ उपायनमुपानयत् ॥ ७३ ॥ Page #68 -------------------------------------------------------------------------- ________________ fur योगशास्त्र जवे च भरताधीशं धन्योऽस्मि यदिहागमः । नाथेन भवता नाथ सनाथोऽहमतः परम् ॥ ७४ ॥ ततस्तमात्मसात्कृत्वा कृत्यविदरतेश्वरः ।। प्रति प्रतीचीमचलच्चलयनचलां बलैः ॥ ७५ ॥ अपराणवमासाद्य प्रभासाभिमुखं शरम् । जाज्वल्यमानं भरतस्तडिद्दण्ड मिवाक्षिपत् ॥ ७६ ॥ दण्डं प्रयच्छ कुर्वाज्ञां जिजीविषसि चेत्सुखम् । इत्यक्षराणि तहाणे प्रभासपतिरक्षत ॥ ७७ ॥ प्राज्यानि प्रगुणोक्त्य प्राभृतान्यशैतानि सः । चचाल शरमादाय प्रसादयितुमार्षभिम् ॥ ७८ ॥ हारानीहारहरिणानाजहारातिहारिणः । चिरकालाजितानात्मयशोराशीनिवाखिलान् ॥ ७ ॥ येषामग्रे दृषत्कल्पो रमारमणहृन्मणि: । तांस्तान्विश्राणयामास मणीबरशिरोमणः ॥ ८० ॥ कटकानि कटीसूत्रं चूडामणिमुरोमणिम् । निष्कादि चार्पयट्रान्जे मूतं तेज इव स्वकम् ॥ ८१ ॥ इति प्रसादितस्तेनाच्छद्मना भक्तिसद्मना । भरतोऽगानदी सिन्धुमुत्तरबारदेहलीम् ॥ २ ॥ निकषा सिन्धुभवनं निदधे शिबिरं नृपः । सिन्धुदेवी समुद्दिश्य विदधे चाष्टमं तपः ॥ ८३ ॥ सिन्धुश्वासनकम्मेन ज्ञात्वा चक्रिणमागतम् । उपेत्योपायनैर्दिव्यैरान पृथिवीपतिम् ॥ ८४ ॥ Page #69 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । तामुरीकतसेवां च विसृज्य तपारणः । .. अष्टातिकोत्सवं तस्या विदधे 'वसुधाधवः ॥ ८५ ॥ सोऽथ चक्रानुगो गच्छन् ककुभोत्तरपूर्वया । भरताईयाघाट वैताब्याद्रिमवाप च ॥८६॥ नितम्बे दक्षिणे तस्य विन्यस्त शिबिरस्ततः। .. अधिवैताळ्यकुमारं नृपतिविदधेऽष्टमम् ॥ ८७ ॥ .. विज्ञायावधिना सोऽपि दिव्यस्तैस्तैरुपायनैः। उपतस्थे महीपाल सेवां च प्रत्यपद्यत ॥ ८८ ॥ तं विसृज्य नृपश्चक्रेऽष्टमभक्तान्तपारणम् । अष्टाह्निकोत्सवं तस्य विदधे च यथाविधि ॥ ८ ॥ गुहां तमिस्रामभितस्तमिस्रारिरिव विषा। . जगाम तददूर च स्कन्धावारं न्यधावृपः ॥ ८ ॥ कतमालामरं तत्र स उद्दिश्याष्टमं व्यधात् । सोऽपि ज्ञात्वासनकम्पादान!पत्य भूपतिम् ॥ ८१ ॥ विसृज्य तमपि क्षमापः कृत्वा चाष्टमपारणम् । विदधेऽष्टाह्निकां तस्य महोत्सवपुरःसरम् ॥ ४२ ॥ सुषेणी भरतादेशासिन्धुमुत्तीर्य चर्मणा । तरसा साधयामास दक्षिणं सिन्धुनिष्कुटम् ॥ ८३ ॥ करं ततस्त्यम्नेच्छानामादाय खेच्छयाथ सः । उत्तीर्य चर्मणा सिन्धुमाययौ भरतेश्वरम् ॥ ८४ ॥ (१) क छ वसुधाधिपः । Page #70 -------------------------------------------------------------------------- ________________ योगशास्त्र वैताव्ये तमिस्रा वचकपाटपिहितां गुहाम् । उहाटयितमादिक्षत् 'सुषेणमृषभात्मजः ॥ ५ ॥ सुषेणोऽपि प्रभोराज्ञां शेषावभूटि धारयन् । प्रदेशेऽगात्तमिस्राया गुहाया पदवीयसि ॥८६॥ तदधिष्ठादेवं च कृतमालमनुस्मरन् । तस्थौ पौषधशालायामष्टमेन विशुद्धधीः ॥ ८७ ॥ मात्वा चाष्टममतान्ते बाह्याभ्यन्तरशौचभृत् । पर्यधाच्छुचिवस्त्राणि विविधाभरणानि च ॥८॥ होमकुण्डोपमे धूपदहने ज्वलदग्निके । 'धूपमुष्टीः क्षिपन् स्वार्थसाधनौराहुतीरिव ॥ ८ ॥ ततः स्थानादसौ तस्या गुहाया हारमभ्यगात्। कोशहारं तदायुक्त इवोद्घाटयितुं त्वरी ॥ ३० ॥ दृष्टमात्र तल्कपाटयुगलं प्रणनाम च। नेतारमिव तदन्तःप्रवेश: स्यात्कुतोऽन्यथा ॥ १ ॥ गुहाहार ततोऽष्टाष्टमङ्गलालेखपूर्वकम् । सोऽष्टालिकामहिमानं चक्रे खमहिमोचितम् ॥ २ ॥ दण्डरत्नं वचसारं सर्वशत्रुविनाशनम् । प्रथ सेनापतिर्वचं वजपाणिरिवाददे ॥ ३ ॥ पदानि कतिचिसोपमृत्य वक्र इव ग्रहः । दण्डरवेन झटिति कपाटौ विरताडयत् ॥ ४ ॥ (१). सच ततस्तमषभात्मजः। Page #71 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः। पक्षाविवाद्रवण दण्डरत्नेन ताडिती । तडत्तडिति कुर्वाणी विश्लिष्टौ तौ बभूवतुः ॥ ५ ॥ तहहाहारवत्सद्यः सविकाशमुखो भृशम् । सुषेणी भरतायेदं गत्वा नत्वा व्यजिज्ञपत् ॥ ६ ॥ अद्याभूत्त्वप्रभावेण गुहाहारमपार्गलम् । यतेनियसहारं तपसेवातिभूयसा ॥ ७ ॥ मघवैरावणमिवाधिरूढो गन्धवारणम् । तत्कालं भरताधीशो गुहाहारमुपाययौ ॥ ८ ॥ अन्धकारापहाराय मणिरत्नं न्यधाबृपः । दक्षिणे कुभिनः कुम्भे पूर्वाद्राविव भास्करम् ॥ ८ ॥ ततोऽनुगचमूचक्रश्चक्रमार्गानुगो गुहाम् । प्रविवेश विशामोशो मेघमध्यमिवार्यमा ॥ १० ॥ गोमूनिकाक्रमेणानुयोजनान्तं तमश्छिदे । पार्खयोः काकिणीरत्नेनालिखमण्डलानि सः ॥ ११ ॥ दीप्रेरकोनपञ्चाशमण्डलैः काकिणोक्तः । मार्तण्डमण्डलोद्योतैस्तहाहिन्योऽवहन्मुखम् ॥ १२ ॥ भूपोऽथापश्यदुभग्ननिमग्ने निम्नगे ययोः । एकत्रीमज्जति ग्रावान्यस्यां मनत्यलावपि ॥ १३ ॥ अतिदुस्तरताभाजीरपि सारणिलीलया । तयोर्नद्योरनवद्या पद्यां व्यधित वईकिः ॥ १४ ॥ पद्यया ते समुत्तीर्य तद्गुहाकुहराबृपः । निरगच्छमहामेघमण्डलादिव भास्करः ॥ १५ ॥ Page #72 -------------------------------------------------------------------------- ________________ ७२ योगशास् भरतो भरतक्षेत्रोत्तरखण्डं प्रविष्टवान् । अयुध्यत ततो म्लेच्छैर्दानवैरिव वासवः ॥ १६ ॥ जिता राज्ञा 'महेशेन म्लेच्छाः प्रतिजयेच्छवः । उपासाञ्चक्रिरे मेघमुखान् स्वकुलदेवताः ॥ १७ ॥ मुसलाकारधाराभिरारादासारदारुणम् । ते प्रावर्त्तन्त संवर्त्त इव विष्वक् प्रवर्षितुम् ॥ १८ ॥ चर्मरत्नमधस्तेने राज्ञा द्वादशयोजनौम् । तद्ददूर्द्धं छत्ररत्नं मध्ये च निदधे चमूः ॥ १८ ॥ मणिरत्नमुरुध्वान्तध्वंसाय वसुधाधिपः । पूर्वाचल इवादित्यं छत्त्रदण्डे न्ययोजयत् ॥ २० ॥ तरदण्ड इवाराजत्तद्रत्नद्दयसम्पुटम् । ततस्तदादिलो केऽभूद्ब्रह्माण्डमिति कल्पना ॥ २१ ॥ पूर्वाह्णे वापितान् शालीनपराह्णे च पक्तिमान् । प्रत्यावासं गृहपतिर्भोजनार्थमपूरयत् ॥ २२ ॥ वर्षं वर्षं च निर्व्विणैरूचे मेघकुमारकैः । किराताश्चक्रवर्त्येष न साध्योऽस्मादृशामपि ॥ २३ ॥ भग्नेच्छास्त हिरा म्लेच्छाः शरणं भरतं ययुः । अग्निना किल दग्धानामग्निरेव महौषधम् ॥ २४ ॥ ततश्चाजय्यमजयत्सिन्धोरुत्तरनिष्कुटम् । स्वाम्यादेशेन सेनानीः संसारमिव योगवित् ॥ २५ ॥ (१) ख ग च महेच्छेन । Page #73 -------------------------------------------------------------------------- ________________ -७३ प्रथमः प्रकाशः । कैश्चित्प्रयाणकैगच्छन् गजेन्द्र इव लीलया। नितम्बं दक्षिणं क्षुद्रहिमाद्रेः प्राप भूपतिः ॥ २६ ॥ उद्दिश्य क्षुद्रहिमवत्कुमारं तत्र चार्षभिः । चक्रेऽष्टमं कार्यसिद्धेस्तपोमङ्गलमादिमम् ॥ २७ ॥ गत्वाष्टमान्ते हिमवत्पर्वतं त्रिरताडयत् । साटोपो रथशौर्षेण शीर्षण्यः पृथिवीभुजाम् ॥ २८ ॥ भरतेशस्तत: क्षुद्रहिमवहिरिमूई नि । हासप्ततिं योजनानि नामाकं बाणमक्षिपत् ॥ २८ ॥ बाणमालोक्य हिमवत्कुमारो 'ऽप्येत्य सत्वरम् । भरताज्ञां स्वशिरसा शिरस्त्राणमिवाग्रहीत् ॥ ३० ॥ गत्वा ऋषभकूटाट्रिमृषभस्वामिभूस्ततः । जघान रथशीर्षण त्रिर्दन्तेनेव दन्तिराट् ॥ ३१ ॥ अवसर्पिण्यां टतीयारप्रान्ते भरतोऽस्माहम् । चक्रोति वर्णान् काकिण्या तत्पूर्वकटकेऽलिखत् ॥ ३२ ॥ ततो व्यावृत्त्य सदृत्तः स्कन्धावारं निजं ययौ । चकाराष्टमभक्तान्तपारणं च महीपतिः ॥ ३३ ॥ ततश्च क्षुद्रहिमवत्कुमारस्य नरेश्वरः । अष्टाहिकोत्सवं चक्रेऽनुरूपं चक्रिसम्पदः ॥ ३४ ॥ ततो निववृते चक्रवर्ती चक्रपथानुगः । सिन्धुगङ्गान्तरं कुर्वन् सङ्कटं विपुलैबलैः ॥ ३५ ॥ (१) क छ अभ्येत्य। Page #74 -------------------------------------------------------------------------- ________________ 08 योगशास्त्रे नितम्बमुत्तरमथ वैताब्याटेरवाप सः । सत्र स्वस्थपरीवारं स्कन्धावारं न्यधत्त च ॥ ३६ ॥ ततो नमि विनम्याख्यौ विद्याधरपती प्रति । आदिदेश विशामोशो मार्गणं दण्डमार्गणम् ॥ ३० ॥ वैताव्यशृङ्गादुत्तीर्य कुपितौ दण्डयाचनात् । आजम्मतुर्युयुत्सू तो विद्याधरबलातौ ॥ ३८ ॥ कुर्वन्मणिविमानैद्यां बहुसूर्यमयौमिव । प्रज्वलनिः प्रहरणैस्तडिन्मालामयौमिव ॥ ३८ ॥ उद्दामदुन्दुभिध्वानर्मेघघोषमयीमिव । विद्याधरबलं व्योमन्यपश्यद्भरतस्ततः ॥ ४० ॥ दण्डार्थिन् दण्डमस्मत्तस्त्वं गृह्णासोति भाषिणी । आहवायाह्वयेतां तो विद्यादृप्तौ महीपतिम् ॥ ४१ ॥ अथ ताभ्यां ससैन्याभ्यां प्रत्येक युगपच्च सः । युयुधे विविधैर्युडैर्युडाळ यज्जयश्रियः ॥ ४२ ॥ युधा हादशवार्षिक्या विद्याधरपती जितौ। प्रानली प्रणिपत्यैवं भरताधीशमूचतुः ॥ ४३ ॥ रवेरुपरि किं तेजो वायोरुपरि को जवी। मोक्षस्योपरि किं सौख्यं कश्च शूरस्तवोपरि ॥ ४४ ॥ ऋषभो भगवान् साक्षादद्य दृष्टस्त्वमार्षभ । अज्ञानाद्योधितोऽस्माभिः कुलस्वामिन् सहस्त्र तत् ॥ ४५ ॥ किरीट इव नो मूईि मण्डनं तव शासनम् । कोशो वपुरपत्यानि सर्वमन्यच्च तावकम् ॥ ४६ ॥ Page #75 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । भतिगर्भमिति प्रोच्य भरतेशाय दत्तवान् । विनम्रो विनमि रोरत्नं रत्नोच्चयं नमिः ॥ ४७ ॥ ततो राजा विसृष्टौ तौ राज्यान्यारोप्य सूनुषु ।। विरक्तावषमेशांगिमूले जग्गृहतुव्रतम् ॥ ४८ ॥ ततोऽपि चलितवतश्चक्ररत्नस्य पृष्ठतः । गच्छवासादयामास राजा मन्दाकिनीतटम् ॥ ४८ ॥ उत्तरं निष्कुटं गाङ्गं सुषेणोऽप्यभिषेणयन् । तरसा साधयामास किमसाध्यं महात्मनाम् ॥ ५० ॥ राजाप्यष्टमभक्तोन गङ्गादेवीमसाधयत् । पान भरतं सापि देवताहरुपायनैः ॥ ५१ ॥ ततो गङ्गानदीकूले कमलामोदमालिनि । वासागार इवोवास वसुमत्येकवामवः ॥ ५२॥ भरतं रूपलावण्यकिङ्करीकृतमन्मथम् । तत्रावलोक्य गङ्गापि प्राप क्षोभमयी दशाम् ॥ ५३ ॥ विराजमाना सर्वाङ्ग मुक्तामयविभूषणैः । वदनेन्दोरनुगतैस्तारैस्तारागणैरिव ॥ ५४ ॥ वस्त्राणि कदलीगर्भत्वक्सगर्भाणि बिभ्रती। खप्रवाहपयांसीव तद्रूपपरिणामतः ॥ ५५ ॥ रोमाञ्चकञ्चकोदञ्चत्कुचस्फुटितकञ्चका । सद्यस्तरङ्गितापाङ्गा गङ्गा भरतमभ्यगात् ॥ ५६ ॥ (त्रिभिर्विशेषकम् ) Page #76 -------------------------------------------------------------------------- ________________ ७६ योगशास्त्रे प्रेमगगदवादिन्या गाढमभ्यर्थ पार्थिवः । रिरंसमानया निन्ये तया निजनिकेतनम् ॥ ५७ ॥ भुञ्जानो विविधान् भोगांस्तया सह महीपतिः । एकाहमिव वर्षाणां सहस्रं सोऽत्यवाहयत् ॥ ५८ ॥ गुहां खण्डप्रपाताख्यामखण्डितपराक्रमः । ततः स्थानानृपः प्राप करटीव वनाद्दनम् ॥ ५८ ॥ कृतमालकवत्तत्र नाट्य मालमसाधयत् । अष्टमेन नृपस्तद्वत्तस्य चाष्टाह्निकां व्यधात् ॥ ६० ॥ सुषेणोद्दाटितद्दारकपाटां तां गुहां नृपः । प्राविशद्दक्षिणं तस्या द्वारमुज्जघटे खयम् ॥ ६१ ॥ निर्ययौ गुहामध्यात्केशरोव नरेश्वरः । स्कन्धावारं च निदधे गाङ्ग रोधसि पश्चिमे ॥ ६२ ॥ नवापि निधयो नागकुमाराधिष्ठितास्तदा । गङ्गाकूलमनुप्राप्तं राजानमुपतस्थिरे ॥ ६३ ॥ इत्यूचुस्ते वयं गङ्गामुखमागधवासिनः । आगतास्त्वां महाभाग भक्द्भाग्यैर्वशीकृताः ॥ ६४ ॥ यथाकाममविश्रान्तमुपभुङ्क्ष्व प्रयच्छ च । अपि क्षीयेत पाथोऽब्धौ न तु चीयामहे वयम् ॥ ६५ ॥ सहस्रैर्नवभिर्यक्षैः किङ्करेरिव तावकैः । आपूर्यमाणः सततं चक्राष्टकप्रतिष्ठिताः ॥ ६६ ॥ द्वादशयोजनायामा नवयोजनविस्तृता: । भूमध्ये सञ्चरिष्यामो देव त्वत्पारिपार्श्विकाः ॥ ६७ ॥ ( युग्म Page #77 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । सेनापतिः सुषेणोऽपि गङ्गादक्षिणनिष्कुटम् । महावनं महावायुरिवोन्मूल्य समाययौ ॥ ६८ ॥ समा सहस्रैः षष्ट्यैवं जित्वा षट्खण्डमेदिनीम् । चक्रमार्गानुगोऽयोध्यां जगाम जगतीपतिः ॥ ६८ ॥ ततो हादशभिर्वबैरागत्यागत्य पार्थिवैः । प्रचक्रे चक्रवर्त्तिवाभिषेको भरतशितुः ॥ ७० ॥ कुर्वता स्वकुटम्बस्य सारां च ददृशे कशाम् । सुन्दरौं चास्थिभूतां च चुकोप भरतेखरः ॥ ७१ ॥ जचे प्राहरिकान् किं रे महेहे नास्ति भोजनम् । यदेवमोशी जाता अस्थिचर्ममयो कथम् ॥ ७२ ॥ खामिन् विजययात्राभूत्तव तावत्प्रभृत्यपि । प्राचामाम्लान्यविश्रान्तमकार्षीत्सुन्दरी यतः ॥ ७३ ॥ अत्रान्तरे च भगवान् विहृत्य वसुधातले । भगवान् समवासार्षीदष्टापदगिरी ततः ॥ ७४ ॥ श्रुत्वा च भरताधीशः स्वामिवन्दनहेतवे । आगात्तद्देशनां श्रुत्वा व्रतं जग्राह सुन्दरी ॥ ७५ ॥ भ्रातृननागतान् ज्ञात्वा तस्मिबपि महोत्सवे । तेषामेकैकशी दूतान् प्राहिणोद्भरतेश्वरः ॥ ७६ ॥ राज्यानि चेममोहवे सेवध्वं भरतं ततः । दूतैरित्युदिताः सर्वेऽप्यालोच्यैवावदबिदम् ॥ ७७ ॥ . विभज्य राज्यं दत्तं नस्तान भरतस्य च । संसेव्यमानो भरतोऽधिकं किं नः करिष्यति ॥ ७८ ॥ Page #78 -------------------------------------------------------------------------- ________________ ७८ योगशास्त्रे . समापतन्तं किं काले कालं प्रस्खलयिष्यति । किं जराराक्षसों देहग्राहिणीं निग्रहीथति ॥ ७ ॥ बाधाविधायिनः किं वा व्याधिव्याधान् हनिष्यति । यथोत्तरं वईमानां तृष्णां वा दलयिष्यति ॥ ८० ॥ ईसेवाफलं दातुं न चेद्भरत ईश्वरः । मनुष्यभावे सामान्ये तहिं कः केन सेव्यताम् ॥ १ ॥ प्राज्यराज्योऽप्यसन्तोषादस्मद्राज्यं जिक्षति । स्थामा चेत्तहयमपि तस्य तातस्य सूनवः ॥ २ ॥ प्रविज्ञपय्य तातं तु सोदयेणाग्रजन्मना। दूत त्वत्स्वामिना योडुं न वयं प्रोमहामहे ॥ ३ ॥ ते दूतानभिधायैवमृषभस्वामिनं ययुः । नत्वा भरतसन्दिष्टं तच्च सर्व व्यजिज्ञपन् ॥ ८४ ॥ अम्लानकेवलादर्शसंक्रान्ताशेषविष्टपः। कपावान् भगवानादिनाथोऽपोत्यादिदेश तान् ॥ ८५ ॥ अनेकयोनिसम्पातानन्तबाधानिबन्धनम् । अभिमानफलैवेयं राज्यश्रीः सापि नखरौ ॥ ८६ ॥ किञ्च या स्वःसुखैस्तृष्णा नात्रुट्यप्राग्भवेषु वः । साङ्गारकारकस्येव मर्त्यभोगैः कथं जुटेत् ॥ ८७ ॥ अङ्गारकारकः कथिदादाय पयसो दृतिम् । जगाम कर्तुमगारानरण्ये रीणवारिणि ॥ ८८ ॥ (१) च तरखरूपं व्यजिज्ञपन् । Page #79 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः। GE सोऽङ्गारानलसन्तापान्मध्याह्नातपपोषितात् । उद्भूतया दृषाक्रान्तः सव्वं दृतिपयः पपी ॥ ८८ ॥ तेनाप्यच्छिन्नटष्णः सन् सुप्तः स्वप्ने गृहं गतः । पालूकलशनन्दानामुदकान्यभितोऽप्यपात् ॥ ८ ॥ तज्जलैरप्यशान्तायां तृष्णायामग्नितैलवत् । वापीकूपतडागामि पायंपायमशोषयत् ॥ ८१ ॥ तथैव टषितोऽथापासरितः सरितांपतीन् । न तु तस्य तृषात्रुट्यबारकस्येव वेदना ॥ २ ॥ मरुकूपे ततो यातः कुशपूलं स रज्जुभिः । बवा चिक्षेप पयमे किमातः कुरुते न हि ॥ २३ ॥ दूराम्बुत्वेन कूपस्य मध्येऽपि गलिताम्बुकम् । नियोत्य पूलं द्रमकः स्नेहप्रोतमिवापिबत् ॥ ८४ ॥ न च्छिन्ना यार्णवाद्यैस्तृट् छेद्या पूलाम्भसा न सा । तहहः स्वःसुखाच्छिना छेद्या राज्यश्रिया किमु ॥ ८५ ॥ अमन्दानन्दनिःस्यन्दिनिर्वाणप्राप्तिकारणम् ।। वत्साः संयमराज्यं तद्युज्यते वो विवेकिनाम् ॥ ८६ ॥ तत्कालोत्पन्नवैराग्यवेगा भगवदन्तिके । तेऽष्टानवतिरप्याश प्रव्रज्यां जराहुस्ततः ॥ ७ ॥ अहो धैर्यमहो सत्त्वमहो वैराग्यधीरिति । चिन्तयन्तस्तत्वरूपं दूता राजे व्यजिज्ञपन् ॥ ८८ ॥ तत् श्रुत्वा भरतस्तेषां राज्यानि जराहे स्वयम् । लाभादिवदितो लोभी राजधर्मो यसौ सदा ॥ ८ ॥ Page #80 -------------------------------------------------------------------------- ________________ योगशास्त्रे अथ विज्ञपयामास सेनानीभरतेश्वरम् । न चक्रं चक्रशालायां विशत्यद्यापि नः प्रभो ॥ ४०० ॥ वामिन् दिग्विजये कश्चिदानाबाह्यो नृपः क्वचित् । विवर्त्तते डोल इव घरट्टे भ्रमति प्रभो ॥ १ ॥ पाः ज्ञातं भरतोऽवादीलोकोत्तरपराक्रमः । अस्महंधुर्महाबाहुरेको बाहुबलिबली ॥ २॥ एकतो गरुडश्चैकोऽन्यतोऽप्यहिकुलानि च। मृगारिको यत्कु-न्मृगकुलाः ......... ॥ ३ ॥ एकतः संहताः सर्वे देवदानवमानवाः । तथान्यतो बाहुबलिः प्रतिमलो न विद्यते ॥ ४ ॥ एकतश्चक्रशालायां चक्रं न प्रविशत्यदः । नेच्छत्याज्ञामन्यतो बाहुः सङ्कटे पतितोऽस्माहम् ॥ ५ ॥ किंवा बाहुबलिः सोऽयमाज्ञां कस्यापि मन्यते । सहते नाम पOणं केसरी किं कदाचन ॥ ६ ॥ एवं विमृशतस्तस्य सेनानीर्जगदे ह्यदः । । स्वामिस्त्वदलस्याग्रे त्रैलोक्यं च दृणायते ॥ ७ ॥ वैमात्रयं कनीयांसमथ बाहुबलिं प्रति । दूतं तक्षशिलापुयां प्रेषयामास पार्थिवः ॥ ८॥ शैलशृङ्गे सिंहमिवोत्तुङ्गसिंहासने स्थितम् । नत्वा बाहुबलिं दूतो युक्तिस्यूतमवोचत ॥ ८ ॥ त्वमेकः माध्यमे यस्य ज्येष्ठो भ्राता जगज्जयो। षटखण्डभरताधीशो लोकोत्तरपराक्रमः ॥ १० ॥ Page #81 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाश:। त्वज्ञातुश्चक्रवर्तित्वाभिषेके के महीभुजः । मङ्गल्योपायनकराः करदीभूय नावयुः ॥ ११ ॥ सूर्योदय इवाम्भोजखण्डस्य भरतोदयः । श्रिये तवैव किन्त्वस्याभिषेके न त्वमागमः ॥ १२ ॥ ततः कुमार भवतो ऽसमागमनकारणम् । ज्ञातुं राज्ञा नयज्ञेनाज्ञापितोऽहमिहागमम् ॥ १३ ॥ नागा यद्यार्जवेनापि सत्र कोऽपि जन: पुनः । सवाविनीततां ब्रूते यच्छिद्रान्वेषिण: खला: ॥ १४ ॥ पिशुनानां प्रवेशं तद्यत्नाहोपयितुं तव। प्रागन्तुं युज्यते तत्र का नपा स्वाम्युपासने ॥ १५ ॥ भ्रातेति यदि निर्भीको नागास्तदपि नोचितम् । आज्ञासारा न रह्यन्ते जातेयेन महीभजः ॥ १६ ॥ अयस्कान्तैरिवायांसि देवदानवमानवाः । कष्टास्तेजोभिरधुना ह्येकं भरतमन्वगुः ॥ १७ ॥ यम सनदानेन वासवोऽपि सखौयति । सेवामात्रेण तं हन्तानुकूलयसि किं नहि ॥ १८ ॥ वीरमानितया यहा राजानमधमन्यसे । त्वं हि तस्मिन् ससैन्योऽपि समुद्रे सक्नु मुष्टिवत् ॥ १८ ॥ लक्षाश्चतुरशीतिस्तहजाः शक्रेभसनिभाः । सह्याः केनाभिसर्पन्तः पर्वता इव जङ्गमाः ॥ २० ॥ तावतोऽश्वाम् रथांचास्य विष्वक प्लावयतो महीम् । कल्लोलानिव कल्पान्तोदधेः कः स्वलयिष्यति ॥ २१ ॥ Page #82 -------------------------------------------------------------------------- ________________ योगशास्त्र तस्य षणवतिग्रामकोटिभर्तुः पदातयः । कोट्यः षस्वति: सिंहा इव त्रासाय कस्य न ॥ २२ ॥ एकः सुषेणसेनानौदण्डपाणिः समापतन् । कतान्त इव किं शक्यः सोढुं देवासुरैरपि ॥ २३ ॥ अमोघं बिभ्रतश्चक्रं चक्रिणो भरतस्य तु । सूर्यस्येव तमस्तोमः स्तोकिकैव त्रिलोक्यपि ॥ २४ ॥ तेजसा वयसा ज्येष्ठो नृपश्रेष्ठः स सर्वथा । राज्यजीवितकामेन सेव्यो बाहुबले त्वया ॥ २५ ॥ अथ बाहुबलिर्बाहुबलापास्तजगदलः । ऊचे भूभङ्गभृद्दौरध्वानोऽर्णव इवापरः ॥ २६ ॥ युक्तं यदुक्तं भवता लोभनं क्षोभणं वचः। दूताः खलु यथावस्थस्वामिवाचिकवाचिन: ॥ २७ ॥ सुरासुरनरेन्द्रार्थो न तातोत्तमविक्रमः । श्लाघातुर्मे भरत: कीर्तितो दूत नूतनः ॥ २८ ॥ करदोभूय भूपाला नागच्छन्तु कथं नु तम् । दृश्यते नत्वसौ यस्य भ्राता बाहुबलिर्बली ॥ २८ ॥ आवयोननु मार्तण्डपसरुट्खण्डयोरिव । किं न स्याव्यवहितयोरपि प्रीतिः परस्परम् ॥ ३० ॥ सदा मनसि तिष्ठामस्तस्य भातुरहो वयम् । गत्वा किमतिरिच्येत प्रौतिर्नेसर्गिको हि नः ॥ ३१ ॥ आजवानागताः सत्यं कौटिल्यं भरतेन किम् । विमृश्यकारिणः सन्तो दूयन्ते किं खलोक्तिभिः ॥ ३२ ॥ Page #83 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । एक एवावयोः स्वामी भगवानादितीर्थतत् । तस्मिन्विजयिनि स्वामी कथशारं ममापरः ॥ ३३ ॥ भाताऽस्माभीः स चाज्ञेश आज्ञापयतु यद्यलम् । ज्ञातिनेहेन किं वजं वजेण न विदार्यते ॥ ३४ ॥ सुरासुरनरोपास्त्या प्रोतोऽस्त्वेष मयास्य किम् । मार्ग एव क्षमः स्तम्बे रथः सज्जोऽपि भज्यते ॥ ३५ ॥ तातभक्लो महेन्द्रश्चेज्जेष्ठं तं तातनन्दनम् । आसयत्यासनस्याइँ स किं तेनापि दृप्यति ॥ ३६ ॥ तेऽन्ये तस्मिन् समुद्रे ये ससैन्याः समुष्टिवत् ।। तेजोभिदुःसहोऽहं तु हन्त स्यां वडवानलः ॥ ३० ॥ पत्तयोऽखा रथा नागा: सेनानौर्भरतोऽपि च । मयि सर्वे प्रलीयन्तां तेजांसीवार्कतेजसि ॥ ३८ ॥ याहि दूत स एवैतु राज्यजीवितकाम्यया । तासदत्तांशतुष्टेन मयेवोपेक्षितास्य भूः ॥ ३८ ॥ दूतेनागत्य विज्ञप्ते यथार्थे तेन तत्क्षणम् । युयुत्सर्बाहुबलिना भरतोऽथाभ्यषणयत् ॥ ४० ॥ छादयन्मेदिनी सैन्यैर्धन द्यां धनैरिव । महाबाहुस्ततो बाहुबलिर्भरतमभ्यगात् ॥ ४१ ॥ उभयोरपि वाहिन्योर्महासुभटयादसोः । अन्योऽन्यास्फालितास्त्रोम्भिःसम्फेटोऽभूभयानकः ॥ ४२ ॥ तत्सैनिकानामन्योऽन्यं कुन्ताकुन्ति शराशरि । आमन्त्रिताडदेवः प्रावर्त्तत तणक्षण: ॥ ४३ ॥ Page #84 -------------------------------------------------------------------------- ________________ ८४ योगशास्त्र पर्यस्याशेषसैन्यानि तूलानीव महाबलः । अभ्येत्य भरतं बाहुबलिरेवमवोचत ॥ ४४ ॥ हस्त्यश्वपत्तिघातेन किं मुधा पापदायिना | यद्यलं तत्त्वमेकाको युद्धप्रस्वैकाकिना मया ॥ ४५ ॥ एकाङ्गाजिं प्रतिज्ञाय दाभ्यामपि निवारिताः । सैनिका उभयेऽप्यस्थुः पश्यन्तः साक्षिणो यथा ॥ ४६ ॥ ततो दृग्युद्ध आरब्धे निर्निमेषविलोचनौ । देवैरपि नृदेवौ तौ देवाविति वितर्कितौ ॥ ४७ ॥ भरते निर्जिते तत्र 'साक्षीभूतामरं तयोः । वाग्युद्धमभवत्पक्षप्रतिपक्षपरिग्रहात् ॥ ४८ ॥ तत्रापि हीनवादित्वं भरते समुपेयुषि । भूभुजौ भुजयुद्धेन युयुधाते महाभुजौ ॥ ४८ ॥ भरतो लम्बमानोऽथ बाहौ बाहुबलेः स्थिरे । शाखामृगो महाशाखिशाखायामिव वोचितः ॥ ५० ॥ भरतस्य महाबाहोरपि बाहुबलिर्बलौ । एकेन बाहुना बाहुं लतानालमनामयत् ॥ ५१ ॥ प्रारब्धे मुष्टियुद्धेऽथ पेतुर्भरतमुष्टयः । बाहुबली समुद्रोमिंघाता इव तटाचले ॥ ५२ ॥ आहतो बाहुबलिना वज्रकल्पेन मुष्टिना | पपात भरतः पृथ्वंग्रा स्वसैन्याऽजलैः सह ॥ ५३ ॥ (१) ख ग च सभ्योभूतामरं तयोः । Page #85 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः। मूर्ध्वान्ते भरतो बाहुबलिं दण्डेन दर्पतः। . ताडयामास दन्तीव तिर्यग्दन्तेन पर्वतम् ॥ ५४ ॥ दण्डेन बाहुबलिना निहतो भरतस्ततः । भूम्यामाजानुमग्नोऽस्थानिखात इव कौलकः ॥ ५५ ॥ किमेष चक्रवर्तीति भरतः कृतसंशयः । यावसंस्मृतवांश्चकं तावदागात्करेऽस्य तत् ॥ ५६ ॥ भूमेनिःसृत्य कोपेन महता भरतेखरः । चिक्षेप प्रज्वलच्चक्र कृतहाहारवं बलैः ॥ ५७ ॥ तच्चक्रं पार्खतो बाहुबलेन्विा न्यवर्तत । दैवतानि हि शस्त्राणि स्वगोत्रे प्रभवन्ति न ॥ ५८ ॥ पक्षत्रं प्रेक्ष्य तक्षाहुबेलि: कोपारुणेक्षणः । सचक्रं चूर्णयाम्येनमिति मुष्टिमुदक्षिपत् ॥ ५८ ॥ असाविव कषायधिगह भाटवधोद्यतः । विजित्य करणग्रामं कषायानव हन्मि तान् ॥ ६ ॥ इति सञ्जातसंवेगस्तदा तेनैव मुष्टिना। केशानुत्पाटयामास सामायिकमथाददे ॥ ६१ ॥ साधु साध्विति सानन्दं व्याहरन्तः सुरासुराः । उपरिष्टाहाहुबले: पुष्पष्टिं वितेनिरे ॥ ६२ ॥ गत्वा भगवतः पार्वे ज्ञानातिशयशालिनाम् । कनीयसां सोदराणां विधास्ये वन्दनां कथम् ॥ ६३ ॥ उत्पन्नकेवलज्ञानस्तत्तां यास्यामि पर्षदम्। इति तत्रैव मौनन सोऽस्थाप्रतिमया कती ॥६४॥ (युग्मम्) Page #86 -------------------------------------------------------------------------- ________________ योगशास्त्रे भरतस्तं तथादृष्ट्वा विचार्य स्खं कुकर्म च। बभूव न्यञ्चितग्रीवो विविक्षुरिव मेदिनीम् ॥ ६५ ॥ शान्तरसं मूर्त्तमिव भ्रातरं प्रणनाम च । नेत्रयोरश्रुभिः कोष्णैः कोपशेषमिवोत्सृजन् ॥ ६६ ॥ प्रणमन् भरतस्तस्याऽधिकोपास्तिविधित्सया । नखादशेषु संक्रात्या नानारूप इवाभवत् ॥ ६७ ॥ सुनन्दानन्दनमुनेर्गुणस्तवनपूर्विकाम् । स्वनिन्दामित्यथाकार्षीत्स्वापवादगदौषधीम् ॥ ६८ ॥ धन्यस्त्वं तत्यजे येन राज्यं मदनुकम्पया । पापोऽहं यदसन्तुष्टो दुर्मदस्त्वामुपाद्रवम् ॥ ६८ ॥ स्वशक्तिं ये न जानन्ति ये चान्यायं प्रकुर्वते । जीयन्ते ये च लोभन तेषामस्मि धुरन्धरः ॥ ७० ॥ राज्यं भवतरोर्बीज ये न जानन्ति तेऽधमाः । तेभ्योऽप्यहं विशिष्ये यत्तदमुञ्चन् विदन्नपि ॥ ७१ ॥ त्वमेव पुत्रस्तातस्य यस्तातपथमन्वगः । पुत्रोऽहमपि तस्य स्यां चेद्भवामि भवादृशः ॥ ७२ ॥ विषादपङ्गमुत्सायं पश्चात्तापजलैरिति । तत्पुत्रं सोमयशसं तट्राज्ये स न्यवौविशत् ॥ ७३ ॥ तदादिसोमवंशोऽभूच्छाखाशतसमाकुलः । तत्तत्पुरुषरत्नानामेकमुत्पत्तिकारणम् ॥ ७४ ॥ ततो बाहुबलिं नत्वा भरतः सपरिच्छदः ।। पुरीमयोध्यामगमत्खराज्यश्रीसहोदराम् ॥ ७५ ॥ Page #87 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । दुस्तपं तप्यमानोऽथ तपो बाहुबलिर्मुनिः । वर्षमेकं व्यतीयाय सह प्राग्जन्मकम्मभिः ॥ ७६ ॥ ततश्चामूढलक्ष्येण स्वामिना नाभिसूनुना। ब्राह्मी च सुन्दरी चानुनाते तत्याचमीयतुः ॥ ७७ ॥ अचतुश्च महासत्त्व समवर्णाश्मनस्तव । न युक्तं त्यक्तासङ्गस्य करिस्कन्धाधिरोहणम् ॥ ७८ ॥ एवम्भूतस्य ते हन्त कथं ज्ञानं प्ररोहति । अधःस्थितकरोषाग्नेः पादपस्येव पल्लवः ॥ ७ ॥ आत्मनैव विचार्य त्वमुत्तितीर्घर्भवोदधिम् । हस्तिनोऽस्मादवतर तरण्डादायसादिव ॥ ८० ॥ ततोऽसौ चिन्तयामास कुतस्त्यो हस्तिसङ्गमः । पादपारोहमारूढवल्लीव वपुषो मम ॥ ८१ ॥ त्यजेन्मुद्रां समुद्रोऽपि चलेयुरचला अपि । इमे तु भगवच्छिष्ये भाषते न मृषा क्वचित् ॥ २ ॥ पाः ज्ञातमथवाऽस्त्येष मान एव मतङ्गजः । स एव मे ज्ञानफलं बभञ्ज विनयद्रुमम् ॥ ८३ ॥ कथं कनीयसो भातृन्वन्दे धिगिति चिन्तितम् । तपसा ज्यायसां तेषां मिथ्यादुष्कृतमस्तु मे ॥ ८४ ॥ सुरासुरनमस्यस्य गत्वा भगवतोऽन्तिके । वन्दे कनिष्ठानपि तांस्तच्छिष्यपरमाणुवत् ॥ ८५ ॥ प्रचलत्पादमुत्पाव्य यावत्तावदसौ मुनिः । अवाप केवलज्ञानं हारं निर्वाणवेश्मनः ॥ ८६ ॥ Page #88 -------------------------------------------------------------------------- ________________ योगशास्त्रे करामलकवहिवं कलयन् केवल श्रिया । समीपे स्वामिनोऽध्यास्त सदः केवलभास्वताम् ॥ ८७ ॥ भरतोऽपि महारत्नेश्चतुर्दशभिराश्रितः। . चतुःषष्टिसहस्रान्तःपुरो नवनिधोखरः ॥ ८८॥ धम्मार्थकामान् साम्राज्यसम्पबल्ले: फलोपमान् । परस्पराविरोधेन यथाकालमसेवत ॥ ८८ ॥ अन्यदा विहरन् स्वामी जगामाष्टापदाचलम् । भरतोऽपि ययौ तत्र स्वामिपादान्विवन्दिषुः ॥ ८० ॥ सुरासुराचं समवसरणस्थं जगत्पतिम् । सः त्रिः प्रदक्षिणीकस्य नमस्कृत्येति तुष्टुवे ॥ ८१ ॥ विश्वासमिव मूर्तिस्थं सदृत्तमिव पिण्डितम् । प्रसादमिव निःशेषजगतामेकतः स्थितम् ॥ ८२ ॥ ज्ञानराशिमिवाध्यक्षं पुण्यस्येव समुच्चयम् । सर्वलोकस्य सर्वस्वमिवैकत्र समाहृतम् ॥ ८३ ॥ वपुःस्थं संयममिवोपकारमिव रूपिणम् । शौलमिव पादचारि क्षमामिव वपुमतीम् ॥ ८४ ॥ रहस्यमिव योगस्य विश्ववौर्यमिवैकगम् । सिडापायमिवावन्ध्यं कौशल्यमिव केवलम् ॥ ८५ ॥ मैत्रीमिव मूर्तिमती सदेहां करुणामिव । मुदितामिव पिण्ड स्थामुपेक्षामिव रूपिणीम् ॥ ८६ ॥ तपःप्रशमसज्ञानयोगमकमिवाहतम् । साक्षानयिकमिव सिद्धिं साधारणीमिव ॥ ७ ॥ Page #89 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । व्यापकं हृदयमिव सर्वासां श्रुतसम्पदाम् । नम:स्वस्तिस्वधास्वाहावषडर्थमिवापृथक् ॥ १८ ॥ विशुद्धधम्मनिर्माणप्रकर्षमिव केवलम् । समस्ततपसां पिण्डीभूतं फलमिवाखिलम् ॥ ८ ॥ परभागमिवाशेषगुणराशेरनश्वरम् । उपघ्नमिव निर्विघ्नं श्रेयो निःश्रेयसश्रियः ॥ ५०० ॥ प्रभावस्यैकधामेव मोक्षस्य प्रतिमामिव । कुलवेश्मेव विद्यानां फलं सर्वाशिषामिव ॥ १ ॥ पार्यवयंचरित्राणामात्मदर्शमिवामलम् । कूटस्थं प्रशममिव जगतो दत्तदर्शनम् ॥ २ ॥ दुःखशान्तेरिव हारं ब्रह्मचर्यमिवोज्वलम् ।। पुण्यरुपनतं जीवलोकस्येवैकजीवितम् ॥ ३ ॥ मृत्युव्याघ्रमुखादेतदाक्रष्टुमखिलं जगत् । बाहुं प्रसारितमिव निर्वाणेन कपालुना ॥ ४ ॥ ज्ञानमन्दरसंक्षुब्धञयाम्भोधेः समुत्थितम् । अपरं पीयूषमिव देहभाजाममृत्यवे ॥ ५ ॥ विश्वाभयप्रदानेन समाखासितविष्टपम् । शरणं त्वां प्रपत्रोऽस्मि प्रसौद परमेश्वर ॥ ६ ॥ तत्र च त्रिजगनाथमृषभस्वामिनं ततः । एकाग्रमनसोपासाञ्चक्र चक्रधरश्चिरम् ॥ ७ ॥ अथाद्रौ तत्र साधूनां सहस्त्रैर्दशभिर्वृतः । दीक्षाकालाइते पूर्वलक्षे मोक्षं ययौ प्रभुः ॥ ८ ॥ Page #90 -------------------------------------------------------------------------- ________________ । योगशास्त्रे तदा निर्वाणमहिमा 'चक्र शक्रादिभिः सुरैः । अस्तोकशोकः शक्रेण भरतशोऽप्यबोध्यत ॥ ८ ॥ चक्रऽथ भरतो' रत्नमयमष्टापदोपरि । सिंहनिषद्याप्रासादमष्टापदमिवापरम् ॥ १० ॥ तत्र च स्वामिनो मानवर्णसंस्थानशोभितम् । रत्नोपलमयं बिम्बं स्थापयामास चक्रभृत् ॥ ११ ॥ स्वामिशिष्टतयोविंशभावितीर्थकतामपि । यथावमानसंस्थानवर्णबिम्बान्यसूत्रयत् ॥ १२ ॥ भ्रातृणां नवनवतेरपि तत्र महात्मनाम् । रचयामास रत्नाश्मस्तूपाननुपमाबृपः ॥ १३ ॥ पुनरेत्य निजां राजधानी राजशिरोमणिः । यथावद्राज्यमशिषप्रजारक्षण दीक्षितः ॥ १४ ॥ स कर्मभिर्भोगफलैः प्रेर्यमाणो निरन्तरम् । बुभुजे विविधान्भोगान् साक्षादिव दिवस्पतिः ॥ १५ ॥ नेपथ्यकम्मनिम्मातुमपरेधुरगादसौ। मध्ये शुद्धान्तनारीणां ताराणामिव चन्द्रमा: ॥ १६ ॥ तत्र साङ्गविन्यस्तरत्नाभरणबिम्बितैः । स्त्रीजनैर्युगपत्प्रेम्णा परिरब्ध इवाभवत् ॥ १७ ॥ (१) ग च प्रभोश्चक्रे सुरासुरैः। (२) ख च ततोऽसौ विधे। Page #91 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । ८१ पश्यन्नसौ स्वमादर्शेऽपश्यत्स्रस्ताङ्गुलीयकाम् । अङ्गुलिं गलितज्योत्सां दिवा शशिकलामिव ॥ १८ ॥ ततः प्रोद्भिननिर्वेदात्प्रत्यङ्गोज्झितभूषणम् । खमपश्यहतीकं शीर्मपर्णमिव द्रुमम् ॥ १८ ॥ अचिन्तयञ्च धिगहो वपुषो भूषणादिभिः । श्रीराहार्येव कुड्यस्य पुस्ताद्यैरिव कम्मभिः ॥ २० ॥ अन्त:क्लिनस्य विष्टाद्यैर्मलैः स्रोतोभवैर्बहिः । चिन्त्यमानं किमप्यस्य शरीरस्य न शोभनम् ॥ २१ ॥ इदं शरीरं कर्पूरकस्तूरोप्रभृतीन्यपि । दूषयत्येव पाथोदपयांस्यूषरभूरिव ॥ २२ ॥ विरज्य विषयेभ्यो यैस्तपे मोक्षफलं तपः । तैरेव फलमेतस्य जगहे तत्त्ववेदिभिः ॥ २३ ॥ इति चिन्तयतस्तस्य शुक्लध्यानमुपेयुषः । उत्पेदे केवलज्ञानमहो योगस्य जृम्भितम् ॥ २४ ॥ रजोहरणमुख्यानि मुनिचिह्नानि तत्क्षणात् । विनीत उपनीयास्मै नमश्चक्रे दिवस्पतिः ॥ २५ ॥ तद्राज्येऽकत तत्पुत्रमादित्ययशसं तदा । यदाद्यादित्यवंशोऽयमद्याप्यस्ति महोभुजाम् ॥५२६॥१०॥ स्यान्मतं युक्तं भरतस्य पूर्वजन्मार्जितयोगसमृद्धिबलक्षपिताशुभकम्मणः कर्मलेशक्षपणाय योगप्रभाववर्णनम् । यस्तु जन्मान्तरेषु अलवरत्नत्रयोऽत एवाक्षपितकर्मा मानुषत्वमात्रमण्य प्राप्तवान् । स कथमनन्तकालपचितशुभाशुभकर्मनिर्मूलनमनुभवेत् । Page #92 -------------------------------------------------------------------------- ________________ योगशास्त्रे तबाह पूर्वमप्राप्तधर्मापि परमानन्दनन्दिता। योगप्रभावतः प्राप मरुदेवा परं पदम् ॥ ११ ॥ मरुदेवा हि स्वामिनी आ संसारं त्रसत्वमात्रमपि नानुभूतवती किं पुनर्मानुषत्वं तथापि योगबलसमृद्धेन शुलध्यानाग्निना चिरसञ्चितानि कर्मेन्धनानि भस्मसात्कृतवती । यदाह 'जह एगा मरुदेवा अच्चंतं थावरा सिद्धा । मरुदेवाचरितं चोक्तप्रायम् ॥ ११ ॥ ननु जन्मान्तरेऽपि अकृतक्रूरकर्मणां मरुदेवादीनां योगबलेन युक्तः कम्मक्षयः ये त्वत्यन्तक्रूरकर्माणस्तेषु योगः कुण्ठतामप्यासादयेत् । इत्याह-- ब्रह्मस्त्रीभ्रूणगोघातपातकानरकातिथेः । दृढप्रहारिप्रभृतेर्योगो हस्तावलम्बनम् ॥ १२ ॥ ब्रह्मणो ब्राह्मणस्य स्त्रिया वनिताया भ्रूणस्य गर्भस्य गर्भिण्याच गोर्धनोस्तेषां घातः स एव पातकं तस्मात् । यद्यपि समदर्शिना ब्राह्मणाब्राह्मणयोः स्त्रीपुरुषयो<णाभ्रूणयोर्गवागवीर्घाते अविशे षेण पापबन्धः । (१) यथा एका मरुदेवा अत्यन्तं स्थावरा सिद्धा। . .. Page #93 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः। यदाह 'सव्वो न हिंसियब्बो जह महिपालो तहा उदयपालो। न य अभयदाणवइणा जणोवमाणेण होयब्वं ॥ १ ॥ तथापि लोकप्रसिद्धानुरोधेन ब्रह्मेत्याद्युक्तम् । ये हि लौकिकाः सर्वस्या हिंसायाः पापफलं न मन्यन्ते । तेऽपि ब्रह्मादिघातकस्य महापापीयसस्तां मन्यन्त एवेति । नरकातिर्दृढप्रहारिप्रभृतेर्योगो हस्तावलम्बनम् । तेनैव भवेन मोक्षगमनात् । प्रभृतिग्रहणादन्येऽपि पापकारिणो विदितजिनवचनास्तत एव प्राप्तयोगसम्पदो नरकप्राप्तियोग्यानि कर्माणि निर्मूल्य परमसम्पदमासादितवन्तो द्रष्टव्याः । यदाह कूरावि सहावेणं विसयविसवसाणुगावि होऊणं । भावियजिणवयणमणा तेलु कसुहावहा होति ॥ १ ॥ इति । तथाहि कस्मिंश्चिनगरे कशिदासीद्विजातिरुद्भटः । प्रजासु कर्तुमन्यायान् प्रावर्तत स पापधौः ॥ १ ॥ (१) सर्वो न हिंसितव्यो यथा महिपालस्तथा उदयपालः । न च अभयदानवतिना जनोपमानेन भवितव्यम् ॥ १ ॥ (२) करा अपि स्वभावेन विषयविषवशानुगा अपि भूत्वा । भावितजिनवचनमनसः त्रैलोक्यमुखा वहा भवन्ति ॥ १ ॥ Page #94 -------------------------------------------------------------------------- ________________ योगशास्त्र आरक्षपुरुषैरेष ततो निर्वासितः पुरात् । व्याधहस्त मिव श्येनश्चीरपल्लौं जगाम च ॥ २ ॥ नृशंसचरितैस्तैस्तैरात्मनस्तुल्य इत्यसौ । चौरसेनाधिपतिना पुत्रत्वेनान्वमन्यत ॥ ३ ॥ चौरसेनापतौ तस्मिन्नवसानमुपयुषि । तत्पुत्र इति तत्स्थाने स बभूव महाभुजः ॥ ४ ॥ निष्कृपं प्रहरत्येष सर्वेषां प्राणिनां यतः । ततो दृढप्रहारोति नाम्ना निजगदे जनैः ॥ ५ ॥ अन्येद्युर्विश्वकुट्टाकलुण्टाकभटपटकैः । स कुशस्थलनामानं ग्रामं लुण्टयितुं ययौ ॥ ६ ॥ ब्राह्मणो देवशर्मेति तत्र दारिद्रयविद्रुतः। . अवशीफलमिव क्षीरानं याचितोऽभकैः ॥ ७ ॥ पर्यट्य सकले ग्राम क्वापि क्वापि स तन्दुलान् । क्वापि क्वापि पयोऽभ्यर्थ्य परमानमपीपचत् ॥ ८॥ नद्यां स्नातुं ययावेष यावत्तावत् तदोकसि । ते क्रूरतस्करा: पेतुर्दैवं दुर्बलघातकम् ॥ ८ ॥ तेषामेकतमो दस्युरपश्यत्तस्य पायसम् । क्षुधातुरः प्रेत इव तदादाय पलायितः ॥ १० ॥ आच्छिद्यमाने तस्मिंस्तु पायसे जीवितव्यवत् । क्रन्दन्ति डिम्मरूपाणि गत्वा पितरमूचिरे ॥ ११ ॥ व्यात्ताननानामस्माकं दस्युहन्देन पायसम् । जहें प्रसारितदृशामनिलेनेव कज्जलम् ॥ १२ ॥ Page #95 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । ६५ तदाकयं वचो विप्रः क्षिप्रं दीप्रः क्रुदग्निना । यमदूत इवादाय परिधं पर्यधावत ॥ १३ ॥ सरोषराक्षसावेशात्समुत्पादितदोर्बलः । हन्तु प्रवकृते दस्यन् परिषेण पशूनिव ॥ १४ ॥ तेनावकरवत्साक्षाक्षिप्यमाणानवेक्ष्य तान् । वित्रस्यतस्तिरस्कुर्वन् दधावे तस्करेश्वरः ॥ १५ ॥ तस्यापि धावतो दैवाहुतिविघ्नविधायिनी । निरोढुं दुर्गतिमिव मार्गे गौरन्तरेऽभवत् ॥ १६ ॥ करालकरवालैकप्रहारेण वराकिकाम् । जघान नृजघन्यस्तां चण्डाल इव निघृणः ॥ १७ ॥ तस्याभ्यापततो रोरदिजातेः स शिरो भुवि । पनसद्रोः फलमिवापातयन्खड्गयष्टिना ॥ १८ ॥ पाः पाप निष्कृप कृतं किमेतदिति वादिनी । बाला मासवती तं चाभ्यगात् हिजकुटुम्बिनी ॥ १८ ॥ तस्या तक इव च्छाग्या गुविण्याः सोऽतिदारुणः । कुमाण्डदारमुदरं दारयित्वा हिधाकरोत् ॥ २० ॥ ततो जरायुमध्यस्थं तस्या गर्भ विधाकतम् । स स्फुरन्तं निरैक्षिष्ट लताया इव पल्लवम् ॥ २१ ॥ तथा सम्पश्यमानस्य तस्य विह्वलचेतसः । कपागतरूपस्यापि जज्ञे वल्कमिवाश्मनः ॥ २२ ॥ ततो हा तात तातेति हा मातर्मातरित्यपि । विलपन्तः समाजग्मुस्तकालं विजबालकाः ॥ २३ ॥ Page #96 -------------------------------------------------------------------------- ________________ ८६ 'योगशास्त्रे नग्नान् भुग्नानतिक्षामान् 'श्यामानतिमलेन च । दृष्ट्वा दृढप्रहारी तान् सानुतापमचिन्तयत् ॥ २४ ॥ हहा नता निर्घृणेन दरिद्रौ दम्पती मया । अमी बाला हता स्तोयशोषे जीवन्ति किं भषाः ॥ २५ ॥ क्रूरेण कर्मणानेन नेष्यमानस्य दुर्गतिम् । अघभीतस्य मे कः स्यादुपायः शरणं च कः ॥ २६ ॥ इति सञ्चिन्तयन्नेव वैराग्यावेगभागसौ । एनोगदागदङ्कारान्साधूनुद्यानऐक्षत ॥ २७ ॥ नत्वोवाचेत्यहं पाप्मा भाष्यमाणोऽपि पाप्मने । पङ्किलः स्पृश्यमानोऽपि पतिलोकुरुते परम् ॥ २८ ॥ येषामेकतरमपि नरकायैव तान्यहम् | ब्रह्मस्त्रीभ्भ्रूणगोघातपातकान्यक्कपो व्यधात् ॥ २८ ॥ मामीदृशमपि चातुं साधवो यूयमर्हथ । I मेघानां वर्षतां स्थानमस्थानं वा न किञ्चन ॥ ३० ॥ श्रय ते साधवस्तस्मै यतिधर्ममुपादिशन् । सोऽथ च्छत्रमिवोष्णालुः पापभीरुस्तमाददे ॥ ३१ ॥ न भोक्ष्ये तत्र यत्राहि स्मरिष्याम्यस्य पाप्मनः । करिष्ये सर्वथा क्षान्तिं सोऽग्रहीदित्यभिग्रहौ ॥ ३२ ॥ पूर्वावस्कन्दिते तस्मिन्नेव ग्रामे कुशस्थले । कर्मक्षयं चिकीर्षुः स विजहार महामनाः ॥ ३३ ॥ (१) घ ङ छ दिग्धानतिमलेन च । Page #97 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः। स एवायं कृतच्छद्मा पापः पापीयसामहो। इत्यतयंत लोकेन स महात्मा दिवानिशम् ॥ ३४ ॥ गोभ्रूणहिजघात्येष इति लोकेन जल्पता। विशन् गृहेषु भिक्षाथें खेव लोष्टैरकुट्यत ॥ ३५ ॥ स्मार्यमाण: स तत्यापं प्रतिवासरमप्यसौ । शान्तस्त्रान्तो न भुङक्त स्म किंवा सत्त्वस्य दुष्करम् ॥ २६ ॥ क्कचित्रातः क्वचिम्मध्यं दिने सायमपि क्वचित् । स्मार्यमाणः स तत्यापं कुत्राप्यङ्गि न भुक्तवान् ॥ ३७ ॥ लोष्टुभिर्यष्टिभिः पांशवष्टिभिर्मुष्टिभिर्जनाः । यज्जनुः सोऽधिसेहे तत्सम्यक् चैवमभावयत् ॥ ३८ ॥ पात्मन् यादृक्तृतं कम्म तादृशं फलमाप्नुहि । यादृक्षमुप्यते बीजं फलं तादृक्षमाप्यते ॥ ३८ ॥ यदमी निरनुक्रोशमाक्रोशान्मयि तन्वते । प्रयत्नेनैव सिद्धा तन्ममेयं कम्मनिर्जरा ॥ ४० ॥ . मय्याक्रोशाः प्रमोदाय यथैषां मे सथैव हि। यत्प्रीत्या सहमानस्य कम्मक्षयविधायिनः ॥ ४१ ॥ यन्मां भर्खयतामेषां सुखमुत्पद्यतेऽद्य तत् । उत्पद्यतां भवे हन्त दुर्लभः सुखसङ्गमः ॥ ४२ ॥ अमी मदीयं दुष्कर्म ग्रन्थिं परुषभाषितैः । क्षारैरिव चिकित्सन्तो नितान्तं सुझदो मम ॥ ४३ ॥ कुर्वन्तु ताडनं हन्त ममैते यदिदं किल । स्वर्णस्येवाग्निसन्तापो मलिनत्वमपोहति ॥ ४४ ॥ Page #98 -------------------------------------------------------------------------- ________________ । योगशास्त्रे - कर्षन् दुर्गतिगुप्तमी खं प्रक्षिपति तत्र यः । कथं कुप्याम्यहं तस्मै प्रहारानपि कुर्वते ॥ ४५ ॥ मत्यापानि व्यपोहन्ति निजपुण्यव्ययेन ये । कथङ्कारमिवैतेभ्यो ऽपरः परमबान्धवः ॥ ४६ ॥ वधबन्धादि हर्षाय यन्मे संसारमोचनम् । तदेवानन्तसंसारहेतुरेषां दुनोति माम् ॥ ४७॥ केचित्परेषां तोषाय त्यजन्त्यर्थान्वपूंथपि । एषां प्रौतिदमाकोशहननादि कियन् मम ॥ ४८ ॥ तर्जितोऽहं हतो नाऽस्मि हतो वा नास्मि मारितः । मारितो वा न मे धर्मोऽपहृतो बान्धवैरिव ॥ ४८ ॥ आक्रोशवागधिक्षेपो बन्धनं हननं मृतिः । सह्यं श्रेयोऽर्थिना सर्व श्रेयो हि बहुविघ्नकम् ॥ ५० ॥ एवं भावयता तेन गर्हता स्खं च दुष्कृतम् । निर्दग्धः सर्वतः कम्मराशि: कक्ष इवाग्निना ॥ ५१ ॥ अम्बानं केवलज्ञानमथ लेभे 'सुदुर्लभम् । अयोगिकेवलिगुणस्थानस्थो मोक्षमाप च ॥ ५२ ॥ योगप्रभावेन दृढप्रहारी यथैष मुक्वा नरकातिथित्वम् ।। पदं प्रपेदे परमं तथान्योऽप्यसंशयान: प्रयतेत योगे ॥ ५३ ॥ १२ ॥ . (१) ख च स दुर्लभम् । . Page #99 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः। पुनरुदाहरणान्तरेण योगश्रद्धामेव वईयति । तत्कालकृतदुष्कर्मकर्मठस्य दुरात्मनः । गोप्ने चिलातीपुत्रस्य योगाय स्पृहयेन्न कः ॥१३॥ तत्कालं तत्क्षणं कृतं यदुष्कम्म स्त्रीवधलक्षणं तेन कम्मंठः कम्भशूरस्तस्य दुरात्मन इति पापकरणकालापेक्षं चिलातीपुत्राभिधानस्य गोप्ने दुर्गतिपातरक्षकाय योगाय को न स्मृहयेत् सर्व एव स्मृहयेदित्यर्थः । तथाहि क्षितिप्रतिष्ठे नगरे यज्ञदेवोऽभवद्दिजः । . निमिन्द पण्डितम्मन्यः स सदा जिनशासनम् ॥ १ ॥ असहिष्णुश्च तां निन्दां जिगीषुः कोऽपि चेल्लकः । गुरुणा वार्यमाणोऽपि तं वादार्थमवीवदत् ॥ २ ॥ इशी च प्रतिज्ञाभूदादाधिष्ठितयोस्तयोः । येन यो जेष्थते तस्य शिष्यत्वं स करिष्यति ॥ ३ ॥ प्रानौतो निग्रहस्थानं बुद्धिकौशलशालिना। विवदन्वादिना तेन यजदेवः पराजितः ॥ ४ ॥ चेल्लको जितकाशी तु यज्ञदेवदिजन्मना। तदा पूर्वप्रतिज्ञातां परिव्रज्यामजिग्रहत् ॥ ५ ॥ ततः शासनदेव्यैवं यज्ञदेवो व्यबोध्यत । चारित्रं प्रतिपत्रोऽसि ज्ञानश्रद्धानवान्भव ॥ ६ ॥ Page #100 -------------------------------------------------------------------------- ________________ योगशास्त्र व्रतं ततः प्रभृत्येष यथावत्पालयबपि । निनिन्द वस्त्राङ्गमलं प्राक्संस्कारो हि दुस्त्यजः ॥ ७ ॥ अशाम्यन् जातयोऽप्यस्य संसर्गेण महात्मन: । प्रावृषेण्यानसम्पर्केणाहिमांशोरिवांशवः ॥ ८ ॥ अस्य पाणिग्रहीती तु नितान्तमनुरागिणी । उज्झाञ्चकार नो रागं नौलौरतोव शाटिका ॥ ६ ॥ वश्यो मेऽस्त्विति सा तस्मै पारणे कामणं ददौ । सत्यं रक्ता विरक्ताच मारयन्त्येव योषितः ॥ १० ॥ क्षीयमाण:कृष्णपक्षणव काम्मणकम्मणा । स मुनीन्दर्ययौ स्वर्ग मण्डलं तरणरिव ॥ ११ ॥ तस्यावसानात् सञ्जातनिर्वेदा सापि गहिनी। प्रव्रज्यामग्रहोदेकं मानुष्थकतरोः फलम् ॥ १२ ॥ अनालोचैव सा पापं पतिव्यसनसम्भवम् । कालं कृत्वा दिवं प्राप दुष्यापं तपसा हि किम् ॥ १३ ॥ यजदेवस्य जीवोऽथ च्युत्वा राजगृहे पुरे । धनसार्थपतेश्चेव्याशिलात्यास्तनयोऽभवत् ॥ १४ ॥ चिलात्याः पुत्र इत्येष चिलातीपुत्रसंज्ञया । आहूयते स्म लोकेन नाम नान्यत्प्रकल्पितम् ॥ १५ ॥ यज्ञदेवप्रियाजीवश्चात्वाऽनुसुतपञ्चकम् । भद्राया धनभार्यायाः सुसुमेति सुताऽभवत् ॥ १६ ॥ धनो नियोजयामास चिलातीतनयं च तम् । सुसुमायाः स्वदुहितुः बालग्राहककम्मणि ॥ १७ ॥ Page #101 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः। लोकेष्वागांसि चक्रऽसौ श्रेष्ठाभैषीच राजतः । खामी भृत्यापराधेन यतः स्याद्दण्डभाजनम् ॥ १८ ॥ मन्त्रवित्तं धनश्रेष्ठी सदोपद्रवकारिणम् । राहानिर्वासयामास दासेरं दन्दशूकवत् ॥ १८ ॥ सोऽथ सिंहगुहां चौरपल्ली वल्लीं महागसाम् । ययौ प्रियागाः प्रोतिर्हि तुलव्यसनशीलयोः ॥ २० ॥ स नृशंसो नृशंसेन दस्युहन्देन सङ्गतः । वायुनेवाग्निरभवहारुणोऽप्यतिदारुणः ॥ २१ ॥ तत: सिंहगुहाधीशे चौरसेनापतौ मृते । चौरसेनापतिः सोऽभूत्तदर्थमिव निर्मितः ॥ २२ ॥ यौवनं सुसमाप्याप्ता रूपादिगुणशालिनी । कलाकलापपूर्णाभूत् खेचरीव महीचरी ॥ २३ ॥ चैलातेयोऽन्यदोचे स्वानस्ति राजगृहे पुरे । श्रेष्ठी धनो ऽनन्तधनो दुहिता चास्य सुसुमा ॥ २४ ॥ तस्करास्तत्र गच्छामो धनं वः सुसुमा तु मे। इति व्यवस्थामास्थाय सोऽगाइनग्रहं निशि ॥ २५ ॥ प्रयोज्य स्थापनों विद्या कीर्तयित्वा स्वमागतम् । स धनं ग्राहयामास सुसुमां स्वयमग्रहीत् ॥ २६ ॥ सुप्ताशेषपरीवारः सूनुभिः पञ्चभिः समम् । अपमृत्य धनस्तस्थौ नयो नयवतां ह्यसौ ॥ २० ॥ जीवग्राहं ग्रहीत्वा च हृदयेन स सुसुमाम् । चैलातेयः पलायिष्ट सलोपत्रेदस्युभिः सह ॥ २८ ॥ Page #102 -------------------------------------------------------------------------- ________________ १०२ योगशास्त्र पाहूयारक्षपुरुषान् धनश्रेष्ठीत्यभाषत । चौरापहतवित्तं च प्रत्यानयत सुसुमाम् ॥ २८ ॥ ततो धनः सहारक्षः पुत्त्रैश्चायुधपाणिभिः । पुरोगखमन:स्पईयेव त्वरितमन्वगात् ॥ ३० ॥ जलं स्थलं लता वृक्षानन्यदप्यखिलं पथि । पोतोन्मत्तो हैममिव सोऽपश्यत्सुसुमामयम् ॥ ३१ ॥ इत: पौतमितो भुक्तमित: स्थितमिती गतम् । एवं वदद्भिः पदिकैः स दस्यूनिकषा ययौ ॥ ३२ ॥ हत हर्तति टलीत ग्टह्रौतेति च भाषिणः । . मलिम्बुचानाममिलबारक्षपुरुषास्ततः ॥ ३३ ॥ दिशो दिशि प्रणशस्ते वित्तं त्यक्त्वान्यतस्कराः ।। सुसुमां स तु नामुञ्चच्चौरी व्याघ्री मृगौमिव ॥ ३४ ॥ आरक्षपुरुषास्ते तु तद्वित्तं प्राप्य पुष्कलम् । व्यावर्त्तन्त कतार्थो हि सर्वः स्यादन्यथामतिः ॥ ३५ ॥ उद्दहन् सुसमामसे लतामिव मतङ्गजः । प्रविवेश महारण्यं चिलातीतनयस्ततः ॥ ३६ ॥ सूनुभिः पञ्चभिः पञ्चाननैरिव धनोऽन्वगात् । कष्टुं पुत्रौं मुखाहस्योराहोरिन्दुकलामिव ॥ ३७ ॥ धने ससविधीभूते माभवत्वस्य सा मम । सुसुमेति धिया तस्याः शिरःकमलमच्छिनत् ॥ ३८ ॥ (१) ख ग वः। . Page #103 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः। प्राकष्टकरवालोऽसौ हस्तविन्यस्तमस्तकः ।। तदा यमपुरीद्दारक्षेत्रपाल इवाबभौ ॥ ३८ ॥.. .. सुसुमायाः कबन्धस्यान्तिके स्थित्वा रुदन् धनः । वारीव बाष्पपूरण नयनाञ्जलिभिर्ददौ ॥ ४० ॥ तस्याः कबन्धमुसज्य व्यावृत्तः ससुतो धनः । शल्यित: शोकशल्येन महाटव्यामथापतत् ॥ ४१ ॥ ललाटन्तपतपनतेजस्तापभयादिव। विष्वक् सङ्खचितच्छायो मध्याह्नश्च ततोऽभवत् ॥ ४२ ॥ शोकमक्षुधावणामध्याह्नातपवह्निभिः । धन: सुताच पञ्चाग्निसाधका इव तेपिरे ॥ ४३ ॥ न जलं न फलं नान्यद्ददृशुर्जीवनौषधम् । मृत्यवे प्रत्युतापश्यंस्ते 'हिंस्रखापदान् पथि ॥ ४४ ॥ प्रात्मनस्तनयानां च तां पश्यन्विषमां दशाम् । धनश्रेष्ठी पथ्यतुच्छे गच्छब्रेवमचिन्तयत् ॥ ४५ ॥ मम सर्वस्वनाशोऽभूत्पूत्री प्राणप्रिया मृता। मृत्युकोटिं वयं प्राप्ता धिगहो दैवजृम्भितम् ॥ ४६ ॥ न यत्पुरुषकारेण साध्यं धीसम्पदा न च । तदेकं दैवमेवेह बलिभ्यो बलवत्तरम् ॥ ४७॥ प्रसाद्यते न दानेन विनयेन न ग्राह्यते । सेवया वयते नैव केयं दुःसाध्यता विधेः ॥ ४८ ॥ (१) च म हिंसश्वापदान्यपि । Page #104 -------------------------------------------------------------------------- ________________ योगशास्त्रे विबुधैर्बोध्यते नैव बलवद्भिर्न रुध्यते । न साध्यते तपस्य द्भिः प्रतिमल्लोऽस्तु को विधः ॥ ४ ॥ अहो देवं मित्रमिव कदाचिदनुकम्पते । कदाचित्परिपन्थीव निःशझं प्रणिहन्ति च ॥ ५० ॥ विधिः पितेव सर्वत्र कदाचित्परिरक्षति । कदाचित्पीडयत्येव दायाद इव 'दुर्दमः ॥ ५१ ॥ विधिनयति मार्गेणामार्गस्थमपि कर्हिचित् । कदाचिन्मार्गगमपि विमार्गेण प्रवर्तयेत् ॥ ५२ ॥ पानयेदपि दूरस्थं करस्थमपि नाशयेत् । मायेन्द्रजालतुल्यस्य विचित्रा गतयो विधः ॥ ५३ ॥ अनुकूले विधौ पुंसां विषमप्यमृतायते । विपरीते पुनस्तत्रामृतमेव विषायते ॥ ५४ ॥ स एवं चिन्तयन्नेव प्राप राजहं पुरम् । सशोकः सुसुमापुत्त्रया विदधे चौद्धदेहिकम् ॥ ५५ ॥ वैराग्याइतमादाय श्रीवीरस्वामिनोऽन्तिक । दुस्तपं स तपस्तेपे पूर्णायुश्च दिवं ययौ ॥ ५६ ॥ चैलातेयोऽप्यनुरागात्मसुमाया मुहुर्मुहुः । मुखं पश्यत्रविज्ञातमो याम्यां दिशं ययौ ॥ ५७ ॥ सर्वसन्तापहरणं छायावृक्षमिवाध्वनि । साधुमेकं ददर्शासौ कायोत्सर्गजुषं पुरः ॥ ५८ ॥ . (१) ख च दुर्मदः । ... . Page #105 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः। १०५ स खेन कर्मणा तेन किञ्चिदुहिग्नमानसः ।। तमुवाच समाख्याहि धर्म संक्षेपतो मम ॥ ५८ ॥ अन्यथा कदलीलावं लविष्यामि शिरस्तव । अनेनैव कृपाणेन सुसुमाया इव क्षणात् ॥ ६ ॥ स ज्ञानामुनिरज्ञासीहोधिबीजमिहाहितम् । अवश्यं यास्यति स्फातिं पल्वले शालिबीजवत् ॥ ६१ ॥ कार्यः सम्यगुपशमो विवेकः संवरोऽपि च । इत्युक्त्वा चारणमुनिः स पक्षीव खमुद्ययौ ॥ ६२ ॥ पदानि मन्ववत्तानि परावर्त्तयतस्ततः । जज्ञे चिलातीपुत्रस्य तदर्थोल्लेख ईदृशः ॥ ६३ ॥ क्रोधादीनां कषायाणां कुर्यादुपशमं सुधीः । हहा तैरहमाक्रान्तश्चन्दन: पत्रगैरिव ॥ ६४ ॥ चिकित्साम्यद्य तदिमान्महारोगानिवात्मनः । क्षमामृदुत्वऋजुतासन्तोषपरमौषधैः ॥ ६५ ॥ धनधान्यहिरण्यादिसर्वस्वत्यागलक्षणम् । विवेकमेकं कुर्वीत बीजं ज्ञानमहातरोः ॥ ६६ ॥ तदिदं सुसुमाशीष कपाणं च करस्थितम् । सर्वस्वभूतं मुञ्चामि केतनं पापसम्पदः ॥ ६ ॥ संवरचाक्षमनसां विषयेभ्यो निवर्तनम् । स मया प्रतिपन्नोऽद्य संयमश्रीशिरोमणिः ॥ ६८ ॥ पदार्थं भावयब्रेवं संरुद्धसकलेन्द्रियः । समाधिमधिगम्याभून्मनोमात्रैकचेतनः ॥ ६८ ॥ १४ Page #106 -------------------------------------------------------------------------- ________________ - योगशास्त्रे ततोऽस्य विस्रगन्धासक्छटाकवचितं वपुः । कोटिकाभिः शतच्छिद्रं चक्रे दारु घुणैरिव ॥ ७० ॥ पिपीलिकोपसर्गेऽपि स स्तम्भ इव निश्चलः । सा होरात्रयुग्मेन जगाम त्रिदशालयम् ॥ ७१ ॥ यदाह 'जो तिहिं पएहिं धम्मं समभिगो संजमं समारूढो । उवसमविवेयसंवरचिलाइपुत्तं नमसामि ॥ ७२ ॥ अहिसरिया पाएहिं सोणियगंधेण जस्म कीडीओ। खायंति उत्तमंगं तं दुक्करकारयं वंदे ॥ ७३ ॥ धोरो चिलाइपुत्तो मुयङ्गलोयाहिं चालणिव्व को। जो तहवि खज्जमाणो पडिवबो उत्तम अटुं ॥ १४ ॥ "अट्टाइज्जे हिं राइदिएहिं पत्तं चिलाइपुत्तेण । देविंदामरभवणं अच्छरगणसङ्कलं रम्मम् ॥ ७५ ॥ चरित्रैरापन्नः खपच इव धिक्कारपदवीम् । चिलातोपुत्रोऽसावधिनरकमासूत्रितगतिः । (१) यस्विभिः पदैः धर्म समभिगतः संयम समारूढः । ___उपशमविवेकसंवरचिलातीपुत्रं नमस्यामि ॥ (२) अधिसृताः पादैः शोणितगन्धेन यस्य हीनाङ्गाः । खादन्ति उत्तमाङ्गं तं दुष्करकारकं वन्दे । (३) धीरश्चिलातीपुत्रः पिपीलिकाभिश्चालनीव कृतः । यस्तथापि खाद्यमानः प्रतिपन्न उत्तममर्थम् ॥ (४) साईद्दिभिः रात्रिदिनैः प्राप्तं चिलातीपुलेण । . देजेन्द्रामरभवनं अमरोगण सङ्कलं रम्यम् ॥ Page #107 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । समालम्बावं यत्त्रिदिवसदनातिथ्यमगमत् स एवायं योगः सकलसुखमूलं विजयते ॥ ७६ ॥ १३ ॥ . पुनरेव योगमेव स्तौतितस्याजननिरेवास्तु नृपशोर्मोघजन्मनः । अविद्धकर्णी यो योग इत्यक्षरशलाकया ॥ १४ ॥ न जननमजननि: “नञोऽनिः शापे” ॥ ५ । ३ । १२७ ॥ इत्यनिः । अस्तु भूयात् । ना चासौ पशुश्च नृपशस्तस्य नृपशोः। पशुप्रायपुरुषस्य मोघजन्मन इति निष्फलजननस्य यः । किं योऽविद्धकर्ण: कया अक्षरशलाकया। अक्षराण्येव शलाका कर्णवेधजननी अक्षरशलाका। केनोल्लेखेन यान्यक्षराणि अतएव आह। योग इति योग इत्यक्षरलक्षणशलाकया योऽविद्धकर्ण: लोहादिमयशलाकाविडकर्णोऽपि। तस्य नृपशोर्वरमजननिर्युता न पुनविडम्बनाप्रायं जननमिति ॥ १४ ॥ पुनरपि पूर्वार्द्धन योगं स्तुत्वा उत्तरार्द्धन तत्स्वरूपमाहचतुर्वर्गेऽग्रणीर्मोक्षो योगस्तस्य च कारणम् । ज्ञानश्रद्धानचारिवरूपं रत्नवयं च सः ॥ १५ ॥ चतुर्वर्गोऽर्थकामधर्ममोक्षलक्षण: तस्मिन्नग्रणीः प्रधानं मोक्षः । पर्थो हि अर्जनरक्षणनाशव्ययहेतुकदुःखानुषङ्गदूषितत्वान्न चतुवर्गेऽग्रणीभवति। कामस्तु सुखानुषङ्गलेशायद्यप्यादुत्कृष्थते तथापि विरसावसानत्वात् दुर्गतिसाधनत्वाच्च नाग्रणीः। धर्मस्तु Page #108 -------------------------------------------------------------------------- ________________ १०८ -: योगशास्त्रे ऐहिकामुभिकसुखसाधनत्वेन अर्थकामाभ्यां यद्यप्युत्कृष्थते तथापि कनकनिगडरूपपुण्यकर्मबन्धननिबन्धनत्वाद्भवभ्रमणहेतुरिति नाग्रणीः । मोक्षस्तु पुण्यपापक्षयलक्षणो न क्लेशबहुलो न वा विषसम्पृक्तानवदापातरमणीयः परिणामदुःखदायी नवा ऐहिकामुभिकफलाशंसादोषदूषित इति भवति परमानन्दमयश्चतुर्वर्गऽग्रणोः यः। तस्य च कारणं साधकतमं करणं योगः। तस्य किं रूपमित्याह । रत्नत्रयं मरकतादिव्यवच्छेदेनाह। ज्ञानश्रद्धानचारित्ररूपमिति ॥ १५ ॥ . रत्नत्रये प्रथमं ज्ञानस्वरूपमाह - यथावस्थिततत्वानां संक्षेपाद्विस्तरेण वा । योऽवबोधस्तमबाहुः सम्यग्ज्ञानं मनीषिणः ॥ १६ ॥ यथावस्थितानि नयप्रमाणप्रतिष्ठितस्वरूपाणि यानि तत्त्वानि जीवाजीवाश्रवसंवरनिर्जराबन्धमोक्षलक्षणानि तेषां योऽवबोधस्तत्सम्यग्ज्ञानं स चावबोध: क्षयोपशमविशेषात्कस्यचिसंक्षेपण कर्मक्षयाच्च कस्यचिहिस्तरेण । तथाहि जीवाजीवावाश्रवश्च संवरो निर्जरा तथा । बन्धो मोक्षश्चेति सप्त तत्त्वान्याहुमनीषिणः ॥ १ ॥ तत्र जीवा विधा ज्ञेया मुक्तसंसारिभेदतः । अनादिनिधनाः सर्वे ज्ञानदर्शनलक्षणाः ॥ २ ॥ Page #109 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । मुक्ता एकस्वभावाः स्युर्जन्मादिक्लेशवर्जिताः । अनन्तदर्शनज्ञानवीर्यानन्दमयाश्च ते ॥ ३ ॥.. संसारिणो विधा जीवाः स्थावरत्रसभेदतः । । हितीयेऽपि विधा पर्याप्तापर्याप्त विशेषतः ॥ ४ ॥ पर्याप्तयस्तु षडिमाः पर्याप्तत्वनिबन्धनम् । आहारो वपुरक्षाणि प्राणा भाषा मनोऽपि च ॥ ५ ॥ स्युरेकाक्षविकलाक्षपञ्चाक्षाणां शरीरिणाम् । चतस्रः पञ्च षड्वापि पर्याप्तयो यथाक्रमम् ॥ ६ ॥ एकाक्षाः स्थावरा भूम्यप्तेजोवायुमहीरुहः । तेषां तु पूर्वे चत्वारः स्युः सूक्ष्मा बादरा अपि ॥ ७ ॥ प्रत्येकाः साधारणाश्च द्विप्रकारा महीरुहः ।। तत्र पूर्व बादराः स्युरुत्तरे सूक्ष्मबादराः ॥ ८ ॥ वसा द्वित्रिचतुष्पञ्चेन्द्रियत्वेन चतुर्विधाः । तत्र पञ्चेन्द्रिया हेधा संजिनोऽसंजिनोऽपि च ॥ ८ ॥ शिक्षोपदेशालापान्ये जानते तेऽत्र संजिनः । . संप्रवृत्तमनःप्राणास्तेभ्योऽन्ये स्युरसंजिनः ॥ १० ॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमितीन्द्रियम् । तस्य स्पर्णी रसो गन्धो रूपं शब्दश्च गोचरः ॥ ११ ॥ हीन्द्रियाः कमयः शङ्का गण्डूपदजलौकसः । कपर्दाः शक्तिकाद्याथ विविधाकृतयो मताः ॥ १२ ॥ यूकामत्कुणमत्कोटलिक्षाद्यास्त्रीन्द्रिया मताः । पतङ्गमक्षिकाभृङ्गदंशाद्याश्चतुरिन्द्रियाः ॥ १३ ॥ Page #110 -------------------------------------------------------------------------- ________________ ११० योगशास्त्र तिर्यग्योनिभवाः शेषा जलस्थलखचारिणः । नारका 'मानवा देवाः सर्वे पञ्चेन्द्रिया मताः ॥ १४ ॥ मनोभाषाकायबलत्रयमिन्द्रियपञ्चकम् । आयुरुच्छासनिःश्वासमिति प्राणा दश स्मृताः ॥ १५ ॥ सर्वजीवेषु देहायुरुच्छासा इन्द्रियाणि च ।। विकलासंजिनां भाषा पूर्णानां संजिनां मनः ॥ १६ ॥ उपपादभवा देवा नारका गर्भजाः पुन: । जरायुपोताण्डभवाः शेषाः सम्मूछनोद्भवाः ॥ १७ ॥ सम्मछिनो नारकाच जीवा: पापा नपुंसकाः । देवास्तु स्त्रीपुंवेदाः स्युर्वेदत्रयजुषः परे ॥ १८ ॥ सर्वे जीवा व्यवहार्यव्यवहारितया विधा। सूक्ष्मनिगोदा एवान्त्या स्तेभ्योऽन्ये व्यवहारिणः ॥ १८ ॥ सचित्तः संवृत्तः शीतस्तदन्यो मिश्रितोऽपि वा। विभेदैरान्तरैभित्रो नवधा योनिरङ्गिनाम् ॥ २० ॥ प्रत्येक सप्तलक्षाणि पृथ्वीवार्यग्निवायुषु । प्रत्येकानन्तकायेषु क्रमाद्दश चतुर्दश ॥ २१ ॥ षट् पुनर्विकलाक्षेषु मनुष्थेषु चतुर्दश । स्युश्चतम्रश्चतस्रश्च खम्भ्रतियक्सुरेषु तु ॥ २२ ॥ (१) क छ मनुजाः । (२) क ख छ देवनारकाः। (३) ख ग च देवाः स्त्रीपुंसवेदाः । (४) ख ग छ तेऽन्येऽपि व्यवहारिणः । Page #111 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः। १११ एवं लक्षाणि योनीनामशौतिश्चतुरुत्तरा। सर्वज्ञोपन्जमुक्तानि सर्वेषामपि जन्मिनाम् ॥ २३ ॥ एकाक्षा बादराः सूक्ष्मा: पञ्चाक्षाः संज्ञासंजिनः । स्युईित्रिचतुरक्षाश्च पर्याप्ता इतरेऽपि च ॥ २४ ॥ एतानि जीवस्थानानि जिनोक्तानि चतुर्दश। मार्गणा अपि तावत्यो ज्ञेयास्ता नामतो यथा ॥ २५ ॥ गतोन्द्रियवपुर्योगवेद ज्ञानक्रुदादयः। ... संयमाहारदृग्लेश्याभव्यसम्यक्त्वसंजिनः ॥ २६ ॥ मिथ्यादृष्टिः सास्वादनसम्यग्मिथ्यादृशावपि । अविरतसम्यग्दृष्टिविरताविरतोऽपि च ॥ २७ ॥ . प्रमत्तश्चाप्रमत्तश्च निवृत्तिबादरस्ततः । अनिवृत्तिबादरश्चाथ सूक्ष्मसंपरायकः ॥ २८ ॥ तत: प्रशान्तमोहश्च क्षीणमोहश्च योगवान् । अयोगवानिति गुणस्थानानि स्युश्चतुर्दश ॥ २८ ॥ मिथ्यादृष्टिर्भवेन्मिथ्यादर्शनस्योदये सति । गुणस्थानत्वमेतस्य भद्रकत्वाद्यपेक्षया ॥ ३० ॥ मिथ्यात्वस्यानुदयेऽनन्तानुबन्ध्युदये सति । । सास्वादन: सम्यग्दृष्टिः स्यादुल्कर्षात् षडावलीः ॥ ३१ ॥ सम्यक्त्वमिथ्यात्वयोगान्मुहूर्त मिश्रदर्शनः । अविरतसम्यग्दृष्टिरप्रत्याख्यानकोदये ॥ ३२ ॥ . विरताविरतस्तु स्यात्प्रत्याख्यानोदये सति। प्रमत्तसंयतः प्राप्तसंयमो य: प्रमाद्यति ॥ ३३ ॥ . Page #112 -------------------------------------------------------------------------- ________________ ११२ योगशास्त्रे सोऽप्रमत्तसंयतो यः संयमी न प्रमाद्यति । उभावपि परावृत्या स्यातामान्तर्मुहर्तिकौ ॥ ३४ ॥ कर्मणां स्थितिघातादीनपूर्वान् कुरुते यतः । तस्मादपूर्वकरण: क्षपकः शमकश्च सः ॥ ३५ ॥ यहादरकषायाणां प्रविष्टानामिमं मिथः । परिणामा निवर्तन्ते निवृत्तिबादरोऽपि तत् ॥ ३६ ॥ परिणामा निवर्तन्ते मिथो यत्र न यत्नतः । अनिवृत्तिबादरः स्यात्क्षपक: शमकश्च सः ॥ ३७॥ लोभाभिधः सम्परायः सूक्ष्मः किट्टीकतो यतः । स सूक्ष्मसम्पराय: स्यात्क्षपकः शमकोऽपि च ॥ ३८ ॥ अथोपशान्तमोहः स्यान्मोहस्योपशमे सति। मोहस्य तु क्षये जाते क्षीणमोहं प्रचक्षते ॥ ३८ ॥ सयोगिकेवली घातिक्षयादुत्पत्रकेवलः । योगानां तु क्षये जाते स एवायोगिकेवली ॥ ४० ॥ .. ॥ इति जीवतत्त्वम् ॥ अजीवाः स्यर्धम्माधम्मविहायःकालपुहलाः । जीवेन सह पञ्चापि ट्रव्याख्येते निवेदिताः ॥ ४१ ॥ तत्र कालं विना सर्वे प्रदेशप्रचयात्मकाः । विना जीवमचिद्रूपा अकरिश्च ते मताः ॥ ४२ ॥ कालं विनास्तिकायाः स्युरमूर्ताः पुद्गलं विना । उत्पादविगमध्रौव्यात्मानः सर्वेऽपि ते पुनः ॥ ४३ ॥ Page #113 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः। ११३ पुद्गलाः स्युः स्पर्शरसगन्धवर्णस्वरूपिणः । सेऽणस्कन्धतया हेधा तनाऽबद्धा: किलाणवः ॥ ४४ ॥ बडाः स्कन्धा गन्धशब्दसौक्ष्मास्थौल्याकृतिस्मृशः । अन्धकारातपोद्योतभेदच्छायामका अपि ॥ ४५ ॥ कर्मकायमनोभाषाचेष्टितोच्छासदायिनः । सुखदुःखजीवितव्यमृत्यूपग्रहकारिणः ॥ ४६ ॥ प्रत्येकमेकद्रव्याणि धम्माधर्मी नभोऽपि च । अमूर्त्तानि निष्क्रियाणि स्थिराण्यपि च सर्वदा ॥ ४७ ॥ एकजीवपरीमाणसंख्यातीतप्रदेशको । लोकाकाशमभिव्याप्य धमाधम्र्मों व्यवस्थितौ ॥ ४८ ॥ स्वयं गन्तुं प्रवृत्तेषु जीवाजीवेषु सर्वतः । सहकारी भवेद्धम्मः पानीयमिव यादसाम् ॥ ४८ ॥ जीवानां पुगलानां च प्रपन्नानां स्वयं स्थितिम् । अधर्म: 'सहकार्येष यथा च्छायाऽध्वयायिनाम् ॥ ५० ॥ सर्वगं स्वप्रतिष्ठं स्यादाकाशमवकाशदम् । लोकालोको स्थितं व्याप्य तदनन्तप्रदेशभाक् ॥ ५१ ॥ लोकाकाशप्रदेशस्था भिन्नाः कालाणवस्तु ये । भावानां परिवर्ताय मुख्यः कालः स उच्यते ॥ ५२ ॥ ज्योतिःशास्त्रे यस्य मानमुच्यते समयादिकम् । स व्यावहारिकः कालः कालवेदिभिरामतः ॥ ५३ ॥ (१) क ग सहकार्येषु । Page #114 -------------------------------------------------------------------------- ________________ ११४ योगशास्त्रे नवजीर्णादिरूपेण यदमी भुवनोदरे । पदार्थाः परिवर्त्तन्ते तत्कालस्यैव चेष्टितम् ॥ ५४ ॥ वर्त्तमाना अतीतत्वं भाविनो वर्त्तमानताम् । पदार्थाः प्रतिपद्यन्ते कालक्रीडाविडम्बिताः ॥ ५५ ॥ ॥ इति अजीवतत्त्वम् ॥ मनोवचनकायानां यत्स्यात्कम् स आश्रवः । शुभ: शुभस्य हेतुः स्यादशुभस्त्वशुभस्य च ॥ ५६ ॥ ॥ इति श्रवः ॥ सर्वेषामास्रवाणां यो रोधहेतुः स संवरः । कर्मणां भवहेतूनां जरणादिह निर्जरा ॥ ५७ ॥ ॥ इति संवरनिर्जरे ॥ वक्ष्यन्ते भावनास्खेवास्त्रवसंवरनिर्जराः । तन्नात्र विस्तरेणोक्ताः पुनरुक्तत्वभौरुभिः ॥ ५८ ॥ सकषायतया जीवः कर्मयोग्यांस्तु पुद्गलान् । यदादत्ते स बन्धः स्याज्जीवास्वातन्त्र्यकारणम् ॥ ५८ ॥ प्रकृतिस्थित्यनुभागप्रदेशा विधयोऽस्य तु । प्रकृतिस्तु स्वभावः स्यात् ज्ञानावृत्त्यादिरष्टधा ॥ ६० ॥ ज्ञानदृष्ट्यावृतो वेद्यं मोहनीयायुषी अपि । नामगोत्रान्तरायाश्च मूलप्रकृतयो मताः ॥ ६१ ॥ निकर्षोत्कर्षतः कालनियमः कमणां स्थितिः । अनुभागो विपाकः स्यात्प्रदेशोऽशप्रकल्पनम् ॥ ६२ ॥ Page #115 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः। ११५ मिथ्यादृष्टिरविरतिप्रमादौ च क्रुदादयः । योगेन सह पञ्चैते विज्ञेया बन्धहेतवः ॥ ६३ ॥ ॥ इति बन्धतत्त्वम् ॥ अभावे बन्धहेतूनां घातिकम्मक्षयोद्भवे । केवले सति मोक्ष: स्याच्छेषाणां कम्मणां क्षये ॥ ६४ ॥ सुरासुरनरेन्द्राणां यत्सुखं भुवनत्रये । स स्यादनन्तभागोऽपि न मोक्षसुखसम्पदः ॥ ६५ ॥ स्वस्वभावजमत्यक्षं यदस्मिन् शाखतं सुखम् । चतुर्वर्गाग्रणीत्वेन तेन मोक्षः प्रकीर्तितः ॥ ६६ ॥ . ॥ इति मोक्षतत्त्वम् ॥ मतिश्रुतावधिमन:पर्यायाः केवलं तथा । अमीभिः सान्वयैर्भेदैर्ज्ञानं पञ्चविधं मतम् ॥ ६७ ॥ अवग्रहादिभिभिन्न बह्वाद्यैरितरैरपि । इन्द्रियानिन्द्रियभबं मतिज्ञानमुदीरितम् ॥ ६८ ॥ विस्तृतं बहुधा पूर्वैरङ्गोपाङ्गः प्रकीर्णकैः । स्याच्छब्दलाञ्छितं जेयं श्रुतज्ञानमनेकधा ॥ ६८ ॥ देवनैरयिकाणां स्यादवधिर्भवसम्भवः । षड्विकल्पस्तु शेषाणां क्षयोपशमलक्षणः ॥ ७० ॥ ऋजुर्विपुल इत्येवं स्यान्मनःपर्ययो विधा । विशुद्यप्रतिपाताभ्यां तद्विशेषोऽवगम्यताम् ॥ ७१ ॥ Page #116 -------------------------------------------------------------------------- ________________ ११६ योगशास् अशेषद्रव्यपर्यायविषयं विश्वलोचनम् । अनन्तमेकमत्यक्षं 'केवलज्ञानमुच्यते ॥ ७२ ॥ एवं च पञ्चभिर्ज्ञानैर्ज्ञाततत्त्व समुच्चयः । अपवर्गहेतो रत्नत्रयस्याद्याङ्गभाग्भवेत् ॥ ७३ ॥ भवविट पिस मूलोलने मत्तदन्तो जडिमतिमिरनाशे पद्मिनीप्राणनाथः । नयनमपरमेतद्दिश्वतत्त्वप्रकाशे । करणहरिणबन्धे वागुरा ज्ञानमेव ॥ ७४ ॥ १६ ॥ द्वितीयं रत्नमाह - रुचिर्जिनोक्ततत्त्वेषु सम्यक् श्रद्धानमुच्यते । जायते तन्निसर्गेण गुरोरधिगमेन वा ॥ १७ ॥ जिनोक्तेषु तत्त्वेषु जीवादिषूक्तस्वरूपेषु या रुचिस्तत् श्रद्धानम् । नहि ज्ञानमित्येव रुचिं विना फलसिद्धिः । शाकान्रादिस्वरूपवेदिनाऽपि रुचिरहितेन न सौहित्यलक्षणं फलमवाप्यते । श्रुतज्ञानवतोऽप्यङ्गारमर्दकादेरभव्यस्य दूरभव्यस्य वा जिनोक्ततत्त्वेषु रुचिरहितस्य न विवक्षितं फलमुपश्रूयते । तस्य चोत्पादे यो गति: निसर्गोऽधिगमञ्च | निसर्गः स्वभावो गुरूपदेशादिनिरपेक्षः सम्यक् श्रद्धानकारणम् । (१) ख छ केवलं ज्ञानम् । Page #117 -------------------------------------------------------------------------- ________________ ११७ प्रथमः प्रकाशः । __ ११७ तथाहि अनाद्यनन्तसंसारावर्त्तवत्तिषु देहिषु । 'ज्ञानदृष्ट्यावृतिवेदनीयान्तरायकम्मणाम् ॥ १ ॥ सागरोपमकोटीनां कोट्यस्त्रिंशत्परा स्थितिः । विंशतिर्गौवनानोश्च मोहनीयस्य सप्ततिः ॥ २ ॥ ततो गिरिसरिद्रावघोलनान्यायतः खयम् । एकाब्धिकोटिकोट्यूना प्रत्येक क्षीयते स्थितिः ॥ ३ ॥ शेषाब्धिकोटिकोट्यन्त:स्थिती सकलजन्मिनः । यथाप्रवृत्तिकरणाग्रन्थिदेशं समिति ॥ ४ ॥ रागहेषपरीणामो दुर्भेदो ग्रन्थिरुच्यते । दुरुच्छेदो दृढतर: काष्ठादेरिव सर्वदा ॥ ५ ॥ ग्रन्थिदेशं तु संप्राप्ता रागादिप्रेरिताः पुनः । उत्कृष्टबन्धयोग्याः स्युश्चतुर्गतिजुषोऽपि ते ॥ ६ ॥ तेषां मध्ये तु ये भव्या भाविभद्राः शरीरिणः । आविष्कृत्य परं वीर्यमपूर्वकरण कते ॥ ७ ॥ अतिक्रामन्ति सहसा तं ग्रन्थिं दुरतिक्रमम् । अतिक्रान्तमहाध्वानो घट्टभूमिमिवाध्वगाः ॥ ८॥ अथानिवृत्तिकरणादन्तरकरणे कृते । मिथ्यात्वं विरलीकुर्युवेदनीयं यदग्रतः ॥ ८ ॥ (१) क छ ज्ञानज्यादतिवेद्याभिधान्तरायकर्मणाम् । Page #118 -------------------------------------------------------------------------- ________________ योगशास्त्रे आन्तर्मुहूर्तिकं सम्यग्दर्शनं प्राप्नुवन्ति यत् । निसर्गहेतुकमिदं सम्यश्रद्धानमुच्यते ॥ १० ॥ गुरूपदेशमालम्बा सर्वेषामपि देहिनाम् । यत्तु सम्यश्रद्धानं तत्स्यादधिगमजं परम् ॥ ११ ॥ यमप्रशमजीवातुर्बीजं ज्ञानचारित्रयोः । हेतुस्तपःश्रुतादीनां सद्दर्शनमुदीरितम् ॥ १२ ॥ श्लाघ्यं हि चरणज्ञानवियुक्तमपि दर्शनम् । न पुन नचारित्रे मिथ्यात्वविषदूषित ॥ १३ ॥ ज्ञानचारित्रहीनोऽपि श्रूयते श्रेणिकः किल । सम्यग्दर्शनमाहात्मयात्तीर्थकत्वं प्रपत्स्यते ॥ १४ ॥ अकृतचरणबोधा: प्राणिनो यत्प्रभावादसमसुखनिधानं मोक्षमासादयन्ति । भवजलनिधिपोतं दुःखकान्तारदावम् । श्रयत तदिह सम्यग्दर्शनं रत्नमेकम् ॥ १५ ॥ १७ ॥ हतीयं रत्नमाहसर्वसावद्ययोगानां त्यागश्चारित्रमिष्यते । कीर्तितं तदहिंसादिवतभेदेन पञ्चधा ॥ १८ ॥ सर्वे न तु कतिपये ये सावद्ययोगाः सपापव्यापारास्तेषां त्यागो ज्ञानश्रद्धानपूर्वकं परिहारः स सम्यक्चारित्रं ज्ञानदर्शनं विना कृतस्य चारित्रस्य सम्यक्चारित्रत्वानुपपत्तेः। सर्वग्रहणं देशचारित्रव्यवच्छेदार्थम् । इदं च चारित्रं मूलोत्तरगुण देन Page #119 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । ११९ द्विविधं कीर्तितमित्यादिना मूलगुणरूपं चारित्रमाह । पञ्चधेति व्रतभेदेन न तु स्वरूपतः ॥ १८ ॥ मूलगुणानेव कीर्तयतिअहिंसासू-तास्तेयब्रह्मचर्यापरिग्रहाः । पञ्चभिः पञ्चभिर्युक्ता भावनाभिविमुक्तये ॥१६॥ अहिंसादयश्च पञ्चापि प्रत्येकं पञ्चविधभावनाभ्यहिताः सन्तः खकार्यजननं प्रति अप्रतिबदसामा भवन्तीति पञ्चभिरित्याद्युक्तम् ॥ १८ ॥ प्रथमं मूलगुणमाहन यत्पमादयोगेन जीवितव्यपरोपणम् । वसानां स्थावराणां च तदहिंसाव्रतं मतम् ॥२०॥ प्रमादोऽज्ञानसंशयविपर्ययरागद्देषस्मृतिभ्रंशयोगदुष्पणिधानधर्मानादरभेदादष्टविधः। तद्योगात्रसानां स्थावराणां च जीवानां प्राणव्यपरोपणं हिंसा। तनिषेधादहिंसा प्रथमं व्रतम् ॥ २० ॥ द्वितीयमाहप्रियं पथ्यं वचस्तथ्यं सून्तव्रतमुच्यते। तत्तथ्यमपि नो तथ्यमप्रियं चाहितं च यत् ॥२१॥ तथ्यं वचोऽमृषारूपमुख्यमानं सूतृतव्रतमुच्यते। किं विशिष्टं तथ्यं Page #120 -------------------------------------------------------------------------- ________________ १२० योगशास्त्र प्रियं पथ्यं च तत्र प्रियं यत् श्रुतमानं प्रौणयति पथ्यं यदायतौ हितम् । ननु तथ्यमेवैकं विशेषणमस्तु सत्यव्रताधिकारात् प्रिय. यथ्ययोस्तु कोऽधिकारः । अत आह। तत्तथ्यमपीति व्यवहारापेक्षया तथ्यमपि यदप्रियं यथा चौरं प्रति चौरस्त्वं कुष्ठिनं प्रति कुष्ठी त्वमिति तदप्रियत्वान्न तथ्यम् । तथ्यमप्यहितं यथा। मृगयुभिः पृष्टस्यारण्ये मृगान् दृष्टवतो मया मृगा दृष्टा इति तज्जन्तुघातहेतुत्वान्न तथ्यम् ॥ २१ ॥ तृतीयमाहअनादानमदत्तस्यास्तेयव्रतमुदीरितम् । बाह्याः प्राणा नृणामों हरता तं हता हि ते ॥२२॥ वित्तस्वामिना अदत्तस्य वित्तस्य यदनादानं तदस्तेयव्रतम् । तच्च खामिजीवतीर्थकरगुवदत्तभेदेन चतुर्विधम् । नत्र स्वाम्यदत्तं तृणोपलकाष्ठादिकं तत्स्वामिना यददत्तम् । जीवादत्तं यत्स्वामिनादत्तमपि जीवनादत्तं यथा प्रव्रज्यापरिणामविकलो मातापिटभ्यां पुत्रादि गुरुभ्यो दीयते । तीर्थकरादत्तं यत्तीर्थकरैः प्रतिषिद्धमाधाकर्मिकादि गृह्यते। गुज़दत्तं नाम स्वामिना दत्तमाधाकम्भिकादिदोषरहितं गुरूनननुज्ञाप्य यगृह्यते । नन्वहिंसापरिकरत्वं सर्वव्रतानामदत्तादाने तु केव हिंसा येनाहिंसापरिकरत्वं स्यादित्युक्तं बाह्याः प्राणा इत्यादि। यदि स्तेयस्य प्राणहरणस्वरूपं मृग्यते तदा तदस्त्येव ॥ २२ ॥ Page #121 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । चतुर्थमाह यदाह १२१ दिव्यौदारिककामानां कृतानुमतिकारितैः । मनोवाक्कायतस्त्यागो ब्रह्माष्टादशधा मतम् ॥२३॥ तच्चाष्टादशधा दिवि भवा दिव्याः ते च वैक्रियशरीरसम्भवाः । औदारिकाश्च श्रदारिकतिर्यग्मनुष्यदेहप्रभवास्ते च ते काम्यन्त इति कामाख तेषां त्यागो ऽब्रह्मनिषेधात्मकं ब्रह्मचर्यव्रतम् । मनसा अब्रह्म न करोमि न कारयामि कुर्वन्तमपि परं नानुमन्ये । एवं च वचसा कायेन वेति दिव्ये ब्रह्मणि नवभेदाः । एवमौदारिकेऽपौत्यष्टादश । दिव्यात्कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् ॥ १ ॥ इति ॥ कृतानुमतिकारितैरिति मनोवाक्कायत इति च मध्ये कृतत्वात्पूर्वी - त्तरेष्वपि महाव्रतेषु सम्बन्धनोयम् ॥ २३ ॥ पञ्चममाह सर्वभावेषु मूर्च्छायास्त्यागः स्यादपरिग्रहः । यदसत्खपि जायेत मूर्च्छया चित्तविप्लवः ॥२४॥ सर्वभावेषु द्रव्यक्षेत्रकालभावरूपेषु यो मूर्च्छाया गास्य त्यागो नतु द्रव्यादित्यागमात्रं सोऽपरिग्रहव्रतम् । ननु परिग्रहत्यागोऽपरिग्रहव्रतं स्यात् किं मूर्छात्यागलक्षणेन तल्लक्षणेन अत आह । यदसत्स्वपीति । १६ Page #122 -------------------------------------------------------------------------- ________________ १२२ - योगशास्त्रे यस्मादसत्स्वप्यविद्यमानेष्वपि द्रव्यक्षेत्रकालभावेषु मूर्च्छया चित्तविप्लव: स्यात् । चित्तविप्लव: प्रशमसौख्यविपर्यासः । असत्यपि धने धनगईवतो राजगृहनगरद्रमकस्येव चित्तसंक्लेशो दुर्गतिपातनिबन्धनं भवति । सत्यपि वा द्रव्यक्षेत्रकालभावलक्षणे सामग्रीविशेष तृष्णाकृष्णाहिनिरुपद्वमनसां प्रशमसुखप्राप्त्या चित्तविप्लवाभावः । अत एव धर्मोपकरणधारिणां यतीनां शरीरे उपकरणे च निर्ममत्वानामपरिग्रहत्वम् । यदाह यहत्तुरगः सत्स्वप्याभरणभूषणेष्वनभिषक्तः । तहदुपग्रहवानपि न सङ्गमुपयाति निर्ग्रन्थः ॥ १॥ यथा च धर्मोपकरणवतामपि मूर्छारहितानां मुनीनां न परिग्रहग्रहित्वदोषस्तथा वतिनीनामपि गुरूपदिष्टधर्मोपकरणधारिणीनां रत्नत्रयवतीनां तेन तासां धर्मोपकरणपरिग्रहमात्रेण मोक्षापवादः प्रलापमात्रम् ॥ २४ ॥ पञ्चभिः पञ्चभिर्युक्ता भावनाभिर्विमुक्तये इत्युक्तं तपस्तौति-- भावनाभि वितानि पञ्चभिः पञ्चभिः क्रमात् । महाव्रतानि नो कस्य साधयन्त्यव्ययं पदम् ॥ २५ ॥ भाव्यन्ते वास्यन्ते गुणविशेषमारोप्यन्ते महाव्रतानि यकाभिस्ता भावनाः ॥२५॥ Page #123 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । १२३ अथ प्रथमव्रतस्य भावना आहमनोगुष्धषणादानेर्याभिः समितिभिः सदा। दृष्टान्नपानग्रहणे नाहिंसां भावयेत् सुधौः ॥२६॥ मनोगुप्तिर्वक्ष्यमाणलक्षणा तयेत्येका भावना । एषणा विशुद्धपिण्ड. ग्रहणलक्षणा तस्यां या समितिः। आदानग्रहणेन निक्षेप उपलक्ष्यते। तेन पीठादेग्रहणे स्थापने च या समितिः । ईरणमौर्या गमनं तत्र या समितिः। आभिरेषणादानेयासमितिभिर्दृष्टयोरनपानयोग्रहणेनोपलक्षणत्वात् तद्ग्रासेनाहिंसा भावयेदिति सम्बन्धः । इह च गुप्तिसमितीनां महाव्रतभावनात्वेन गतार्थानामपि अथवा पञ्चसमितीत्यादिग्रन्येन पुनरुत्कीर्तनं गुप्तिममितीनामत्तरगुणत्वज्ञापनार्थम् । यदाहपिण्डस्म जा विसोही समिईओ भावणा तवो दुविहो । . पडिमा अभिग्गहो चिय उत्तरगुणगोवियाणाहिं ॥ १ ॥ इह च मनोगुप्तेर्भावनात्वं हिंसायां मनोव्यापारस्य प्राधान्यात् । श्रूयते हि प्रसन्नचन्द्रराजर्षिर्मनोगुल्या प्रभाविताहिंसाव्रतो हिंसामकुर्वनपि सप्तमनरकपृथ्वीयोग्यं कम्म निर्ममे एषणादानर्यासमितयस्तु अहिंसायां नितरामुपकारिण्य इति युक्तं भावनात्वम् । दृष्टान्नपानग्रहणं च संसक्तानपानपरिहारेणाहिंसावतोपकारायेति पञ्चमी भावना ॥ २६ ॥ Page #124 -------------------------------------------------------------------------- ________________ योगशास्त्र द्वितीयव्रतस्य भावना आह हास्यलोभभयक्रोधप्रत्याख्यानैर्निरन्तरम् । आलोच्य भाषणेनापि भावयेत्मन्नृतव्रतम् ॥२७॥ हसन् हि मिथ्या ब्रूयात् । लोभपरवशश्चार्थाकाङ्क्षया भयार्त्तः प्राणादिरक्षणेच्छया क्रुद्धः क्रोधतरलितमनस्कतया मिथ्या ब्रूयादिति । हास्यादिप्रत्याख्यानानि चतस्रो भावनाः । आलोच भाषणं सम्यग्ज्ञानपूर्वकं पयालोय मृषा माभूदिति मोहतिर - स्कारद्दारेण भाषणं पञ्चमी भावना । मोहस्य च मृषावाद हेतुत्वं प्रतीतमेव । यदाह १२४ रागादा द्वेषादा मोहाद्दा वाक्यमुच्यते ह्यनृतमिति ॥ २७ ॥ तृतीयव्रतस्य भावना आह । आलोच्यावग्रहयाच्ञाभीक्ष्णा व ग्रहयाचनम् । एतावन्मात्रमेवैतदित्यवग्रहधारणम् ॥ २८ ॥ समानधार्मिकेभ्यश्च तथावग्रहयाचनम् । अनुज्ञापितपानान्नाशनमस्तेयभावनाः ॥ २६ ॥ ( युग्मम्) आलोच्य मनसा विचिन्त्यावग्रहं याचेत । देवेन्द्रराजगृहपतिशय्यातरसाधर्मिकभेदाद्धि पञ्चावग्रहाः । अत्र च पूर्व: पूर्वो बाध्य उत्तर उत्तरो बाधकः । तत्र देवेन्द्रावग्रहो यथा सौधनाधिपतेदक्षिणलोकाईं ईशानाधिपतेरुत्तरलो कार्डम् । राजा चक्रवर्त्ती Page #125 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाश: । १२५ तस्यावग्रहो भारतादिवर्षम् । गृहपतिर्मण्डलाधिपतिस्तस्यावग्रह स्तन्मण्डलादि। शय्यातरी वसतिस्वामी तदवग्रहो वसतिरेव । साधर्मिका: साधवस्तेषामवग्रहः शय्यातरप्रदत्तं राहादि। एतानवग्रहान् ज्ञात्वा यथायथमवग्रहं याचेत । अस्वामियाचने हि परस्परविरोधेन अकाण्डधाटनादय ऐहिका दोषा: परलोकेऽपि अदत्तपरिभोगजनितं पापकम्म। इति प्रथमा भावना । सतहत्तेऽप्यवग्रह स्वामिना अभीक्ष्णं भूयो भूयोऽवग्रहयाचनं कार्य पूर्वलब्धेऽवग्रहे ग्लानाद्यवस्थामूत्रपुरीषोत्सर्गपात्रकरचरणप्रक्षालनस्थानानि दालचित्तपीडापरिहारार्थ याचनीयानि । इति द्वितीयभावना। एतावन्मात्रमेव एतावत्परिमाणमेवैतत् क्षेत्रादि ममोपयोगि नाधिकमिति अवग्रहस्य धारणं व्यवस्थापनम् । एवमवग्रहधारणे हि तदभ्यन्तरवर्तिनीमूर्द्धस्थानादिक्रियामासेवमानो न दातुरुपरोधकारी भवति। याजाकाल एवावग्रहानवधारण विपरिणतिरपि दातुश्चेतसि स्यादात्मनोऽपि चादत्तपरिभोगजनितकम्मबन्धः स्यादिति तृतीयभावना। धर्म चरन्तीति धार्मिकाः समानास्तुल्याः प्रतिपन्नकशासनाः साधवस्तेभ्यः पूर्वपरिग्रहीतक्षेत्रेभ्योऽवग्रहो याच्यस्तदनुज्ञानाति तत्रासितव्यं अन्यथा स्तेयं स्यादिति चतुर्थी भावना। अनुज्ञापिते अनुज्ञया स्वीकृते ये पानाने तयोरशनं सूत्रोक्तेन हि विधिना प्रासुकमेषणीयं कल्पनीयं च पानावं लब्धमानीयालोचनापूर्व गुरवे निवेद्यानुज्ञातो गुरुणा मण्डल्यामेकको वा ऽनीयात् । उपलक्षणमेतत् यत्किञ्चिदौधिकोपग्रहिकभेदमुपकरणं धर्मसाधनं तत्सवें गुरुणाऽनु Page #126 -------------------------------------------------------------------------- ________________ १२६ योगशास्त्रे ज्ञातं परिभोक्तव्यम् । एवं विदधानो नातिक्रामत्यस्तेयव्रतमिति पञ्चमो भावना | चतुर्थव्रतभावना आह ➖➖➖ स्वौष ण्ठ पशुमद्देश्मासन कुड्यान्तरोज्झनात् । सरागस्वौकथात्यागात्प्राग्रतस्मृतिवर्जनात् ॥ ३० ॥ स्वौरम्याङ्गेक्षणखाङ्गसंस्कार परिवर्जनात् । प्रणीतात्यशनत्यागाद् ब्रह्मचर्यं तु भावयेत् ॥ ३१॥ ( युग्मम् ) स्त्रियो देवमानुषभेदाद्विविधाः एताश्व सचित्ताः । अचित्तास्तु पुस्तलेप्यचित्रकर्मादिनिर्मिताः । षण्टास्टतीयवेदोदयवर्त्तिनो महामोहकर्माणः स्त्रोपुंससेवनाभिरताः । पशवस्तिर्यग्योनिजाः । तत्र गोमहिषीवडवावालेयोअजाअविकादयः सम्भाव्यमानमैथुनाः । एभ्यः कृतद्दन्देभ्यो मतुः स्त्रीषण्ठपशुमतो च ते वेश्मासने च वेश्म वसतिः । आसनं संस्तारकादि । कुड्यान्तरं यत्रान्तरस्थोऽपि कुड्यादौ दम्पत्योर्मोहनादिशब्दः श्रूयते ब्रह्मचर्यभङ्गभयादेषामुज्झनं त्यागः । इति प्रथमा भावना । सरागस्य मोहोदयवतो या स्त्रीभिः कथा स्त्रीणां वा कथा सरागाश्च ताः स्त्रियश्च ताभिस्तासां वा कथा तस्यास्त्यागः । रागानुबन्धिनी हि देशजातिकुलनेपथ्यभाषागतविभ्भ्रमेङ्गितहास्यलीला कटाक्षप्रणयकलह शृङ्गाररसानुविद्धा कथा Page #127 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः। वात्येव चित्तोदधेरवश्यं विक्षोभमादधातीति द्वितीया भावना । प्राक् प्रव्रज्याब्रह्मचर्यात् पूर्व गृहस्थावस्थायां यद्रतं स्त्रीभिः सह निधुवनं तस्य स्मृतिस्तस्या वर्जनं प्राग्रतस्मरणन्धनादि कामाग्निः सन्धुक्ष्यते । इति टतीया भावना। स्त्रीणामविवेकिजनापेक्षया यानि रम्याणि स्पृहणीयान्यङ्गानि मुखनयनस्तनजघनादीनि तेषामीक्षणमपूर्व विस्मयरसनिर्भरतया विस्फारिताक्षस्य विलोकनम् । ईक्षणमात्रं तु रागद्देषरहितस्यादुष्टमेव । यदाह- . अशक्यं रूपमद्रष्टुं चक्षुर्गोचरमागतम् । रागहेषौ तु यौ तत्र तो बुधः परिवर्जयेत् ॥१॥ इत्यादि ॥ तथा स्वस्थात्मनोऽङ्गं शरीरं तस्य संस्कार: नानविलेपनधूपननखदन्तकेशसन्मार्जनादि स्त्रीरम्याङ्गेक्षणं च स्वाङ्गसंस्कारश्च तयोः परिवर्जनात् । खोरम्याङ्गेक्षणतरलितविलोचनो हि दीपशिखायां शलभ इव विनाशमुपयाति । अशुचिशरीरसंस्कारमूढो हि तत्तदुत्कलिकामयैर्विकल्पैर्वृथात्मानमायासयतीति चतुर्थी भावना । प्रणीतो वृष्यः सिग्धमधुरादिरसः । अत्यशनमप्रणीतस्याऽपि रुक्षभैक्षस्याकण्ठमुदरपूरणं तयोस्त्यागो निरन्तरवृष्यमधुरस्निग्धरसप्रणीतो हि प्रधानधातुपरिपोषेण वेदोदयादब्रह्माऽपि सेवेत । अत्यशनस्य तु न केवलं ब्रह्मक्षतिकारित्वादर्जनं शरीरपोडाकारित्वादपि। Page #128 -------------------------------------------------------------------------- ________________ १२८ योगशास्त्र यदाह अद्धमसणस्म सव्वं जणस्म कुज्जा 'दगम दोभागे । वाउपवियारणहा छब्भायं ऊणगं कुज्जा ॥ १ ॥ इति पञ्चमो भावना। एवं नवविधब्रह्मचर्यगुप्तिसंग्रहण ब्रह्मचर्यव्रतस्य पञ्च भावनाः ॥ ३० ॥ ३१ ॥ पञ्चमव्रतस्य भावना आहस्पर्श रस च गन्धे च रूपे शब्द च हारिणि । पञ्चखितीन्द्रियार्थेषु गाढं गाडास्य वजनम्॥३२॥ एतेष्वेवामनोज्ञेषु सर्वथा द्वेषवर्जनम् । आकिञ्चन्यव्रतस्यैवं भावनाः पञ्च कीर्तिताः ॥३३॥ (युग्मम् ) स्पर्शादिषु मनोहारिषु विषयेषु यहाढं गाईवस्याभिष्वङ्गास्य वर्जनम्। स्पर्शादिष्वेवामनोजेष्विन्द्रियप्रतिकूलेषु यो देषोऽनौतिलक्षणस्तस्य वर्जनम् । गाईवान् हि मनोने विषयेऽभिष्वङ्गवानमनोज्ञान्विषयान्विहेष्टि मध्यस्थस्य तु मूर्छारहितस्य न कचिप्रीतिरप्रीतिर्वा रागानान्तरीयकतया च दे॒षस्योपादानम् । किञ्चन बाह्याभ्यन्तरपरिग्रहरूपं नास्यास्तीत्य किञ्चनस्तद्भावपाकिच्चन्यमपरिग्रहता। आकिञ्चन्यं च तद्वतं च तस्यैता: पञ्च भावनाः ॥ ३२ ॥ ३३ ॥ .) (१) क ग घ ङ च छ हवस्म । Page #129 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः। १२८ मूलगुणरूपचारित्रमभिधायोत्तरगुणरूयं तदाह अथवा पञ्चसमितिगुप्तिबयपविवितम् । चरित्रं सम्यक्चारित्रमित्याहुर्मुनिपुङ्गवाः ॥ ३४ ॥ समितिरिति पञ्चानां चेष्टानां तान्त्रिकी संज्ञा । अथवा सं सम्यक् प्रशस्ता प्रहप्रवचनानुसारेण इति: चेष्टा समिति: पञ्चानां समितीनां समाहारः पञ्चसमिति । गुप्तिरात्मनः संरक्षणं मुमुक्षोर्योगनिग्रह इत्यर्थः । गुप्तीनां त्रयं गुप्तित्रयं पञ्चसमिति च गुप्तित्रयं च ताभ्यां च पवित्रितं यच्चरित्रं यतीनां चेष्टा सा सम्यक्चारित्रमुच्यते। सम्यक्प्रवृत्तिलक्षणा समितिः प्रवृत्तिनिवृत्तिलक्षणा गुप्ति रत्यनयोर्विशेषः ॥ ३४ ॥ अथ समितीर्गुप्तोश्च नामत आहईर्याभाषैषणादाननिक्षेपोत्सर्गसंजिकाः । पञ्चाहुः समितीस्तिस्रो गुप्तौस्त्रियोगनिग्रहात्॥३५॥ ईर्यासमिति षासमितिरषणासमितिरादाननिक्षेपसमितिरुत्सर्गसमितिरित्येताः पञ्चसमितीब्रुवते तीर्थकराः। त्रिसंख्या योगास्त्रियोगा मनोवाक्कायव्यापारास्तेषां निग्रही निरोधः। प्रवचनविधिना मार्गव्यवस्थापनमुन्मार्गनिवारणं च। निग्रहादिति हेती पञ्चमी तेन मनोगुप्तिर्वचनगुप्तिः कायगुप्तिरिति तिम्रो गुप्तौ वते ॥ ३५ ॥ Page #130 -------------------------------------------------------------------------- ________________ १३० - योगशास्त्रे ईर्यालक्षणमाहलोकातिवाहिते मार्गे चुम्बिते भाखदंशुभिः। जन्तुरक्षार्थमालोक्य गतिरोर्या मता सताम् ॥ ३६ ॥ त्रसस्थावरजन्तुजाताभयदानदीक्षितस्य मुनरावश्यक प्रयोजने गच्छतो जन्तुरक्षानिमित्तं स्वशरीररक्षानिमित्तं च पादानादारभ्य युगमावक्षेत्रं यावत् निरीक्ष्य ईरणमीर्या गतिस्तस्यां समितिरीर्यासमितिः । यदाहु: 'पुरपी जुगमायाए पेहमाणो महिं चरे। वज्जतो बीयहरियाई पाणे य दगमष्टियं ॥ १ ॥ 'प्रोवायं विसमं खाणुं विजलं परिवज्जए । समेण न गच्छेज्जा विज्जमाण परक्कमे ॥ २ ॥ गतिश्च मार्गे भवति तस्य विशेषणं लोकातिवाहिते लोकैरतिवाहिते अत्यन्त क्षुस्से । चुम्बिते स्पृष्ट प्रादित्यकिरणैः प्रथमविशेषणेन परैविराधित मार्गे गच्छतो यतेः षड्जीवनिकायविराधना न भवति। उन्मार्गेण न गन्तव्यमिति चाह । तथाविधेऽपि मागें (१) पुरतो युगमालया प्रेक्षमाणो महिं चरेत् । __ वर्जयन् बीजहरितानि प्राणान् च दकमत्तिकाम् ॥ (२) अवपात विषमं स्थाणुं विजलं परिवर्जयेत् ।। संक्रमेण न गच्छत विद्यमाने पराक्रमे ॥ Page #131 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः। १३१ रात्री गच्छतः सम्मातिमसत्त्वविराधना भवेदिति तत्परिहारार्थं हितीयविशेषणम् । एवंविधोपयोगवतश्च गच्छतो मुनेः कथंचित् प्राणिवधेऽपि प्राणिवधपापं न भवति । यदाह उच्चालियम्मि पाए इरियासमियस्म सङ्कमट्ठाए । वावज्जेज्ज कुलिङ्गी मरिज्ज तं जोगमासज्ज ॥ १ ॥ न य तस्म तबिमित्तो बंधो सुहुमोवि देसिनो समए । अणवज्जो उपभोगण सब्वभावेण सो जम्हा ॥ २ ॥ सथा जिअदु व मरदु व जीवो अजदाचारस्म निच्छो हिंसा । पयदस्म णस्थि बंधो हिंसामित्तेण समिदस्म ॥ ३ ॥ ३६ ॥ भाषासमितिमाह अवद्यत्यागतः सर्वजनीनं मितभाषणम् । प्रिया वाचंयमानां सा भाषासमितिरुच्यते ॥३०॥ अवद्यानि भाषादोषा वाक्यशाध्ययनप्रतिपादिताः धूर्त्तकामुककव्यादचौरचार्वाकादिभाषितानि च तेषां निर्दम्भतया त्यागस्ततः सर्वजनीनं सर्वजनेभ्यो हितं मितं वल्पमप्यतिबहुप्रयोजनसाधकं तच तद्भाषणं च। Page #132 -------------------------------------------------------------------------- ________________ १३२ यदाह 'महुरं निउणं थोवं कज्जावडियं श्रगव्वियमतुच्छं । पुव्विंमसंक लियं भांति जं धम्ममंजुत्तं ॥ १ ॥ योगशास्त्रे एवंविधं यद्भाषणं सा भाषासमितिः । भाषायां सम्यगिति - र्भाषासमितिः । सा च प्रिया अभिमता वाचंयमानां मुनीनाम् । यदाहु: " जा य सच्चा न वक्तव्वा सच्चामोसा य जा मुसा । जाय बुद्धेहिं णाइमा ण तं भासेज्ज पणवं ॥ १ ॥ इति ॥३७॥ एषणासमितिमाह - द्विचत्वारिंशता भिक्षादोषैर्नित्यमदूषितम् । मुनिर्यदन्नमादत्ते सैषणासमितिर्मता ॥ ३८ ॥ दाभ्यामधिका चत्वारिंशत् द्विचत्वारिंशद्भिक्षादोषाः उद्गमोत्पादनैषणालक्षणाः तत्रोद्गमदोषा गृहस्थप्रभवाः षोडश । 'यद्यथा `आहाकम्मुद्देसियपूइकम्मे मौसजाए य । ठवणा पाहुडियाए पाउयरकीयपामिचे ॥ १ ॥ (१) मधुरं निपुणं स्तोकं कार्यापतितमगर्वितमतुच्छम् । पूर्वमतिसङ्कलितं भणन्ति यद्धर्मसंयुक्तम् ॥ (२) या च सत्या न वक्तव्या सत्यामृषा च या मृषा । या च बुद्धैरनाचीर्णा न तां भाषेत प्रज्ञावान् ॥ (३) धाकमद्देशिकपूतिकर्म च मिश्रजातं च । स्थापना प्राकृतिका प्रादुष्कारक्रीतप्रामित्यम् ॥ Page #133 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः। १३३ 'परिषष्टिए अभिहडे उब्भिसे मालोहडे इय। अच्छिज्जे अणिसट्टे अज्झोअरए य सोलसमे ॥ २ ॥ अाधाय विकल्पा यतिं मनसि कृत्वा सचित्तस्याचित्तीकरणमचित्तस्य वा पाको निरुतादाधाकर्म ॥ १ ॥ उद्देश: साध्वथं सङ्कल्पः स प्रयोजनमस्य प्रौद्देशिकं यत्पूर्वकत. मोदनमोदकक्षोदादि तत्साधूद्देशेन दध्यादिना गुडपाकेन च संस्कुर्वतो भवति ॥ २ ॥ आधाकम्भिकावयवसम्मियं शुद्धमपि यत्तत्पूतिकर्म शुचिद्रव्यमिवाशचिट्रव्यसम्मिश्रम् ॥ ३ ॥ यदात्माथें साध्वर्थ चादित एव मित्रं पश्यते तन्मित्रम् ॥ ४ ॥ साधुयाचितस्य क्षीरादेः पृथकृत्य स्वभाजने स्थापनं स्थापना ॥५॥ कालान्तरभाविनी विवाहादेरिदानों सन्निहिताः साधवः सन्ति तेषामप्युपयोगे भवविति बुद्धया इदानीमेव करणं समयपरिभाषया प्राभृतिका सविकष्टस्य विवाहादेः कालान्तरे साधुसमागमनं सञ्चिन्योत्कर्षणं वा ॥ ६ ॥ यदन्धकारयवस्थितस्य द्रव्यस्य वह्निप्रदीपमण्यादिना भित्त्यपनयनेन वा बहिनिष्कास्य द्रव्यधारणेन वा प्रकटकरणं तत्प्रादुकरणम् ॥ ७॥ यत्माव) मूल्येन कोयते तत्क्रीतम् ॥ ८॥ (१) परिवर्तितमभ्याहृतमुद्भिवं मालापहृतमिति । आच्छेद्यमनिसृष्टं अध्यवपूरकच षोडशः ॥ Page #134 -------------------------------------------------------------------------- ________________ १३४ योगशास्त्रे यत्साध्वर्थमन्त्रादि उद्यतकं गृहीत्वा दीयते तत्वामित्यकम् ॥४॥ स्वद्रव्यमर्पयित्वा परद्रव्यं तत्सदृशं गृहीत्वा यहीयते तत्परिवर्तितम् ॥ १० ॥ गृहग्रामादेः साध्वथं यदानीतं तदभ्याहृतम् ॥ ११ ॥ कुतुपादिस्थस्य पृतादेर्दानार्थ यत्मृतिकाद्यपनयनं तदुशिवम् ॥ १२॥ यदुपरिभूमिकात: शिक्यादेर्भूमिग्रहाहा पावष्य साधुभ्यो दानं तन्मालापहतम् ॥ १३ ॥ यदाच्छिद्य परकीयं हठात् गृहीत्वा स्वामी प्रभुचौरो वा ददाति तदाच्छेद्यम् ॥ १४ ॥ यहोष्ठीभक्तादिसर्वेरदत्तमनमुमतं वा एकः कश्चित्साधुभ्यो ददाति तदनिसृष्टम् ॥ १५ ॥ स्वार्थमधिश्रयणे सति साधुसमागमश्रवणात्तदथं पुनर्यो धान्यादिवापः सोऽध्यवपूरकः ॥ १६ ॥ उत्पादनादोषा अपि षोडश ते च साधुप्रभवाः । तद्यथा 'धाई दूई निमित्ते श्राजीववणीवर्ग तिगिच्छा य । कोहे माण माया लोभ अहवन्ति दस एए ॥ १ ॥ (१) धानो दूतो निमित्तं श्राजीववनीपके चिकित्सा छ । क्रोधो मानो माया लोभश्च भवन्ति दश एते ॥ . Page #135 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । १३५ 'पुष्पिच्छासंथवविज्जामन्ते अ तुमजोए य । उप्पायणाइ दोसा सोलसमे मूलकम्मे य ॥ २ ॥ बालस्य क्षौरमज्जनमण्डनक्रीडनाशारोपणकर्मकारिण्यः पञ्चधानाः एतासां कर्म भिक्षार्थं कुर्वतो मुनेर्धात्रीपिण्डः ॥ १ ॥ मिथः सन्देशकथनं दूतीत्वं तत्कुर्वतो भिक्षार्थं दूती. पिण्डः ॥ २॥ ___ प्रतीतानागतवर्तमानकालेषु लाभालाभादिकथनं निमित्तं तद्भिक्षार्थं कुर्वतो निमित्तपिण्डः ॥ ३ ॥ ' जातिकुलगणकम्मंशिल्पादिप्रधानन्य पात्मनस्तत्तगुणत्वारोपणं भिक्षार्थमाजीवपिण्डः ॥ ४ ॥ श्रमणब्राह्मणक्षपणातिथिश्वानादिभक्तानां पुरत: पिण्डार्थमात्मानं तत्तद्भक्तं दर्शयतो वनोपकपिण्डः ॥ ५ ॥ वमनविरेचनबस्तिकम्मादि कारयतो वैद्यभैषज्यादि सूचयतो .. वा पिण्डाथं चिकित्सापिण्डः ॥ ६ ॥ विद्यातपःप्रभावज्ञापनं राजपूजादिख्यापनं क्रोधफलदर्शनं वा भिक्षार्थ कुर्वत: क्रोधपिण्डः ॥ ७ ॥ लब्धिप्रशंसोत्तानस्य परेणोत्साहितस्यावमतस्य वा गृहस्थाभिमानमुत्पादयतो मानपिण्डः ॥ ८ ॥ नानावेषभाषापरिवर्तनं भिक्षार्थं कुर्वतो मायापिण्डः ॥ ८ ॥ (१) पूर्वपञ्चात्यंस्तवविद्यामन्त्रं च चर्णयोग । उत्पादनाया दोषा षोडशो मूल कर्म च ॥ Page #136 -------------------------------------------------------------------------- ________________ १३६ योगशास्त्रे प्रतिलोभाद. भिक्षार्थं पर्यटतो लोभपिण्डः ॥ १० ॥ पूर्वसंस्तवं जननीजनकादिहारण पश्चासंस्तवं खजशरादि हारेणात्मपरिचयाऽनुरूपं सम्बन्धं भिक्षार्थं घटयतः पूर्वपश्चात्संस्तवपिण्डः ॥ ११ ॥ विद्यां मन्त्रं चूर्ण योगं च भिक्षार्थ प्रयुञानस्य चत्वारो विद्यादिपिण्डा: मन्त्रजपहोमादिसाध्या स्त्रौदेवताधिष्ठाना वा विद्या ॥ १२ ॥ पाठमात्रप्रसिद्धः पुरुषाधिष्ठानो वा मन्त्रः ॥ १३ ॥ चूर्णानि नयनाञ्जनादीनि अन्तदानादिफलानि ॥ १४ ॥ पादप्रलेपादयः सौभाग्यदौर्भाग्यकरा योगाः ॥ १५ ॥ गर्भस्तम्भगर्भाधानप्रसवनपनकमूलरक्षाबन्धनादिभिक्षार्थ कु. वतो मूलकम्मपिण्डः ॥ १६ ॥ गृहिसाधूभयप्रभवा एषणादोषा दश । तद्यथा'सजियमक्खियनिक्वित्तपिहियसाहरिअदायगुम्मोसे । अपरिणयलित्तच्छडिडय एसणदोसा दस हवन्ति ॥ १ ॥ प्राधाकम्मकादिशङ्काकलुषितो यदवाद्यादत्ते तच्छशितं यं च दोषं शकते तमापद्यते ॥ १ ॥ (१) शङ्कितक्षितनिक्षिप्तपिहितसंहृतदायकोन्मित्रम् ।। अपरिणतलिप्तर्दितं एषणादोषा दश भवन्ति ॥ Page #137 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । १३७ पृथिव्युदकवनस्पतिभिः सचित्तैरचित्तैरपि मध्वादिभिहितेराश्लिष्टं यदनादि तन्नक्षितम् ॥ २ ॥ पृथिव्युदकतेजोवायुवनस्पतिषु बसेषु च यदनाद्यचित्तमपि स्थापितं तबिक्षिप्तम् ॥ ३ ॥ सचित्तेन फलादिना स्थगितं पिहितम् ॥ ४ ॥ दानभाजनस्थमयोग्यं सचित्तेषु पृथिव्यादिषु निक्षिप्य तेन भाजनेन ददत: संहृतम् ॥ ५ ॥ बालवृद्धपण्डकपमानज्वरितान्धमत्तोन्मत्तच्छिनकरचरणनिगडितपादुकारूढकण्डकपेषकभर्जककर्तकलोठकवौंखकपिञ्जकदलकव्यालोडकभोजकषड्कायविराधका दाटत्वेन प्रतिषिड्डा या च स्त्रो वेलामासवती गृहीतबाला बालवत्सा वा एभ्यो अनादि ग्रहोतुं साधीन कल्पते ॥ ६ ॥ देयद्रव्यं खण्डादि सचित्तेन धान्यकणादिना मित्रं ददत उन्मित्रम् ॥ ७ ॥ देयद्रव्यं मिश्रमचित्तत्वेनापरिणमनादपरिणतम ॥ ८ ॥ वसादिना संस्पृष्टेन हस्तेन पात्रेण वा ददतोऽत्रादि लिप्तम् ॥६॥ तादि च्छईयन् यद्ददाति तत् छतिं छद्यमाने धृतादौ तत्रस्थस्यागन्तुकस्य वा सर्वस्य जन्तोर्मधुबिन्दूदाहरणेन विराधनासम्भवात् ॥ १० ॥ तदेवमुद्गमोत्पादनेषणादोषाः संहता विचत्वारिंशद्भवन्ति ते च भिक्षादोषास्तैरदूषितमन्नमशनखाद्यखाद्यभेदमुपलक्षणत्वात्यानं सौवीरादि तथा रजोहरणमुखवस्त्रचोलपटपात्रादिस्थविर १८ Page #138 -------------------------------------------------------------------------- ________________ १३८ योगशास्त्रे कल्पिकयोग्यश्चतुर्दशविधो जिनकल्पिकयोग्यश्च हादशविधऔधिक उपधिः । आर्यिकायोग्यश्च पञ्चविंशतिविधः। औपग्रहिकश्च शय्यापीठफलकचर्मदण्डादिरुपलक्षणादेव परिगृह्यते । नह्यौधिकरजोहरणाद्यन्तरेण औपग्रहिकपीठफलकाद्यन्तरेण च वर्षासु हेमन्तग्रीष्मयोरपि जलकणिकाकुलायामनूपभूमौ महाव्रतसंरक्षणं कर्तुं क्षमम् । एतद्दोषविशुद्धमन्नादि यन्मुनिरादत्ते सा एषणमेषणा यथागममत्रादेरन्वेषणम् । अत्र “इषोऽनिच्छायाम्” ॥ ५ । ३ । ११२ ॥ इति स्त्रियामनस्तस्या च समितिरेषणासमितिः। इयं गवेषणारूपा एषणाग्रासैषणाप्यनयोरुपलक्ष्यते तस्यां च पञ्च दोषाः । तद्यथा संयोजना १ प्रमाणातिरिक्तता २ अङ्गारो ३ धूमः ४ कारणाभावश्च ५ तत्र रसलोभाव्यस्य मण्डकादेद्रव्यान्तरेण खण्डतादिना वसतर्बहिरन्तर्वा योजनं संयोजना ॥१॥ धृतिबलसंयमयोगा यावता न सीदन्ति तदाहारप्रमाणम् । अधिकाहारस्तु वमनाय मृत्यवे व्याधये चेति तं परिहरेदिति प्रमाणातिरिक्ततादोषः ॥२॥ स्वादन्न तहातारं वा प्रशंसन् यद्भुते सरागाग्निना चरित्रेन्धनस्याङ्गारीकरणादगारो दोषः ॥३॥ निन्दन् पुनश्चारित्रेन्धनं दहन् धूमकरणाङ्कमो दोषः ॥४॥ क्षुद्देदनाया असहनं क्षामस्य च वैयावृत्त्याकरणमीर्यासमितरविशुद्धिः प्रेक्षोत्प्रेक्षादेः संयमस्य चापालनं क्षुधातुरस्य प्रबलाग्न्युदयात्प्राणप्रहाणशङ्का 'प्रातरोट्रपरिहारेण (१) ख -द्यातरौद्रपरिहारेण । Page #139 -------------------------------------------------------------------------- ________________ .. प्रथमः प्रकाशः । १३८ धर्मध्यानस्थिरीकरणं चेति भोजनकारणानि तदभावे भुञ्जानस्य कारणाभावदोषः ॥ ५ ॥ यदाहउत्पादनोइमैषणाधमांगारप्रमाणकारणतः । संयोजनाच्च पिण्डं शोधयतामषणासमितिः ॥१॥ इति ॥ ३८ ॥ आदाननिक्षेपसमितिमाह आसनादीनि संवीक्ष्य प्रतिलिख्य च यत्नतः । गृह्णीयानिक्षिपदा यत्सादानसमितिः स्मृता ॥ ३६॥ आसनं विष्टर: आदिशब्दाहस्त्रपात्रफलकदण्डादेः परिग्रहः । तान्यासनादीनि संवीक्ष्य चक्षुषा प्रतिलिख्य रजोहरणादिना यत्नत इत्यु पयोगपूर्वकम् । अन्यथा सम्यक्प्रतिलेखना न स्यात् । यदाह'पडिलेहणं कुणंतो मिहो कहं कुणइ जणवयकहं वा। देड व पच्चक्वाणं वाएइ सयं पडिच्छ वा ॥ १ ॥ पुढवीआउकाएतेजवाजवणस्मइतसाणं । पडिलेहणापमत्तो छण्हंपि विराहगो भणिो ॥ २ ॥ (१) प्रतिलेखनां कुर्वन् मिथः कथां करोति जनपद कथां वा । दाति वा प्रत्याख्यानं वाचयति खयं प्रतीकृति वा॥ (२) पृथिव्यपकायतेजोवायुवनस्पतिनसानाम् । मतिलेखनाप्रमत्तः षणामपि विराधको भणितः ॥ Page #140 -------------------------------------------------------------------------- ________________ १४० योगशास्त्रे ___ यहीयादाददीत निक्षिपेत् स्थापयेत्संवीक्षितप्रतिलिखितभूमौ। सा आदाननिक्षेपसमितिः। भीमो भौमसेन इति 'न्यायादादानसमितिः ॥ ३८ ॥ उत्सर्गसमितिमाह - कफमूत्रमलप्रायं निर्जन्तुजगतीतले। यत्नाद्यदुत्सृजेत्याधुः सोत्सर्गसमितिर्भवेत् ॥४०॥ कफः श्लेष्मा मुखनासिकासञ्चारी मूत्रं प्रश्रवणं मलो विष्ठा प्रायग्रहणादन्यदपि परिष्ठापनायोग्यं वस्त्रपात्रभक्तपानादि गृह्यते । निर्जन्तुस्त्रसस्थावरजन्तुरहिता स्वयं च निर्जन्तुर्या जगतौ तस्यास्तलं स्थण्डिलमित्यर्थः । तत्र यत्नादुपयोगपूर्वकं यदुत्सृजेत्साधुः सोत्सर्गसमितिः । अथ गुप्तौनामवसरः ॥ ४० ॥ तत्र मनोगुप्तिमाहविमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तज्ज्ञैर्मनोगुप्तिरुदाहृता ॥ ४१ ॥ इह मनोगुप्तिस्त्रिधा । प्रातरौद्रध्यानानुबन्धिकल्पनाजालवियोगः प्रथमा। शास्त्रानुसारिणो परलोकसाधिका धम्मध्यानानुबन्धिनी माध्यस्थ्यपरिणतिईि तोया। कुशलाकुशलमनोवृत्तिनिरोधेन योगनिरोधावस्थाभाविन्यात्मारामता तोया। ता एतास्तिस्रोऽपि विशेषणत्रयेणाह। विमुक्तकल्पनाजालमिति समत्वे सुप्रतिष्ठितमिति आत्माराम मिति च एवंविधं मनो मनोगुप्तिः ॥ ४१ ॥ (१) ख च न्यायाच्चादानसमितिः । Page #141 -------------------------------------------------------------------------- ________________ १४१ प्रथमः प्रकाशः । १४१ वाग्गुप्तिमाहसंज्ञादिपरिहारेण यन्मौनस्यावलम्बनम् । वाग्वृत्तः संवृत्तिर्वा या सा वाग्गुप्तिरिहोच्यते॥४२॥ संज्ञा मुखनयनविकाराङ्गल्याच्छोटनादिका अर्थसूचिकाश्चेष्टाः आदिशब्दालोष्टक्षेपोटभावकासितहुङ्कत्तादौनि गृह्यन्ते। संज्ञादोनां यः परिहारस्तेन यन्मौनमभाषणं तस्यावलम्बनमभिग्रहः । संज्ञादिना हि प्रयोजनानि सूचयतो मौनं निष्फलमेवेत्येका वाग्गुप्तिः । वाचनप्रच्छनपृष्टव्याकरणादिषु लोकागमाविरोधेन मुखवस्त्रिकाच्छादितवक्त्रस्य भाषमाणस्यापि वाग्वृत्तः संवृत्तिर्वाखिनियन्त्रणं द्वितीया वाग्गुप्तिः । आभ्यां भेदाभ्यां वाग्गुप्तेः सर्वथा वाग्निरोधः सम्यम्भाषणं च स्वरूपं प्रतिपादितं भवति भाषासमिती तु सम्यग्वाक्प्रवृत्तिरेवेति वाग्गुप्तिभाषासमित्यो दः । यदाहु:समिओ नियमागुत्तो गुत्तो समियत्तणम्मि भयणिज्जो। कुसलवयमुईरंतो जं वइगुत्तोवि समिओवि ॥ १ ॥ अथ कायगुप्तिः सा च विधा चेष्टानिवृत्तिलक्षणा यथासूत्र चेष्टानियमलक्षणा च ॥ ४२ ॥ तत्राद्यामाहउपसर्गप्रसङ्गेऽपि कायोत्सर्गजुषो मुनेः । स्थिरीभाव: शरीरस्य कायगुप्तिर्निगद्यते ॥ ४३ ॥ उपसर्गा देवमानुषतियंकृता उपद्रवाः । उपलक्षणत्वात् क्षुत्पिपा Page #142 -------------------------------------------------------------------------- ________________ १४२ योगशास्त्र सादयः परोषहा अपि गृह्यन्ते तेषां प्रसङ्गः सन्निपातः। अपि शब्दात्तदभावेऽपि मुनेः साधोः कायः शरीरं तस्योत्सर्गस्त्यागस्तव निरपेक्षतालक्षणस्तं जुषते तत्तस्य कायोत्सर्गजुषो यः स्थिरीभावो निश्चलता योगनिरोधं कुर्वत: सर्वथा शरीरचेष्टापरिहारो वा यः सा कायगुप्तिः ॥ ४३ ॥ द्वितीयामाहशयनासननिक्षेपादानचंक्रमणेषु यः । स्थानेषु चेष्टानियमः कायगुप्तिस्तु सापरा ॥४४॥ शयनमागमोक्तो निद्राकालः स च रात्रावेव न दिवा। अन्यत्र ग्लानाध्ववान्तवृद्धादेः । तत्रापि प्रथमयामेऽतिक्रान्ते गुरूनापृच्छ्य प्रमाणयुक्तायां वसती संवीक्ष्य प्रमृज्य च भूमि संहत्यास्तीर्य च संस्तरणपट्टकहयमूर्द्धमधश्च कायं सपादं मुखवखिकारजोहरणाभ्यां प्रमृज्यानुज्ञापितसंस्तारकावस्थानः पठितपञ्चनमस्कारसामायिकसूत्रः कृतवामबाहपधान आकुञ्चितजानुकः कुक्कुटोवद्दियति प्रसारितजङ्घो वा प्रमार्जितक्षोणीतलन्यस्तचरणो वा भूयः सङ्कोचसमये प्रमार्जितसंदंशकः । उहर्तनकाले च मुखवस्त्रिकाप्रमृष्टकायो नात्यन्ततीव्रनिद्रः शयीत। प्रमाणयुक्ता तु वसतिहस्तत्रयप्रमिते भूप्रदेश प्रत्येक सभाजनानां साधनां यत्रावस्थानं सकलावकाशपूरणं च स्यात् । आसनमुपवेशनं तद्यत्र प्रदेश चिकीर्षितं तं चक्षुषा निरीक्ष्य प्रमृज्य च रजोहरणेन बहिर्निषद्यामास्तीर्योपविशेत् उपविष्टोऽप्याकुञ्चनप्रसारणादि तथैव कुर्बोत वर्षादिषु Page #143 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । १४३ च वृषीपीठादिषक्तयैव समाचार्योपविशेत् । निक्षेपादाने च दण्डाद्युपकरणविषये ते अपि प्रत्यवेक्ष्य प्रमृज्य च विधेये चंक्रमणं गमनं तदप्यावश्यकप्रयोजनवतः साधोः पुरस्ताद्युगमात्रप्रदेशसनिवेशितदृष्टेरप्रमत्तस्य बसस्थावरभूतानि संरक्षतोऽत्वरया पदन्यासमाचरतः प्रशस्तं स्थानमूईस्थितिलक्षणमवष्टम्भादि च प्रत्यवेक्षितप्रमार्जितप्रदेशविषयम् । एतेषु चेष्टानियमः स्वच्छन्द - चेष्टापरिहारो यः सा अपरा द्वितीया कायगुप्तिरिति ॥ ४४ ॥ एतासामागमप्रसिद्घ मातृत्वमुपदर्शयतिएताश्चारित्रगावस्य जननात्परिपालनात् । संशोधनाच्च साधूनां मातरोऽष्टौ प्रकीर्तिताः ॥४५॥ एताः संमितिगुप्तयः शास्त्रेऽष्टौ मातर इति प्रसिद्धाः। माढत्वे हेतूनाह। साधूनां सम्बन्धिचारित्रमेव गात्रमङ्ग तस्य जननादभूतस्य प्रादुर्भावनात् जनितस्य च चारित्रगात्रस्य परिपालनासर्वोपद्रवनिवारणेन पोषणेन च वृद्धिनयनात् चारित्रगावस्यैवातिचारमलिनस्य सत: संशोधनाविमलीकरणादिति ॥ ४५ ॥ चारित्रं व्याख्यायोपसंहरतिसर्वात्मना यतीन्द्राणामेतच्चारित्रमीरितम् । यतिधर्मानुरक्तानां देशतः स्यादगारिणाम् ॥४६॥ विधा चारित्रं सर्वदेशभेदात् । सर्वात्मना चारित्रं सर्वसावद्ययोगविरतिलक्षणम् । यतीन्द्राणामनगारिश्रेष्ठानामेतन्मूलगुणोत्तरगुण Page #144 -------------------------------------------------------------------------- ________________ १४४ योगशास्त्रे स्वरूपमीरितम् । धातूनामनेकार्थत्वात्प्रतिपादितम् । देशचारित्रं तु केषामित्याह । अगारिणां गृहस्थानां देशत एकदेशविरतिलक्षणम् । किं विशिष्टानामगारिणां यतिधम्मानुरतानां यतिधर्मे सर्वविरतिचारित्ररूप अनुरक्तानां संहननादिदोषादकुर्वतामपि प्रोतिमताम् । यदाह सर्वविरतिलालस: खलु देशविरतिपरिणामः यतिधर्मानुरागरहितानां तु गृहस्थानां देशविरतिरपि म सम्यगिति देशतः स्यादगारिणामित्युक्तम् । तत्र यादृशो गृहस्थो धर्माधिकारो तादृशमुपदर्शयितुं तथाहौत्यनेन प्रस्तावनामाह ॥ ४६ ॥ तथाहीत्युपदर्शने निपातसमुदाय: न्यायसम्पन्नविभवः शिष्टाचारप्रशंसकः । कुलशौलसमैः साई कृतोहाहोऽन्यगोत्रजैः ॥ ४७॥ पापभीरुः प्रसिद्धं च देशाचार समाचरन् । अवर्मवादी न क्वापि राजादिषु विशेषतः ॥४८॥ अनतिव्यक्त गुप्ते च स्थाने सुप्रातिवैश्मिके । अनेकनिर्गमहारविवर्जितनिकेतनः ॥ ४६ ॥ कृतसङ्गः सदाचारैर्मातापित्रोश्च पूजकः । । त्यजन्नुपप्लुतं स्थानमप्रवृत्तश्च गर्हिते ॥ ५० ॥ Page #145 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । १४५ व्ययमायोचितं कुर्वन् वेषं वित्तानुसारतः । अष्टभिर्धीगुणैर्युक्तः शृण्वानो धर्ममन्वहम् ॥ ५१॥ अजीर्णे भोजनत्यागी काले भोक्ता च साम्यतः । अन्योऽन्याप्रतिबन्धेन त्रिवर्गमपि साधयन् ॥ ५२ ॥ यथावदतिथौ साधौ दौने च प्रतिपत्तिकृत्। सदानभिनिविष्टश्च पक्षपाती गुणेषु च ॥ ५३ ॥ अदेशाकालयोश्चयां त्यजन् जानन् बलाबलम् । वृत्तस्थज्ञानवृद्धानां पूजकः पोष्यपोषकः ॥ ५४ ॥ दीर्घदर्शी विशेषज्ञः कृतज्ञो लोकवल्लभः । सलज्जः सदयः सौम्यः परोपकृतिकर्मठः ॥ ५५ ॥ अन्तरङ्गारिषड्वर्गपरिहारपरायणः । वशीकृतेन्द्रियग्रामो गृहिधमाय कल्पते ॥ ५६ ॥ (दशभिः कुलकम् ) स्वामिद्रोहमित्रद्रोहविश्वसितवञ्चनचौर्यादिगार्थोपार्जनपरिहारेणार्थोपार्जनोपायभूतः स्वस्ववर्णानुरूप: सदाचारी न्यायस्तेन सम्पन्न उत्पन्नो विभव: सम्पद्यस्य स तथा । न्यायसम्पनी हि विभव इहलोकहिताय । अशङ्कनीयतया स्वशरीरेण तत्फलभोगामित्रस्वजनादी संविभागकरणाच्च । १८ Page #146 -------------------------------------------------------------------------- ________________ ' : योगशास्त्रे यदाह- . सर्वत्र शुचयो धीराः स्वकम्मबलगविताः । कुकम्मनिहतात्मानः पापाः सर्वत्र शकिताः ॥ १ ॥ परलोकहिताय च सत्पात्रेषु विनियोगाहीनादौ कृपया वितरणाच्च । अन्यायोपात्तस्तु लोकदयेऽप्यहितायैव । इहलोके हि लोकविरुद्ध कारिणो वधबन्धादयो दोषाः परलोके नरकादिगमनादयः । यद्यपि कस्यचित्यापानुबन्धिपुण्यकर्मवशादैहिकलौकिको विपन्न दृश्यते तथाप्यायल्यामवश्यम्भाविन्येव । यदाह पापनवार्थरागान्धः फलमाप्नोति यत् क्वचित् । बडिशामिषवत्तत्तमविनाश्य न जौर्यति ॥ १ ॥ . न्याय एव परमार्थतोऽर्थोपार्जनोपायोपनिषत् । यदाह निपानमिव मण्डूका: सरः पूर्णमिवाण्डजाः । . शुभकर्माणमायान्ति विवशाः सर्वसम्पदः ॥ १ ॥ विभवत्त्वं च गार्हस्थ्ये प्रधानं कारणमित्यादौ न्यायसम्पन्नविभव इत्युक्तम् ॥ १ ॥ तथा शिष्टाचारप्रशंसकः शिष्यन्ते स्म शिष्टा वृत्तस्थज्ञानवृद्धसेवोपलब्धविशुद्धशिक्षाः पुरुषविशेषास्तेषामाचारचरितम् । यथा--- लोकापवादभीरुत्वं दीनाभ्युद्धरणादरः । कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्तितः ॥ १॥ इत्यादि । Page #147 -------------------------------------------------------------------------- ________________ . प्रथमः प्रकाशः । १४७ तस्य प्रशंसकः । यथा विपद्युच्चैः स्थैर्य पदमनुविधेयं च महतां प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । असन्तो नाभ्ययाः सुहृदपि न याच्यस्तनुधन: सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ १ ॥ २ ॥ तथा कुलं पिटपितामहादिपूर्वपुरुषवंशः शीलं मद्यमांसनिशाभोजनादिपरिहाररूपः समाचारस्ताभ्यां समास्तुल्याः समकुलशीला इत्यर्थः । गोत्रं नाम तथाविधैकपुरुषप्रभवो वंशस्तत्र जाता गोत्रजाः तेभ्यो ऽन्येऽन्यगोत्रजास्तैः साई क्कतोहाहो विहितविवाहः । अग्निदेवादिसाक्षिकं पाणिग्रहणं विवाहः । स च लोकेऽष्टविधः । तत्रालहत्य कन्यादानं ब्राह्मयो विवाहः १ विभवविनियोगेन कन्यादानं प्राजापत्यः २ गोमिथुनदानपूर्वकमार्ष: ३ यत्र यज्ञार्थमृविज: कन्याप्रदानमेव दक्षिणा स देवः ४ एते धम्मया विवाहाश्चत्वारः । मातुः पितुबन्धूनां चाप्रामाण्यात्परस्परानुरागण मिथः समवायाहान्धर्व: ५ पणबन्धेन कन्याप्रदानमासुरः ६ प्रसह्य कन्याग्रहणाद्राक्षसः ७ सुप्तप्रमत्तकन्याग्रहणात्पैशाचः ८। एते चत्वारोऽप्यधम्मपाः । यदि वधूवरयोः परस्परं रुचिरस्ति तदा अधम्ममा अपि धयाः । शुद्धकलन लाभफलो विवाहः। अशुद्धभार्यादियोगेन नरक एव । तत्फलं वधरक्षणमाचरतः सुजातमुतसन्ततिरनुपहता चित्तनिवृत्तिर्गृहकृत्यमुविहितत्वमाभिजात्याचारविशुद्धत्वं देवातिथिबान्धवसत्कारानवद्यत्वं Page #148 -------------------------------------------------------------------------- ________________ १४८ योगशास्त्रे चेति । वधूरक्षणोपायास्त्वेते । गृहकर्मविनियोगः १ परिमितोऽर्थसंयोगो २ ऽखातन्वाम् ३ सदा च मारतुल्यस्त्रीलोकावरोधन४ मिति ॥ ३ ॥ पापानि दृष्टादृष्टापायकारणानि कर्माणि तेभ्यो भौरुः । तत्र दृष्टापायकारणानि चौर्यपारदारिकत्वातरमणादीनि इहलोकेऽपि सकललोकप्रसिद्धविडम्बनास्थानानि । अदृष्टापायकारणानि मद्यमांससेवनादोनि शास्त्र निरूपितनरकादियातनाफलानि ॥ ४ ॥ प्रसिद्धः तथाविधापरशिष्टसम्मततया दूरं रूढिमागतः । देशाचारो भोजनाच्छादनादिचित्रक्रियात्मकः सकलमण्डलव्यवहारस्तं सम्यगाचरन् तदाचारातिलङ्घने हि तद्देशवासिजनतया विरोधसम्भावनादकल्याणलाभ: स्यात् ॥ ५ ॥ अवर्मोऽश्लाघा तं वदतीत्येवंशीलोऽवर्णवादी न क्वापि । जघन्योत्तममध्यमभेदेषु जन्तुषु परावर्णवादो हि बहुदोषः । यदाह परपरिभवपरिवादादात्मोत्कर्षाच्च बाते कम्म । नोचैर्गोत्रं प्रतिभवमने कभवकोटिदुर्मीचम् ॥ १ ॥ तदेवं सकलजनगोचरोऽप्यवर्क्सवादी न श्रेयान् । किं पुनाराजामात्य पुरोहितादिषु बहुजनमान्येषु। राजाद्यवर्णवादावि 'वित्तप्राणनाशनादिरपि दोषः स्यात् ॥ ६ ॥ (१) क ग छ वित्तप्राणनाशादिरपि। Page #149 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः। १४८ तथा अनेक बहु यनिर्गमहारं उपलक्षणत्वात्तदेव च प्रवेशद्वार तेन विवर्जितं निकेतनं यस्य स तथा । बहुषु हि निर्गमप्रवेशद्वारेष्वनुपलक्ष्यमाणनिर्गमप्रवेशानां दुष्टलोकानामापाते स्त्रीद्रविणादिविप्लव: स्यात् । अत्र चानक हारतायाः प्रतिषेधेन विधिराक्षिप्यते । तत: प्रतिनियतहारसुरक्षितग्रहो गृहस्थ: स्यादिति लभ्यते । तथाविधमपि निकेतनं स्थान एव निवेशयितुं युक्तं नास्थाने । स्थानं तु शल्यादिदोषरहितं बहुलदूर्वाप्रवालकुशस्तम्बप्रशस्तवर्ण गन्धमृत्तिकासुस्वादुजलोहमनिधानादिमच्च । स्थानगुणदोषपरिज्ञानं च शकुनस्वप्नोपश्रुतिप्रभृतिनिमित्तादिबलेन । स्थानमेव विशिनष्टि । अतिव्यक्तमतिप्रकटमतिगुप्तमतिप्रच्छन्न तनिषेधादनतिव्यक्त गुप्तम् । तत्र अतिव्यक्ते ह्यसन्निहितगृहान्तरतया परिपार्वतो निरावरणतया चौरादयोऽभिभवेयुः। अतिगुप्ते च सर्वतो गृहान्तनिरुवत्वान्न स्वशोभां लभते। प्रदीपनकाद्युपद्रवेषु च दुःखनिगमप्रवेशं गृहं भवति । पुनः कथंभूते स्थाने सुप्रातिवेश्मिके शोभनाः शोलादिसम्पन्नाः प्रातिवेश्मिका यत्र । कुशीलप्रातिवेश्मिकत्वे हि तदालापश्रवणतच्चेष्टादर्शनादिवशात् स्वतः सगुणस्यापि गुणहानि: स्यात् । दुष्पातिवेश्मिकास्त्वेते शास्त्रप्रतिषिद्धाः खरियातिरिक्वजोणोतालायरसमणमाहणसुसाणा। वग्गु रिप्रवाहगुम्मियहरिएसपुलिंदमच्छंधा ॥ १ ॥ ७ ॥ तथा कतः सङ्गो येन स कृतसङ्गः सन् शोभन आचार इहपरलोकहिता प्रवृत्तिर्येषां ते सदाचारास्तैनं तु कितवधूतविटभट्टभण्डनटादिभिस्तत्सङ्गे हि सदपि शीलं विलीयेत । Page #150 -------------------------------------------------------------------------- ________________ - योगशास्त्रे यदाह यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि । अथासज्जनगोष्ठीषु पतिथसि पतिष्यसि ॥ १ ॥ सङ्गः सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते । स सद्भिः सह कर्तव्यः सन्तः सङ्गस्य भेषजम् ॥ २ ॥ ॥ इति च ॥८॥ तथा माता जननी पिता जनकम्तयोः पूजकस्त्रिसन्ध्यं प्रणामकरणन परलोकहितानुष्ठाननियोजनेन सकलव्यापारेषु तदाजया प्रवृत्त्या वर्णगन्धादिप्रधानस्य पुष्यफलादिवस्तुन उपढौकनेन तद्भोगे भोगेन चात्रादीनामन्यत्र तदनुचितादिति माता च पिता च मातापितरौ “आइन्हे" ॥ ३ । २ । ३८ ॥ इत्यात्वं मातुश्चाभ्यर्हितत्वात्पूर्वनिपातः । यन्मनुः उपाध्याया दशाचार्य आचार्याणां शतं पिता। सहस्रं तु पितुर्माता गौरवेणातिरिच्यते ॥ १ ॥ ८ ॥ . तथा त्यजन् परिहरन् उपप्लुतं स्वचक्रपरचक्रविरोधाहुर्भिक्षमारीतिजनविरोधादेश्वावस्थीभूतं यत् स्थान प्रामनगरादि । अत्यज्यमाने हि तस्मिन् धम्मार्थकामानां पूर्वार्जितानां विनाशन नवानां चानुपार्जनेनोभयलोकभ्रंश एव स्यात् ॥ १० ॥ तथा गर्हितं देशजातिकुलापेक्षया निन्दितं कर्म तत्राप्रवृत्तः । देशगर्हितं यथा सौवीरेषु कषिकर्म । लाटेषु मद्यसन्धानम् । Page #151 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः ।.. १५१ जात्यपेक्षया यथा-. . ब्राह्मणस्य सुरापानं तिललवणादिविक्रयश्च । कुलापेक्षया यथा चौलुक्यानां मद्यपानम् । गर्हितकम्भकारिणो हि शेषमपि धर्म्य कर्मोपहासाय भवति ॥ ११॥ ___ तथा व्ययो भर्त्तव्यभरणस्वभोगदेवतातिथिपूजनादिप्रयोजने द्रव्यविनियोगः । प्रायः कषिपाशुपाल्यवाणिज्यसेवादिजनितो द्रव्यलाभ: तस्योचितमनुरूपं व्ययं कुर्वन् । यदाह'लाभोचियदाणे लाभोचियभोगे लाभोचियनिहिकरे सिया। आयोचितश्च व्ययश्चतुर्भागादितया कैश्चिदुच्यते । यदाह पादमायाविधिं कुर्यात्पादं वित्ताय खट्टयेत् । धर्मोपभोगयोः पादं पादं भर्त्तव्यपोषणे ॥ १ ॥ केचित्त्वाहुः. आयादई नियुञ्जीत धर्मे समधिकं ततः । शेषेण शेषं कुर्वीत यत्नतस्तुच्छमैहिकम् ॥ १ ॥ पायानुचितो हि व्ययो रोगमिव शरीरं कशीवत्य विभवसारमखिलव्यवहारासमर्थ पुरुषं कुर्वीत । (१) साभोचितदानं लाभोचितभोगो लाभोचितनिधिकरः स्यात् । . Page #152 -------------------------------------------------------------------------- ________________ १५२ योगशास्त्रे उताञ्च ... आयव्ययमनालोच्य यस्तु वैश्रवणायते । अचिरेणैव कालेन सोऽत्र वै श्रमणायते ॥ १ ॥ १२ ॥ तथा वेषो वस्त्रालङ्करणादिभोगः। वित्तं विभव उपलक्षणाहयोऽवस्थादेशकालजात्यादिग्रहः। तदनुसारेण तदानुरूप्येण कुर्वनिति सम्बद्यते । विभवाद्यननुसारेण वेषं कुर्वतो जनोपहसनीयतातुच्छत्वान्यायसम्भावनादयो दोषाः। अथवा व्ययमायोचितं कुर्वन्नेव वेषं वित्तानुसारेण कुळवेवेत्यपरोऽर्थः । यो हि सत्यप्याये कार्पण्याद् व्ययं न करोति सत्यपि वित्ते कुचेलत्वादिधर्मा भवति । स लोकगहितो धर्मेऽप्यनधिकारोति ॥ १३ ॥ तथा अष्टभिर्धीगुणैर्युक्त: धियो बुडेर्गुणाः शुश्रूषादयः । ते त्वमी शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा। जहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणा: ॥ १ ॥ तत्र शुश्रूषा श्रोतुमिच्छा । श्रवणमाकर्णनम् । ग्रहणं शास्त्रार्थोपादानम् । धारणमविस्मरणम् । अहो विज्ञातमर्थमवलम्बधान्येषु तथाविधेषु व्याप्त्या वितर्कणम् । अपोह उक्तियुक्तिभ्यां विरुद्धादर्थात् हिंसादिकात् प्रत्यपायसम्भावनया व्यावर्त्तनम् । अथवा अहः सामान्यज्ञानमपोहो विशेषज्ञानम् । अर्थविज्ञानमूहापोहयोगामोहसन्देह विपर्यासव्युदासेन ज्ञानम् । तत्त्वज्ञानमूहापोहविज्ञानविशुद्धमिदमित्थमेवेति निश्चयः । शुश्रूषादिभिर्हि उपाहितप्रज्ञा Page #153 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः । १५३ प्रकर्षः पुमाव कदाचिदकल्याणमाप्नोति। एते च बुद्धिगुणा यथासम्भवं द्रष्टव्याः ॥ १४ ॥ तथा शृखानस्ताच्छील्येन धर्ममभ्युदयनिःश्रेयसहेतुं शृण्वन् अन्वहं प्रतिदिनं धर्मश्रवणपरो हि 'मनःखेदापनोदादिकमानोति । यदाहकान्तमपोज्झति खेदं तप्तं निर्वाति बुद्दयते मूढम् । स्थिरतामेति व्याकुलमुपयुक्तसुभाषितं चेतः ॥ १ ॥ - प्रत्यहं धर्मश्रवणं चोत्तरोत्तरगुणप्रतिपत्तिसाधनत्वाप्रधानमिति श्रवणमात्राईद्विगुणादस्य भेदः ॥ १५ ॥ तथा अजीर्णे अजरणे पूर्वभोजनस्य अथवा अजीर्णे परिपाकमनागते पूर्वभोजने नवं भोजनं त्यजतीत्येवंशीलः। अजीर्णभोजने हि सर्वरोगमूलस्याजीर्णस्य वृद्धिरेव कता भवति । यदाह अजीर्ण प्रभवा रोगा इति । अजीणं च लिङ्गतो ज्ञातव्यम् । यदाह मलवातयोर्विगन्धी विड्भेदो गात्रगौरवमरुच्यम् । पविशुद्धश्चोहारः षडजीर्णव्यक्तलिङ्गानि ॥ १ ॥ १६ ॥ तथा काले बुभुक्षासमये भोक्ता अबाद्युपजीवकः । भोक्ते ति (१) ग छ मनःखेदायनोदनादिकं करोति । Page #154 -------------------------------------------------------------------------- ________________ १५४ __ योगशास्त्रे साधी टन् तेन लोल्यपरिहारेण यथाग्निबलं मितं भुञ्जौत । अतिरिक्तभोजनं हि वमनविरेचनमरणादिना न साधु भवति यो हि मितं भुङ्क्ते स बहु भुङ्क्ते । अक्षुधितेन ह्यमृतमपि मुक्तं भवति विषम् । तथा क्षुल्कालातिक्रमादब्रद्देषो देहसादन भवति। विध्यातेऽग्नौ किं नामेन्धनं कुर्यादिति । पानाहारादयो यस्याविरुद्धाः प्रकृतेरपि । मुखिवायावकल्पन्ते तत्मात्मामिति गीयते ॥ १ ॥ एवं लक्षणासात्मयात् आजन्म सामान भुक्तं विषमपि पथ्यं भवति। परमसात्मामपि पथ्यं सेवेत न पुनः सात्माप्राप्तमप्यपथ्यम् । सर्वं बलवतः पथ्यमिति मत्वा न कालकूटं खादेत् । सुशिक्षितोऽपि विषतन्त्र जो नियत एव कदाचिहिषात् ॥ १७ ॥ - तथा त्रिवर्गो धर्मार्थकामस्तत्र यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः । यतः सर्वप्रयोजनसिद्धिः सोऽर्थः। यत आभिमानिकरसानुविधा सर्वेन्द्रियप्रीतिः स कामः। ततोऽन्योऽन्यस्य परस्परं योऽप्रतिबन्धोऽनुपघातस्तेन त्रिवर्गमपि नत्वे कैकं साधयेत् । यदाह यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च । स लोहकारभस्त्रेव श्वसनपि न जीवति ॥ १ ॥ तत्र धर्मार्थयोरुपघातेन तादाविक विषयसुखलुब्धो वनगज इव को नाम न भवत्यास्पदमापदाम् । न च तस्य धनं धमः शरीरं वा यस्य कामेऽत्यन्तासक्तिः । धर्मकामातिक्रमानमुपाजितं परेऽनुभवन्ति स्वयं तु परं पापस्य भाजनं सिंह इव Page #155 -------------------------------------------------------------------------- ________________ प्रथम: प्रकाश: । १५५ सिन्धुरवधात् । अर्थकामातिक्रमेण च धम्मसेवा यतीनामेव धर्मो न एहस्थानाम् । न च धर्मबाधयाऽर्थकामौ सेवेत । बीजभोजिन: कुटुम्बिन इव नास्त्य धार्मिकस्यायत्यां किमपि कल्याणम् । स खलु सुखी योऽमुत्र सुखाविरोधेन इहलोकसुखमनुभवति। एवमर्थबाधया धर्मकामौ सेवमानस्य ऋणाधिकत्वम् । कामबाधया धर्मार्थों सेवमानस्य गार्हस्थ्याभावः स्यात् । एवं च तादात्विकमूलहरकदर्येषु धर्मार्थकामानामन्योऽन्यबाधा सुलभैव । तथाहि यः किमप्यसञ्चिन्त्योत्पन्नमर्थमपव्येति स तादात्विकः। यः पिटपैतामहमर्थमन्यायेन भक्षयति स मूलहरः । यो भृत्यात्म पोडाभ्यामर्थ सञ्चिनोति न तु क्वचिदपि व्ययते स कदयः। तत्र तादात्विकमूलहरयोरर्थभ्रंशेन धर्मकामयोर्विनाशानास्ति कल्याणं कदर्यस्य त्वऽर्थसंग्रहो राजदायादतस्कराणां निधिनतु धर्मकामयोर्हेतुरिति । अनेन च त्रिवर्गबाधा गृहस्थस्य कर्तुमनुचितेति प्रतिपादितम् । यदा तु दैववशाबाधा सम्भवति । तदोत्तरोत्तरबाधायां पूर्वस्य पूर्वस्य बाधा रक्षणीया। तथाहि कामबाधायां धर्मार्थयोर्बाधा रक्षणीया तयोः सतोः कामस्य सुकरोत्पादकत्वात् । कामार्थयोस्तु बाधायां धर्मो रक्षणीयः धर्ममूलत्वादर्थकामयोः । Page #156 -------------------------------------------------------------------------- ________________ १५६ योगशास्त्रे - उत्ताञ्च धर्मश्चेन्नावसौदेत कपालेनापि जीवतः । आव्योऽस्मीत्यवगन्तव्यं धर्मवित्ता हि साधवः ॥ १ ॥ १८ ॥ तथा न विद्यते सततप्रवृत्तातिविशदैकाकारानुष्ठानतया तिथ्यादिदिनविभागो यस्य सोऽतिथिः । यथोक्तम् तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥ १॥ . साधुः शिष्टाचाररत: सकललोकाऽवगीतः । दौनो दौड्च् क्षय इति वचनात् क्षीणसकलधम्मार्थकामाराधनशक्तिः तेषु प्रतिपत्तिक्कत् प्रतिपत्तिरुपचारोऽन्नपानादिरूपः। कथं यथावत् औचित्यानतिक्रमेण । यदाह औचित्यमेकमेकत्र गुणानां कोटिरेकतः । विषायते गुणग्राम औचित्यपरिवर्जितः ॥ १ ॥ १८ ॥ तथा अनभिनिविष्टोऽभिनिवेशरहितः । अभिनिवेशश्च नौतिपथमनागतस्यापि पराभिभवपरिणामेन कार्यस्यारम्भः । स च नीचानां भवति। यदाह दप्पः श्रमयति नीचानिष्फलनयविगुणदुष्करारम्भैः । श्रोतोविलोमतरण व्यसनिभिरायास्यते मत्स्यैः ॥ १ ॥ Page #157 -------------------------------------------------------------------------- ________________ १५७ अनभिनिविष्टत्त्वं च कादाचित्कं शाठ्यात्रीचानामपि सम्भव त्यत आह । सदेति ॥ २० ॥ तथा गुणेषु सौजन्यौदार्य दाचिण्य स्थैर्य प्रियपूर्व प्रथमाभिभाषगणादिषु स्वपरयोरुपकारकारणेष्वात्मधर्मेषु पक्षपाती । पक्षपातखु बहुमानतप्रशंसा साहाय्यकरणादिना अनुकूला प्रवृत्तिः । गुणपक्षपातिनो हि जीवा प्रवन्ध्यपुण्यबोजनिषेके मेहामुत्र च गुणग्रामसम्पदमारोहन्ति ॥ २१ ॥ तथा प्रतिषिद्धो देशोऽदेशः प्रतिषिद्धः कालोऽकालः तयोरदेशाकालयोश्चर्या चरणं तां त्यजन् परिहरन् प्रदेशकालचारी हि चौरादिभ्योऽवश्यमुपद्रवमाप्नोति ॥ २२ ॥ तथा जानन् विदन् बलं शक्तिं स्वस्य परस्य वा द्रव्यक्षेत्रकालभावकृतं सामर्थ्यम् । अबलमपि तथैव बलाबलपरिज्ञाने हि सर्वः सफल आरम्भः अन्यथा तु विपर्ययः । प्रथमः प्रकाशः । यदाह - स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनाम् । अयथाबलमारम्भो निदानं चयसम्पदः ॥ १ ॥ इति ॥ २३ ॥ तथा वृत्तमनाचारपरिहारः सम्यगाचारपरिपालनं च । तव तिष्ठन्तीति वृत्तस्था: । ज्ञानं हेयोपादेय वस्तु विनिश्चयस्तेन वृडा महान्तः । वृत्तस्थाश्च ते ज्ञानवृद्धाश्च तेषां पूजकः । पूजा च सेवाजल्यास नाभ्युत्थानादिलक्षणा | वृत्तस्थज्ञानवन्तो हि पूज्यमाना नियमात्कल्पतरव इव सदुपदेशादिफलैः फलन्ति ॥ २४ ॥ Page #158 -------------------------------------------------------------------------- ________________ १५८ . योगशास्त्रे - .: तथा पोथा अवश्यभर्त्तव्या माटपिटग्रहिण्यपत्यादयस्तान् योगक्षेमकरणन पोषयतीति पोषकः ॥ २५ ॥ .: तथा दीर्घकालभावित्वाहीर्घमर्थमनर्थं च पश्यति पर्यालोचयतीत्येवंशीलो दीर्घदर्शी ॥ २६ ॥ ..., तथा वस्त्ववस्तुनोः कत्याकत्ययोः स्वपरयोर्विशेषमन्तरं जानाति निश्चिनोतीति विशेषज्ञः । अविशेषज्ञो हि पुरुष: पशो तिरिच्यते । अथवा विशेषमात्मन एव गुणदोषाधिरोहलक्षणं जानातीति विशेषज्ञः । ...... । . यदाह- .. ... प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः । किं नु मे पशुभिस्तुल्यं किं नु सत्पुरुषैरिति ॥ १ ॥ २७॥ तथा कृतं परोपकतं जानाति न निगुते कृतज्ञः एवं हि तस्य कुशललाभो यदुपकारकारिणो बहु मन्यते कृतघ्नस्य तु निष्कृतिरेव नास्ति । यदाह कतने नास्ति निष्कृतिरिति ॥ २८ ॥ तथा लोकानां विशिष्ट जनानां विनयादिगुणैवल्लभः प्रियः । को हि गुणवतः प्रति प्रोतो न भवति । यस्तु न लोकवल्लभः स न केवलमात्मानं स्वस्य धर्मानुष्ठानमपि परैर्दूषयन् परेषां बोधिलाभ_शहेतुर्भवति ॥ २८ ॥ तथा लज्जा वैयात्याभावः सह लज्जया सलज्जः । लज्जावान् हि प्राणप्रहाणऽषि न प्रतिज्ञातमपजहाति । Page #159 -------------------------------------------------------------------------- ________________ यदाह प्रथमः प्रकाशः । लज्जां गुणौघजननीं जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्त्तमानाः । तेजखिनः सुखमसूनपि सन्त्यजन्ति १५८ सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ १ ॥ ३० ॥ तथा सह दयया दुःखितजन्तु दुःखत्राणाभिलाषेण वर्त्तत इति सदयः । धर्मस्य दया मूलमिति ह्यामनन्ति । तदवश्यं दयां कुर्वीत । यदाह • प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतानां दयां कुर्वीत मानव ॥ १ ॥ ३१ ॥ तथा सौम्योऽक्रूराकारः क्रूरो हि लोकस्योद्देगकारणम् ॥३२॥ तथा परोपकृतौ परोपकारे कर्मठः कम्मैशूरः कमाणि घटते "तत्र घटते कर्म्मणष्ठ: " ॥ ७ । १ । १३७ ॥ इति ठः परोपकारपरो हि पुमान् सर्वस्य नेत्रामृताञ्जनम् ॥ ३३ ॥ तथा अन्तरङ्गश्वासावरिषड्वर्गश्चान्तरङ्गारिषड्वर्ग स्तस्य परिहारोऽनासेवनं तत्र परायणस्तत्परः । तत्रायुक्तितः प्रयुक्ताः कामक्रोधलोभमानमदहर्षाः शिष्टग्टहस्थानामन्तरङ्गोऽरिषड्वर्गः । तत्त्र परपरिग्टहोताखनूढासु वा स्त्रीषु दुरभिसन्धिः कामः । परस्यात्मनो वा अपायमविचार्य कोपकरणं क्रोधः । दानार्हेषु स्वधनाप्रदानं निष्कारणं परधनग्रहणं च लोभः । दुरभिनिवेशारोही युक्तोक्ता Page #160 -------------------------------------------------------------------------- ________________ १६० योगशास्त्रे ग्रहणं वा मानः । कुलबलेखर्यरूपविद्यादिभिरहङ्कारकरणं परप्रधर्षनिबन्धनं वा मदः । निर्निमित्तं परदुःखोत्पादनेन स्वस्य धूतपापाद्यनर्थसंश्रयेण वा मनःप्रमोदो हर्षः। एतेषां च परिहार्यत्वमपायहेतुत्वात् । यदाह दाण्ड क्यो नाम भोजः कामाद्राह्मणकन्यामभिमन्यमानः सबन्धुराष्ट्रो विननाश करालश्च वैदेहः १ क्रोधाज्जनमेजयो ब्राह्मणेषु विक्रान्तस्तालजङ्घश्च भृगुषु २ लोभादैलश्चातुर्वर्ण्यमभ्या. हारयमाणः सौवीरश्चाजबिन्दुः ३ मानाद्रावण: परदारानप्रयच्छन् दुर्योधनी राज्यादद्मशं च ४ मदादम्भोद्भवो भूतावमानो हैहयश्चार्जुन: ५ हर्षाहातापिरगस्त्यमभ्यासादयन् वृष्णिसङ्घश्व हैपायन ६ मिति ॥ ३४ ॥ तथा वशीकत: स्वच्छन्दतां त्याजित इन्द्रियग्रामो हृषीकसमूहो येन स तथा । अत्यन्ताशक्तिपरिहारेण स्पर्शनादीन्द्रियविकारनिरोधकः। इन्द्रियजयो हि पुरुषाणां परमसम्पदे भवति । यदाह आपदां कथितः पन्या इन्द्रियाणामसंयमः । तज्जयः सम्पदा मार्गो येनेष्टं तेन गम्यताम् ॥ १ ॥ इन्द्रियाण्येव तत्सर्वं यत् स्वर्गनरकावुभौ । निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥ २ ॥ Page #161 -------------------------------------------------------------------------- ________________ प्रथमः प्रकाशः। १६१ सर्वथेन्द्रियनिरोधस्तु यतीनामेव धम्म इह तु श्रावकधर्मोचितएहस्थ स्वरूपमेवाधिकृतमित्येवमुक्तम् ॥ ३५ ॥ एवंविधगुणसमग्रो मनुष्यो ग्रहिधम्माय कल्पते अधिकतो भवतीति ॥ ५६ ॥ इति परमाहतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषत्रानि सञ्जातपट्टबन्धे श्रीयोगशास्त्रे __ खोपटं प्रथमप्रकाशविवरणम् । Page #162 --------------------------------------------------------------------------  Page #163 -------------------------------------------------------------------------- ________________ अर्हम् द्वितीयः प्रकाशः । हिमाय कल्पत इत्युक्त गृहिधम्मंश्च श्रावकधम्मः स च सम्यक्तमूलानि द्वादशव्रतानि तान्येवाह— सम्यक्तमूलानि पञ्चाणुव्रतानि गुणास्त्रयः । शिक्षापदानि चत्वारि व्रतानि गृहमेधिनाम् ॥ १॥ सम्यक्ङ्खं मूलं कारणं येषां तानि सम्यक्तमूलानि । अणूनि महाव्रतापेक्षया लघूनि व्रतानि अहिंसादीनि पञ्च एतानि मूलगुणाः । गुणास्त्रय उत्तरगुणरूपाः ते च गुणव्रतानि दिखतादीनि त्रीणि । शिक्षणं शिक्षा अभ्यास: शिक्षायै पदानि स्थानानि चत्वारि सामायिकादीनि प्रतिदिवसाभ्यसनीयानि तत एव गुणव्रतेभ्यो भेदः । गुणव्रतानि हि प्रायो यावज्जीविकानि । एवं द्वादशवतानि ग्टहमेधिनां श्रावकाणाम् ॥ १ ॥ सम्यक्तमूलानीत्युक्तं तत्र सम्यक्त्वं विभजति— या देवे देवताबुद्धिर्गुरौ च गुरुतामतिः । धर्मे च धर्म्मधीः शुद्धा सम्यक्तमिदमुच्यते ॥ २ ॥ या देवे गुरौ धर्मे च वक्ष्यमाणलक्षणे देवत्वगुरुत्वधर्मत्वबुद्धिरयमेव देवो गुरुर्ध इति निश्चयपूर्वा रुचिः श्रद्धानमिति यावत् शुद्दा अज्ञानसंशय विपर्यासनिराकरणेन निम्मेला सा सम्यक्तम् । यद्यपि Page #164 -------------------------------------------------------------------------- ________________ योगशास्त्र रुचिर्जिनोततत्त्वेष्विति यतिश्रावकाणां साधारणं सम्यक्त्वलक्षणमुक्तम् । तथापि ग्रहस्थानां देवगुरुधर्मेषु पूज्यत्वोपास्यत्वानुष्ठेयत्वलक्षणोपयोगवशाट् देवगुरुधम्मतत्त्वप्रतिपत्तिलक्षणं सम्यक्त्वं पुनरभिहितम् । ननु तत्त्वार्थरुचिलक्षणे सम्यत्वे देवगुरुधर्माणां क्व तत्त्वेऽन्तर्भावः । उच्यते देवा गुरुवश्च जीवतत्त्वे धर्मः शुभाशवे संवर चान्तर्भवति। सम्यक्त्वं च त्रिधा औपशमिकं क्षायोपशमिकं क्षायिक च। तत्रोपशमो भस्मच्छन्नाग्निवत् मिथ्यात्वमोहनीयस्यानन्तानु. बन्धिनां च क्रोधमानमायालोभानामनुदयावस्था। उपशम: प्रयोजनं प्रवर्तकमस्य औपशमिकं तच्चानादिमिथ्यादृष्टे: करण त्रय पूर्वकमान्तौहर्तिकं चतुर्गतिगतस्यापि जन्तीभवतीत्युक्तप्रायम् । यहा उपशमशेण्यारूढस्य भवति । यदाह 'उवसामगसे ढिगयस्म होइ उवसामियं तु सम्मत्तं जो वा अकयतिपुंजी अखवियमिच्छो लहइ मम्मं ॥ १ ॥ क्षयो मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां च उदितानां देशतो निर्मूलनाश: अनुदितानां चोपशमः । क्षयेण युक्त उपशमः क्षयोपशमः स प्रयोजनमस्य क्षायोपशमिकं तच्च सत्कम्मवेदनाद्देद कमप्युच्यते । औपशमिकं तु सल्क मवेदनारहितमित्यौपशमिक क्षायोपशमिकयो दः । (१) उपशमकश्रेणि गतस्य भवति औपशमिकं तु सम्यक्तम् । यो वाऽकृतत्रिपुञ्जश्च क्षपितमिथ्यो लभते सम्यक ॥ .. Page #165 -------------------------------------------------------------------------- ________________ यदाह - द्वितीयः प्रकाशः । 'वेएइ संतकम्मं खओवसमिएसु नाणुभावं सो उवसंतकसाओ उण वेएइ न संतकम्मं वि । एतस्य च स्थितिः षट्षष्टिः सागरोपमाणि साधिकानि । यदाह--- "दो वारे विजयाइ गयसस तिस्सच्चुए अहव ताई । अइरेगं नरभवियं नाणाजीवाण सव्वद्धं ॥ १ ॥ क्षयो मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां च निर्मूलनाशः । क्षयः प्रयोजनमस्य क्षायिकं तच्च साद्यनन्तम् । अत्र चान्तरश्लोकाः मूलं बोधिद्रुमस्यैतत् द्वारं पुण्यपुरस्य च । पोठं निर्वाणहर्म्यस्य निधानं सर्वसम्पदाम् ॥ १ ॥ गुणानामेक आधारो रत्नानामिव सागरः । पात्रं चारित्रवित्तस्य सम्यक्त्वं श्लाघ्यते न कैः ॥ २ ॥ अवतिष्ठेत नाज्ञानं जन्तौ सम्यक्त्ववासिते । प्रचारस्तमसः कीदृक् भुवने भानुभासिते ॥ ३ ॥ तिर्यग्नरकयोहर ह्ढा सम्यक्त्वमर्गला । देवमानवनिर्वाणसुखद्वारैककुञ्चिका ॥ ४ ॥ १६५ (१) वेदयति सत्कर्म क्षायोपशमिकेषु नानुभावं सः | उपशान्तकषायः पुनर्वेदयति न सत्कर्मापि ॥ (२) हौ वारान् विजयादिषु गतस्य त्रीणि अच्युतेऽथवा तानि । अतिरेकं नरभविकं नानाजीवानां सर्वाङ्गम् ॥ Page #166 -------------------------------------------------------------------------- ________________ योगशास्त्रे भवेदैमानिकोऽवश्यं जन्तुः सम्यक्त्रवासितः । यदि नोद्दान्तसम्यको बदायुर्वापि नो पुरा ॥ ५ ॥ अन्तर्मुहर्तमपि यः समुपास्य जन्तुः सम्यकरत्नममलं विजहाति सद्यः । बम्भुम्यते भवपथे सुचिरं न सोऽपि तविभ्रतश्विरतरं किमुदीरयामः ॥ ६ ॥ इति । विपक्षज्ञाने सति विवक्षितं सुज्ञानं भवतीति सम्यक्त्व विपक्ष मिथ्यात्वमाहअदेवे देवबुद्धिर्या गुरुधौरगुरौ च या । अधर्मे धर्मबुद्धिश्च मिथ्यात्वं तदिपर्ययात्.॥ ३ ॥ अदेवोऽगुरुरधम्मश्च वक्ष्यमाणलक्षणस्तत्र देवत्वगुरुत्वधर्मत्वप्रतिपत्तिलक्षणं मिथ्यात्वं तस्य लक्षणं तद्दिपर्ययादिति तस्य सम्यक्त्वस्य विपर्ययः तस्माडेतोः सम्यक्त्वविपर्ययरूपत्वादित्यर्थः तथा च इदमपि संग्रहीतं देवे अदेवत्वस्य गुरावगुरुत्वस्य धर्म अधम्मत्वस्य प्रतिपत्तिरिति। __ मिथ्यात्वं च पञ्चधा आभिग्रहिकमनाभिग्रहिकमाभिनिवेशिकं सांशयिकमनाभोगिकं च । तत्राभिग्रहिकं पाखण्डिनां स्वस्वशास्वनियन्त्रितविवेकालोकानां परपक्षप्रतिक्षेपदक्षाणां भवति ॥ १ ॥ अनाभिग्रहिकं तु प्राकृतलोकानां सर्वे देवा वन्दनीया न निन्दनीया एवं सर्वे गुरवः सर्वे धर्मा इति ॥ २ ॥ Page #167 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः। प्राभिनिवेशिकं जानतोऽपि यथास्थितं वस्तु दुरभिनिवेशलेशविप्लावितधियो जमालेरिव भवति ॥ ३ ॥ सायिकं देवगुरुधर्मेष्वयमयं वेति संशयानस्य भवति ॥ ४ ॥ अनाभोगिकं विचारशून्यस्यैकेन्द्रियादेर्वा विशेषविज्ञानविकलस्य भवति ॥ ५॥ यदाह'आभिग्गहियं 'अणभिग्गहं च तह अभिणिवेसियं चेव । संसइयमणाभोगं मिच्छत्तं पंचहा होइ ॥ १ ॥ अत्रान्तरलोकाः मिथ्यात्वं परमो रोगो मिथ्यात्वं परमं तमः। मिथ्यात्वं परमः शत्रुर्मिथ्यात्वं परमं विषम् ॥ १ ॥ जन्मन्येकन दुःखाय रोगो ध्वान्तं रिपुर्विषम् । अपि. जन्मसहस्रेषु मिथ्यात्वमचिकित्सितम् ॥ २ ॥ मिथ्यात्वेनालीढचित्ता नितान्तं तत्त्वातत्त्वं जानते नैव जीवाः । किं जात्यन्धाः कुत्रचिवस्तुजाते . रम्यारम्यव्यक्तिमासादयेयुः ॥ ३ ॥ (१) अाभियहिकमनभियहं च तथा चाभिनिवेशिकं चेव। सांथयिकमनाभोगं मिथ्यात्वं पञ्चधा भवति ॥ (२) क अणभिग्गहियं। Page #168 -------------------------------------------------------------------------- ________________ १६८ योगशास्त्रे देवादेवगुर्वगुरुधर्माधर्मेषु लक्षयितव्येषु देवलक्षणमाह - सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः ॥ ४ ॥ देवस्य देवत्वे चतुरोऽतिशयानाचक्षते विचक्षणाः । तद्यथा-- जानातिशयः१ अपायापगमातिशयः २ पूजातिशयः ३ वागतिशयश्च४ तत्र सर्वज्ञ इत्यनेन सकलजीवाजीवादितत्त्वज्ञतया ज्ञानातिशयमाह । नतु यथाहुविशृङ्खलवादिनः परे । सर्वं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ॥ १ ॥ दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । प्रमाणं दूरदर्शी चेदेतान् ग्टडातुपास्महे ॥ २ ॥ इति ॥ नहि विवक्षितस्यैकस्यापोष्टस्यार्थस्य ज्ञानमशेषार्थज्ञानमन्तरेण भवति। सर्वे हि भावा भावान्तरैः साधारणासाधारणरूपा 'इत्यशेषज्ञानमन्तरेण सा लक्षण्यवैलक्षण्याभ्यां नैकोऽपि जातो भवति। यदाहुः एको भावः सर्वथा येन दृष्टः सर्वे भावास्तत्त्वतस्तेन दृष्टाः । (१) क च इत्यशेषज्ञतामन्चरेण। Page #169 -------------------------------------------------------------------------- ________________ १६८ द्वितीयः प्रकाशः। सर्वे भावाः सर्वथा येन दृष्टाः ." एको भावस्तत्त्वतस्तेन दृष्टः ॥ १॥ जितरागादिदोष इत्यनेनापायापगमातिशयमाह तत्रेदं सर्वजनप्रतीतम् । यथा सन्ति रागहेषादयः । ते च दोषास्तरात्मनो दूषणात् । ते च जिताः प्रतिपक्षसेवनादिभिर्भगवतेति जितरागादिदोष इत्युक्तम् । सदा रागादिरहित एव कश्चित्पुरुषविशेषोऽस्तीति तु वार्तामात्रम् । अजितरागादेश्चास्मदादिवत्र देवत्वमिति । बैलोक्यपूजित इत्यनेन पूजातिशयमाह। कतिपयप्रतारितमुग्धबुद्धिपूजायां हि न देवत्वं स्यात्। यदा तु चलितासनैः सुरासुरैर्नानादेशभाषाव्यवहारविसंस्थुलैर्मनुष्यः परस्परनिरुद्धवरैः सख्यमुपागतैस्तियग्भिश्च समवसरणभूमिमभिपतद्भिरहमहमिकया सेवाञ्जलिंपूजागुणस्तोत्रधर्मदेशनामृतरसास्वादादिभिः पूज्यते भगवान् तदा देवत्वमिति । यथास्थितार्थवादीत्यनेन वागतिशयः • यथास्थितं सद्भूतमथं वदतीत्येवंशौलो यथास्थितार्थवादी। यदाचक्ष्महि स्तुती अपक्षपातेन परोक्षमाणा वयं हयस्याप्रतिमं प्रतीमः । यथास्थितार्थप्रथनं तवैतदस्थाननिबन्धरसं परेषाम् ॥ १ ॥ यथा वा क्षिप्येत वाऽन्यैः सदृशोक्रियेत वा तवांङ्गिपीठे लुठनं सुरेशितुः । इदं यथावस्थितवस्तुदेशनं परैः कथङ्कारमपाकरिष्यते ॥ २ ॥ देव इति लक्ष्यपदं दीव्यते स्तूयते इति देव: स च सामा. दर्हन् परमेखरो नान्यः ॥ ४ ॥ Page #170 -------------------------------------------------------------------------- ________________ १७० - योगशास्त्रे चतुरतिशयवतो देवस्य ध्यानोपासनशरणगमनशासनप्रतिपत्तीः साधिक्षेपमुपदिशतिध्यातव्योऽयमुपास्योऽयमयं शरण मिष्यताम् । अस्यैव प्रतिपत्तव्यं शासनं चेतनास्ति चेत् ॥ ५ ॥ अयं देवो ध्यातव्यः पिण्डस्थपदस्थरूपस्थरूपातीतरूपतया श्रेणिकेनेव । श्रेणिको हि वर्णप्रमाणसंस्थानसंहननदतुस्त्रिंशदतिशयादियोगिनं भगवन्तं श्रीमहावीरमनुध्यातवान् । तदनुभावाच्च तहणप्रमाणसंस्थानसंहननातिशययुक्तः पद्मनाभस्तीर्थकरो भविष्यति । यदाचक्ष्महि'तह तम्मएण मणमा वीरजिणो झाइयो तए पुब्बिं । जह तारिसो च्चिय तुमं अहेसि ही जोगमाहप्पं ॥ १ ॥ आगमश्च जस्सौलसमायारो अरिहा तित्थंकरो महावीरो। . तम्सौलसमायारो होहि हु अरिहा महापउमो ॥ २ ॥ उपास्यः सेवाञ्जलिसंबन्धादिना अयमेव देव: दुष्कृतगर्हासुक्कतानुमोदनापूर्वकमयमेव देवो भवभयातिभेदी शरणमिष्यताम्। अस्यैवोतलक्षणस्य देवस्य शासनमाज्ञा प्रतिपत्तव्यं स्वीकरणीयम् । (१) तथा तन्मयेन मनसा वीरजिनो ध्यातस्त्वया पूर्वम । ___ यथा तादृश एव त्वमासी. ही योगमाहात्मयम् ॥ (२) यच्छोलसमाचारो अर्हन् तीर्थंकरो महावीरः । तच्छोलसमाचारो भविष्यति खलु अहन् महापद्मः ॥ Page #171 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः | शासनान्तराणि हि निरतिशयपुरुषप्रणेटकाणि न प्रतिपत्तियोग्यानि | चेतनास्ति चेदित्यधिक्षेपः चेतनावत एव प्रत्युपदेशस्य सफलत्वात् । अचेतनं तु प्रति विफल उपदेशप्रयासः । यदाह - १७१ अरण्यरुदितं क्वतं शबशरीरमुद्दर्त्तितं खपुच्छमवनामितं बधिरकर्णजापकृतः । स्थले कमलरोपणं सुचिरमूषरे वर्षणं तदन्धमुखमण्डनं यदबुधे जने भाषितम् ॥ १ ॥ ५ ॥ अदेवलक्षणमाह ये स्वस्वाच सूवादिरागाद्यङ्ककलङ्किताः । निग्रहानुग्रहपरास्ते देवा: स्युर्न मुक्तये ॥ ६ ॥ स्त्री कामिनी शस्त्रं शूलादि अक्षसूत्रं जपमाला तान्यादौ येषां नाट्याट्टहासादौनां ते स्त्रीशस्त्राक्षसूत्रादयः राग आदिर्येषां ते रागादयः आदिशब्दाद द्वेषमोहपरिग्रहः रागादीनामङ्काचिह्नानि स्त्रीशस्त्राक्षसूत्रादयश्च ते रागाद्यङ्काश्च तैः कलङ्गिता दूषितास्तत्र स्त्री रागचिह्नं शस्त्रं द्वेषचिह्नं अतसूचं मोहचिह्नम् । वीतरागो हि नाङ्गनासङ्गभाग्भवति । वीतद्वेषो वा कथं शस्त्रं बिभृयात् । गतमोहो वा कथं विस्मृतिचिह्न जपमालां परिगृह्णीयात् । रागद्देषमोहैः सर्वदोषाः संग्टहीतास्तन्मूलत्वात्सर्वदोषाणाम् । निग्रहो वधबन्धादिः अनुग्रहो वरप्रदानादिः तौ परौ प्रकृष्टौ येषां ते तथा । निग्रहानुग्रहावपि रागद्वेषयोश्विई । य एवंविधास्ते देवा न भवन्ति मुक्तये Page #172 -------------------------------------------------------------------------- ________________ १७२ योगशास्त्रे इति मुक्ति निमित्तम् । देवत्वमात्रं तु क्रीडनादिकारिणां प्रेतपिशाचादीनामिव न वार्यते ॥ ६ ॥ मुक्ति निमित्तत्वाभावमेव व्यनक्तिनाट्याट्टहाससङ्गीताद्युपप्लवविसंस्थुलाः । लम्भयेयुः पदं शान्तं प्रपन्नान् प्राणिनः कथम् ॥७॥ इहसकलसांसारिकोपप्लवरहितं शान्तं पदं मुक्तिकैवल्यादिशब्दाभिधेयमस्तीत्यत्र नास्ति विप्रतिपत्तिः । तत्तादृशं शान्तं पदं नाट्याट्टहाससङ्गीतादिविसंस्थुलाः स्वयमुपहतवृत्तयः कथमाश्रितजनान् प्रापयेयुः। नोरण्डतरः कल्पतरुलीलामुद्दहति। ततथ रागद्देषमोहदोषविवज्जितो जिन एको देवो मुक्तये नेतरे दोषदूषिताः । अत्रान्तरलोका:-- न सर्वज्ञा न नीरागाः शङ्करब्रह्मविष्णवः । प्राकतेभ्यो मनुष्येभ्यो ऽप्यसमञ्जसत्तितः ॥ १ ॥ स्त्रीसङ्गः काममाचष्टे हेषं चायुधसंग्रहः । व्यामोहं चाक्षसूत्रादिरशौचं च कमण्डलुः ॥ २ ॥ गौरी रुद्रस्य सावित्री ब्रह्मण: श्रीर्मुरहिषः । शचीन्द्रस्य रवे रत्नादेवी दक्षात्मजा विधीः ॥ ३ ॥ तारा वृहस्पतेः स्वाहा वङ्गेश्चेतोभुवो रतिः । धूमोर्णा शाहदेवस्य दारा एवं दिवौकसाम् ॥ ४ ॥ Page #173 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः। सर्वेषां शस्त्रसम्बन्धः सर्वेषां मोहजृम्भितम् । तदेवं देवसन्दोहो न देवपदवी स्पृशेत् ॥ ५ ॥ बुद्धस्यापि न देवत्वं मोहाच्छून्याभिधायिनः । प्रमाणसिद्धे शून्यत्वे शून्यवादकथा वृथा ॥ ६ ॥ प्रमाणस्यैव सत्त्वेन न प्रमाण विवर्जिता। शून्य सिद्धिः परस्यापि न स्वपक्षस्थितिः कथम् ॥ ७ ॥ सर्वथा सर्वभावेषु क्षणिकत्वे प्रतिश्रुते । फलेन सह सम्बन्धः साधकस्य कथं भवेत् ॥ ८॥ वधस्य वधको हेतुः कथं क्षणिकवादिनः । स्मृतिश्च 'प्रत्यभिज्ञा च व्यवहारकरी कथम् ॥ ८॥ निपत्य ददतो व्याघ्रधाः स्वकायं कमिसङ्गुलम् । देयादेयविमूढस्य दया बुद्धस्य कीदृशी ॥ १० ॥ स्वजन्मकाल एवात्मजनन्युदरदारिण: । मांसोपदेशदातुश्च कथं शौद्धोदनेदया ॥ ११ ॥ यो ज्ञानं प्रकर्तईम्भे भाषते स्म निरर्थकम् । निर्गुणो निष्क्रियो मूढः स देव: कपिलः कथम् ॥ १२ ॥ प्रार्याविनायकस्कन्दसमीरणपुरस्मराः । निगद्यन्ते कथं देवाः सर्वदोषनिकेतनम् ॥ १३ ॥ या पशYथमश्नाति वपुत्त्रं च वृषस्यति । शृङ्गादिभिर्भूती जन्तून् सा वन्द्यास्तु कथं नु गौः ॥ १४ ॥ (१) क प्रत्यभिज्ञातव्यवहारकरी कथम् । Page #174 -------------------------------------------------------------------------- ________________ योगशास्त्र पयःप्रदानसामर्थ्याद्दन्या चेन्महिषो न किम् । विशेषो दृश्यते नास्यां महिषीती मनागपि ॥ १५ ॥ स्थानं तीर्थ देवानां सर्वेषामपि गौर्यदि । विक्रीयते दुह्यते च हन्यते च कथं ततः ॥ १६ ॥ मुसलोदूखले चुल्लो देहलो पिप्पलो जलम् । निम्बोऽर्कश्वापि यैः प्रोक्ता देवास्तैः केऽत्र वर्जिताः ॥ १७ ॥ वौतरागस्तोत्रेऽप्युक्तमस्माभिः । १७४ कृतार्थ जठरोपस्थदुस्थितैरपि देवतेः । भवादृशात्रिनुवते हहा देवास्तिकाः परे ॥ १८ ॥ ७ ॥ गुरुलक्षणमाह महाव्रतधरा धौरा भैक्षमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥ ८ ॥ महाव्रतानि अहिंसादीनि तानि धरन्तीति महाव्रतधराः । महाव्रतधारित्व एवायं हेतुः धोरा इति धैर्यं ह्यापत्स्वप्यवैक्लव्यं तद्योगाडि अखण्डितमहाव्रतधरा भवन्ति । मूलगुणधारित्वमुक्ता उत्तरगुणधारित्वमाह । भैक्षमात्रोपजीविन इति भिक्षाणां समूहो भेक्षं अन्नपानधर्मोपकरणरूपं तन्मात्रमेवोपजीवन्ति लोकान्त्र पुनईनधान्यहिरण्यग्रामनगरादि । मूलगुणोत्तरगुणधारणकारणभूतगुणवत्त्वमाह । सामायिकस्था इति समो रागद्वेषविकल आत्मा समस्य आयो विशिष्टज्ञानादिगुणलाभः । समायः स एव सामायिकं Page #175 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । १७५ विनयादित्वादिकण् तत्र तिष्ठन्तौति सामायिकस्थाः । सामायिकस्थो हि मूलगुणोत्तरगुणभेदभिवं चारित्रं पालयितुं क्षमः । एतद्यतिमात्रसाधारणलक्षणम् । गुरीस्तु असाधारणलक्षणं धर्मोपदेशका इति धर्म संवरनिर्जरारूपं यतिश्रावकसम्बन्धिभेदभिन्न वा उपदिशन्तीति धर्मोपदेशकाः । यदुक्तमस्माभिरभिधानचिन्तामणी गुरुधर्मोपदेशक इति गृणन्ति सद्भूतं शास्त्रार्थमिति गुरवः ॥ ८॥ अगुरुलक्षणमाह सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥ ६ ॥ . सर्वमुपदेश्यसम्बन्धिस्त्रीधनधान्यहिरण्यक्षेत्रवास्तुचतुष्पदाधभिलषन्तीत्येवंशोलाः सर्वाभिलाषिणः । तथा सर्व मद्यमधुमासानन्तकायादि भुञ्जत इत्येवंशीलाः सर्वभोजिनः। सह परिग्रहेण पुत्रकलत्रादिना वर्तन्ते सपरिग्रहाः। अत एवाब्रह्मचारिण: अब्रह्मणो महादोषतां कथयितुमब्रह्मचारिण इति पृथगुपन्यासः । अगुरुत्वे असाधारणं कारणमाह। मिष्योपदेशा इति । मिथ्या वितथ प्राप्तोपज्ञोपदेशरहितत्वादुपदेशो धर्मदेशनं येषां ते तथा । न तु नैव एवंविधा गुरव इति। ननु धर्मोपदेशदायित्वं चेदस्ति तदास्तु गुरुत्वं किं निष्परिग्रहित्वादिगुणगवेषणेन ॥ ८ ॥ Page #176 -------------------------------------------------------------------------- ________________ १७६ योगशास्त्रे इत्याह परिग्रहारम्भमग्नास्तारयेयुः कथं परान् । स्वयं दरिद्रो न परमौश्वरौकर्त्तुमीश्वरः ॥ १० ॥ परिग्रहस्त्यादिरारम्भो जन्तुहिंसानिबन्धनं सर्वाभिलाषित्व सर्वभोजित्वादिः । ताभ्यां मग्ना भवाब्धौ ब्रुडिताः कथं परानुपदेश्यान् भवाम्भोधेस्तारयेयुस्तारणममर्थाः स्युः । साधकं दृष्टान्तमाह स्वयमित्यादि स्पष्टम् ॥ १० ॥ यदाह धम्मलक्षणमाह दुर्गतिप्रपतत्प्राणिधारणाधर्म उच्यते । संयमादिर्दशविधः सर्व्वज्ञोक्तो विमुक्तये ॥ ११ ॥ दुर्गतौ नरकतिर्यग्लक्षणायां प्रपतन्तो ये प्राणिनस्तेषां धारणातोर्धर्म उच्यते । धर्मशब्दार्थोऽयं इदमेव च लक्षणं धम्मंस्य । धत्ते वा नरसुरमोक्षस्थानेषु जन्तूनिति निरुक्ताम्मैः । दुर्गतिप्रसृतान् जन्तून् यस्माष्वारयते ततः । धन्ते चैतान् शुभे स्थाने तस्माजम्मं इति स्मृतः ॥ १ ॥ स तु वक्ष्यमाणैः संयमादिभिर्भेदैर्दशधा । सर्वज्ञोक्तत्वाद्दिमुक्तये भवति । देवतान्तरप्रणीतस्त्व सर्वज्ञवक्तृकत्वान्न प्रमाणम् । ननु सर्वज्ञोक्तत्वाभावेऽप्यपौरुषेयवचनोपज्ञस्य धर्मस्य प्रामाणिकत्वमस्तु । Page #177 -------------------------------------------------------------------------- ________________ हितीयः प्रकाश: । यदाह- . . चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं स्थूलं व्यवहितं विप्रकष्टमेवं जातीयकमर्थमवगमयितुं शक्नोति नान्यत्किञ्चनेन्द्रिय. मिति । चोदना च अपौरुषेयत्वेन पुरुषगतानां दोषाणामप्रवेशात् प्रमाणमेव । यदाह शब्दे दोषोद्भवस्तावहनधीन इति स्थितम् । तदभावः क्वचित्तावगुणवक्त कत्वतः ॥ १ ॥ तद्गुणैरपक्कष्टानां शब्द संक्रान्त्यसम्भवात् । .. यहा वनुरभावेन न स्युर्दोषा निराश्रयाः ॥ २ ॥ किच्च दोषाः सन्ति न सन्तौति पौरुषेयेषु युज्यते । वेदे कर्तरभावाच्च दोषाशकैव नास्ति नः ॥ ३ ॥११॥ इत्याहअपौरुषेयं वचनमसम्भवि भवेद्यदि । न प्रमाणं भवेदाचां ह्यालाधौना प्रमाणता ॥ १२॥ पुरुषेण कृतं पौरुषेयं तप्रतिषेधादपौरुषेयम् । उच्यते स्थानकरणाभिघातपूर्वकं पुरुषण प्रतिपाद्यत इति वचनम् । तदिदं परस्परविरुद्धम् । अपौरुषेयं वचनं चेति । तदेवाह । असम्भव न ह्यस्ति सम्भवो वचनस्य त्रसरेणोरिवाकाशे। न चामूर्तस्य २३ Page #178 -------------------------------------------------------------------------- ________________ १७८ योगशास्त्रे सतोऽप्यदर्शनमिति वक्तुं युक्तं प्रमाणाभावात् । अभिव्यञ्जकवशाच्छन्दश्रवणमेव प्रमाणमिति चेत् न। तस्य जन्यत्वेऽप्युपपत्तेः । अभिव्यङ्ग्यत्वे प्रत्युत दोषसम्भवः । एकशब्दाभिव्यक्त्यर्थ स्थानकरणा-, भिघाते शब्दान्तराणामपि तद्देश्यानामभिव्यक्तिप्रसङ्गः। न च प्रतिनियतव्यञ्जकव्यङ्गयता शब्दानां भवति व्यङ्गयान्तरेषु तददर्शनात् । तथाच रहे दधिघटीं द्रष्टुमाहितो रहमधिना । अपूपानपि तद्देश्यान् प्रकाशयति दीपकः ॥ १ ॥ तदेवं वचनस्यापौरुषेयता न सम्भवति। अथाप्यप्रामाणिकहेवाकबलादाकाशादिवच्छब्दस्यापौरुषेयता यदि भवेत् तथापि प्रामाण्यं न सम्भवति। हि यस्मादाप्तवक्तृकत्वेन वाचां प्रामाण्यं नान्यथा । यत: शब्दे गुणोद्भवस्तावद्दत्रधीन इति स्थितम् । तदभावः कचित्तावहोषवद्दतकत्वतः ॥ १ ॥ तहोषैरपक्वष्टानां शब्दे संक्रान्त्यसम्भवात् । यहा वक्तुरभावेन गुणा न स्युनिराश्रयाः ॥ २ ॥ किच्च गुणाः सन्ति न सन्तीति पौरुषेयेषु युज्यते । वेटे कर्तुरभावाच्च गुणाशङ्खव नास्ति नः ॥ ३ ॥ १२ ॥ Page #179 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाश: । एवं तावदपौरुषेयवचनाभिहितस्यासम्भवादिना । अभावमभिधायासर्वज्ञपुरुषवक्तृकस्य धम्मस्याप्रामाणिकत्वमाह मिथ्यादृष्टिभिरामातो हिंसाद्यैः कलुषीकृतः । . स धर्म इति वित्तोऽपि भवभ्रमणकारणम् ॥१३॥ मियादृष्टिभिर्हरिहरहिरण्यगर्भकपिलबुद्धादिभिराम्नात आत्मोपज्ञतया प्रतिपादितः । यत्तदोनित्याभिसम्बन्धाद्यो मिथ्यादृष्टिभिरामातः स धर्मत्वेन मुग्धबुद्धीनां प्रसिद्धोऽपि भवनमणकारणमधर्म एवेत्यर्थः । कुत इत्याह । हिंसाद्यैः कलुषोलत इति । मिथ्यादृष्टिप्रणीता ह्यागमा हिंसादिदोषदूषिताः ॥ १३ ॥ इदानीमदेवागुर्वधर्माणां साक्षेपं प्रतिक्षेपमाह सरागोऽपि हि देवश्चेद् गुरुरब्रह्मचार्यपि । कृपाहीनोऽपि धर्मः स्यात्कष्टं नष्टं हहा जगत् ॥१४॥ रागग्रहणमुपलक्षणं देषमोहयोः । अब्रह्मचारित्वमुपलक्षणं प्राणातिपातादीनाम् । कपाहीनत्वमुपलक्षणं मूलीत्तरगुणहीनत्वस्य । चेच्छन्दः प्रत्येकमभिसम्बध्यते। आक्षेपं प्रकटयति। कष्टमिति खेदे नष्टं जगत् देवगुरुधर्मशून्यत्वेन विनष्टं दुर्गतिगमनात् । हहा निपातः खेदातिशयसूचकः । Page #180 -------------------------------------------------------------------------- ________________ १८० योगशास्त्र यदाह 'रागी देवो दोसी देवो मामि सुन्नपि देवो मज्जे धम्मो मंसे धम्मो जीवहिंसाइ धम्मो । रत्ता मत्ता कन्तासत्ता जे गुरू तेवि पुज्जा हाहा कहुं नहो लोओ अट्टम कुणंतो ॥ १ ॥ तदेवमदेवागुर्वधर्मपरिहारण देवगुरुधर्मप्रतिपत्तिलक्षणं सम्यक्त्वं सुव्यवस्थितम् । तच्च शुभात्मपरिणामरूपमस्मदादीनामप्रत्यक्ष केवलं लिङ्गैलक्ष्यते ॥ १४ ॥ तान्येवाह-- शमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षणैः । .. लक्षणैः पञ्चभिः सम्यक् सम्यक्तमुपलक्ष्यते ॥१५॥ पञ्चभिलक्षणैर्लिङ्गैः परस्थं परोक्षमपि सम्यक्त्वं सम्यगुपलक्ष्यते । लिङ्गानि तु शमसंवेगनिर्वेदानुकम्पास्तिक्यस्वरूपाणि । शमः प्रशमः क्रूराणामनन्तानुबन्धिनां कषायाणामनुदयः । स च प्रकृत्या वा कषायपरिणते: कटुफलावलोकनाद्दा भवति । (१) रागी देवो दोषी देवो सखे शून्योऽपि देवः मद्ये धर्मो मांसे धर्मः जीवहिंसायां धर्मः । रक्ता मत्ताः कान्तासना ये गुरवः तेऽपि पूज्याः हाहा कष्टं नष्टो लोको अट्टमट्ट कुर्वन् ॥ Page #181 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । १८१ यदाह'पईईए कम्माणं नाऊणं वा विवागमसुहंति । . अवरडेवि न कुप्पइ उवसमो सव्वकालंपि ॥ १ ॥ अन्ये तु क्रोधकण्डूविषयष्णोपशम: शम इत्याहुः अधिगत सम्यग्दर्शनो हि साधूपासनावान् कथं क्रोधकण्डा विषयटष्णया च तरलोक्रियेत। ननु क्रोधकण्डूविषयवृष्णोपशमश्चेच्छमस्तहि कृष्ण श्रेणिकादीनां सापराधे निरपराधेऽपि च परे क्रोधवतां विषयष्णातरलितमनसां च कथं शमः । तदभावे च सम्यकं न गम्येत । नैवम्। लिङ्गिनि सम्यक्ते सति लिङ्गैरवश्यभाव्यमिति नायं नियमः। दृश्यते हि धूमरहितोऽप्ययस्कारग्रहेषु वहि: भस्मच्छवस्य वा वर्न धूमलेशोपीति अयं तु नियमः सुपरीक्षिते लिङ्गे सति लिङ्गी भवत्येव । यदाह लिङ्गे लिङ्गी भवत्येव लिङ्गिन्येवेतरत्युनः । नियमस्य विपर्यासे सम्बन्धो लिङ्गलिङ्गिनोः ॥ १ ॥ सङ्घलनकषायोदयाहा कृष्णादीनां क्रोधकण्डूविषयटष्णे सञ्जुलना अपि केचन कषायास्तोव्रतया अनन्तानुबन्धिसदृशविपाकवन्त इति सर्वमवदातम् । संवेगो मोक्षाभिलाषः । सम्यग् (१) प्रकृत्याः कर्मणां ज्ञात्वा वा विपाकमशुभमिति । अपराधेऽपि न कुप्यति उपशमतः सर्वकालमपि ॥ (२) क छ प्रशमः । Page #182 -------------------------------------------------------------------------- ________________ १८२ योगशास्त्रे दृष्टिहिं नरेन्द्रसुरेन्द्राणां विषयसुखानि दुःखानुषङ्गाहुःखतया मन्यमानो मोक्षसुखमेव सुखत्वेन मन्यते अभिलषति च । यदाह 'नरविबुहेसरसोक्वं' दुक्वं चिय भावो अ मन्वंतो। संवेगो न मोक्ख' मोत्तूणं किंचि पच्छेइ ॥ १ ॥ निर्वेदो भववैराग्यम् । सम्यग्दर्शनी हि दुःखदौर्गत्यगहने भवकारागारे कर्मदण्डपाशिकैस्तथातथाकदर्यमान: प्रतिक मक्षमो ममत्वरहितश्च दुःखेन निर्विमो भवति । यदाह नारयतिरियनरामरभवेसु निव्वेयो वसइ दुक्ख । अकयपरलोयमग्गो ममत्तविसर्वगरहिओ य ॥ १ ॥ अन्ये तु संवेगनिर्वेदयोरर्थविपर्ययमाहुः संवेगो भवविरागः निर्वेदो मोक्षाभिलाष इति। अनुकम्पा दुःखितेषु अपक्षपातेन दुःखप्रहाणेच्छा । पक्षपातेन तु करुणा स्वपुत्रादौ व्याघ्रादीनामप्य. स्त्येव । सा चानुकम्पा द्रव्यतो भावतश्च भवति । द्रव्यतः सत्यां शक्तौ दुःखप्रतीकारेण । भावत आर्द्रहृदयत्वेन । (१) नरविबुधेश्वरसौख्यं दुःखमेव भावतश्च मन्यमानः । __ संवेगतो न मोक्षं मुक्का किञ्चित् प्रेक्षते ॥ (२) च ठ -सुक्षं । (३) नारकतिर्यङनरामरभवेष निर्वेदतः वसति दुःखम् । ____ अक्तपरलोकमार्गो ममत्वविषनेगरहित । (१) ख ग च छ -अर-। Page #183 -------------------------------------------------------------------------- ________________ यदाह द्वितीयः प्रकाशः । 'दट्ठूण पाणिनिवहं भोमे भवसायरम्मि दुक्खन्तं । अविसेसओणुकंपं 'दुविहावि सामच्छओ कुणइ ॥ १ ॥ अस्तीति मतिरस्येत्यास्तिकस्तस्य भावः कर्म वा आस्तिक्यम् । तत्त्वान्तरश्रवणेऽपि जिनोक्ततत्त्वविषये निराकाङ्क्षा प्रतिपत्तिः । आस्तिक्येन हि जीवधर्मतया अप्रत्यक्षं सम्यक्वं लक्ष्यते । तद्दान् हि आस्तिक इत्युच्यते । यदाह १८३ मन्त्र तमेव सञ्चं नोसंकं जं जिणेहिं पनत्तं । सुहपरिणामो सम्मं कखाइविसुत्तिआरहिओ ॥ १ ॥ अन्ये तु शमादीनि लिङ्गान्यन्यथा व्याचक्षते सुपरीक्षितप्रवक्तृप्रवाच्यप्रवचनतत्त्वाभिनिवेशान्मिथ्याभिनिवेशोपशमः शमः । स सम्यग्दर्शनस्य लक्षणम् । यो ह्यतत्त्वं विहायात्मना तत्त्वं प्रतिपन्नः स लक्ष्यते सम्यग्दर्शनवानिति । संवेगो भयं जिनप्रवचनानुसारिणो हि नरकेषु शरीरं मानसं च शीतोष्णादिजनितं च संक्लिष्टासुरोदीरितं च परस्परोदीरितं च तिर्यक्षु भारारोपणाद्यनेकविधं मनुजेषु दारिद्रादौर्भाग्यादि च दुःखमवलोकयतस्तद्भीरुतया तत्प्रशमोपायभूतं धर्ममनुतिष्ठतो लक्ष्यते विद्यतेऽस्य सम्यग्दर्शनमिति । निर्वेदो (१) दृष्ट्वा प्राणिनिवहं भीमे भवसागरे दुःखार्त्तम् । विशेषतोऽनुकम्पां द्विविधामपि सामर्थ्यातः करोति ॥ (२) ख ग चठ दुहावि । (३) मन्यते तदेव सत्यं निःशङ्कं यजिनैः प्रज्ञापितम् । शुभपरिणामः सम्यक् काङ्खादिविविकारहितः ॥ Page #184 -------------------------------------------------------------------------- ________________ १८४ .. योगशास्त्रे विषयेष्वनभिष्वङ्गः यथा इहलोक एव प्राणिनां दुरन्तकामभोगाभिष्वङ्गोऽनेकोपवफल: परलोकेऽप्यतिकटकनरकतिर्यग. मनुष्यजन्मफलप्रदः । अतो न किञ्चिदनेन । उझितव्य एवायमिति । एवंविधनिदेनापि लक्ष्यतेऽस्त्यस्य सम्यग्दर्शनमिति । अनुकम्मा कपा यथा सर्व एव सत्त्वाः सुखार्थिनो दुःखप्रहाणार्थिनश्च । ततो नैषामल्पापि पीडा मया कार्येत्यनयापि लक्ष्यतेऽस्त्यस्य सम्यक्त्वमिति। सन्ति खलु जिनेन्द्रप्रवचनोपदिष्टा अतीन्द्रिया जीवपरलोकादयो भावा इति परिणाम आस्तिक्यम् । अनेनापि - लक्ष्यते सम्यग्दर्शनयुक्तोऽयमिति ॥ १५ ॥ सम्यवलिङ्गान्युजा भूषणान्याह-- स्थैर्य प्रभावना भक्तिः कौशलं जिनशासने । तीर्थसेवा च पञ्चास्य भूषणानि प्रचक्षते ॥ १६ ॥ अस्य सम्यक्त्वस्य पञ्च भूषणानि भूष्यते अलतियते यैस्तानि भूषणानि जिनशासने जिनशासनविषये। एतच्च सर्वत्र सम्बध्यते। स्थैर्य जिनधर्म प्रति चलितचित्तस्य परस्य स्थिरत्वापादनं स्वयं वा परतीर्थिकड़िदर्शनेऽपि जिनशासनं प्रति निष्पकम्पता। प्रभवति जैनेन्द्रशासनं तस्य प्रभवतः प्रयोजकत्वं प्रभावना। सा चाष्टधा प्रभावकभेदेन । यदाह. 'पावयणी धम्मकही वाई नैमित्तिो तवस्मी य । विज्जा सिद्धो अ कई य अड्डेव पभावगा भणिया ॥ १ ॥ (१) प्रवचनी धर्मकथी वादी नैमित्तकः तपस्वी च । विद्यावान् सिद्धय कविश्व अष्टैव प्रभावका भणिताः ॥ Page #185 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः | तत्त्र प्रवचनं द्वादशाङ्गं गणिपिटकं तदस्यास्त्यतिशयंवदिति प्रवचनो युगप्रधानागमः । धर्मकथा प्रशस्यास्यास्तीति धर्मकथी शिखादित्वादिन् । वादिप्रतिवादिसभ्य सभापतिलक्षणायां चतुरङ्गायां सभायां प्रतिपक्ष निरासपूर्वकं स्वपक्षस्थापनार्थमवश्यं वदतीति वादी | निमित्तं त्रैकालिकं लाभालाभादिप्रतिपादकं शास्त्रं तदेत्यधौते वा नैमित्तिकः । तपो विकृष्टमष्टमाद्यस्यास्तीति तपस्वी | विद्या: प्रज्ञत्यादयः शासनदेवतास्ताः साहायके यस्य स विद्यावान् । अञ्जनपादलेपतिलकगुटिकासकलभूताकर्षणनिष्कर्ष णवै क्रियत्वप्रभृतयः सिद्धयस्ताभिः सिते स्म सिद्धः । कवते गद्यपद्यादिभिः प्रबन्धैर्वर्णनां करोतीति कविः । एते प्रवचन्यादयोऽष्टौ प्रभवतो भगवच्छासनस्य यथायथं देशकालाद्यौचित्येन साहायकंकरणात्प्रभावकास्तेषां कर्म प्रभावना द्वितीयं भूषणम् । भक्तिः प्रवचने विनयवैयावृत्त्यरूपा प्रतिपत्तिः सम्यग्दर्शनज्ञानचारित्रादिगुणाधिकेष्वभ्युत्थानमभियानं शिरस्यञ्जलिकरणं स्वयमासनढौकनमासनाभिग्रही वन्दना पर्युपासना अनुगमनं चेत्यष्टविधकर्म विनयनादष्टविध उपचार विनयः । व्यावृत्तस्य भावः कर्म वा वैयावृत्त्यम् । तच्चाचार्योपाध्यायतपस्विशिक्षकग्लानकुलगणसङ्घसाधुसमनोज्ञेषु दशस्वन्त्रपानवस्त्रपात्र प्रतिश्रय पीठक फलकसंस्तारादिभिधम्मसाधनेरुपग्रहः शुश्रूषाभैषजक्रियाकान्तारविषमदुर्गोपसर्गेष्वभ्युपपत्तिश्च । जिनशासनविषये च कौशलं नैपुण्यम् । ततो हि व्यवहितादिरप्यर्थो विषयोक्रियते । यथानार्यदेशवर्त्ती आर्द्रककुमारः श्रेणिक पुत्रेणाभयकुमारेण कौशलाप्रतिबोधित इति । तीर्थं नद्यादे २४ १८५ Page #186 -------------------------------------------------------------------------- ________________ १८६ योगशास्त्रे `रिव संसारस्य तरणे सुखावतारो मार्गः । तच्च द्विधा द्रव्यतीर्थं भावतोर्थं च । द्रव्यतीर्थं तीर्थकृतां जन्मदीक्षाज्ञाननिर्व्वाणस्थानम् । यदाह जम्मं दिक्खा नाणं तित्थयराणं महाणुभावाणं । जत्थ य किर निव्वाणं श्रगाढं दंसणं होइ ॥ १ ॥ भावतोर्थं तु चतुर्विधः श्रमणसङ्घः प्रथमगणधरो वा । यदाह "तित्यं भन्ते तित्यं तित्थयरे तित्थं गोयमा अरिहा ताव नियमा तित्यं करे तित्थं पुणचाउव्वणे समणसंघे पढमगणहरे वा । तीर्थस्य सेवा तीर्थसेवा ॥ १६ ॥ - . अस्य सम्यक्त्वस्य भूषणान्युक्त्वा दूषणान्याह - शङ्काकाङ्गाविचिकित्सामिध्यादृष्टिप्रशंसनम् । तत्संस्तवश्च पञ्चापि सम्यक्त दूषयन्त्यलम् ॥ १७ ॥ पञ्चापि शङ्कादयो निर्दोषमपि सम्यक्त्वां दूषयन्ति अलमतिशयेन | शङ्का सन्देहः सा च सर्वविषया देशविषया च । सर्वविषया अस्ति वा नास्ति वा धम्मं इत्यादि । देशशङ्का एकैकव वस्तुध मंगोचरा । (१) ख छ द्वेधा | (२) जन्मं दीक्षा ज्ञानं तीर्थकराणां महानुभावानाम् । यत्र च किल निर्वाणं श्रागाढं दर्शनं भवति ॥ (३) ग छ चतुर्वर्णः । : (8) तीर्थं भगवन् तीर्थं तीर्थकर तीर्थं गौतमा बर्हन् तावन्नियमेन तीर्थकरस्तीर्थं पुनश्च'तुर्वर्ण्यं श्रमणसङ्घ प्रथमगणधरे वा । Page #187 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः | यथा अस्ति जीवः केवलं सर्वगतोऽसर्वगतो वा सप्रदेशोऽप्रदेशो वेति । इयं च द्विधाऽपि भगवदप्रणीत' प्रवचनेषु अप्रत्ययरूपा सम्यक्त्वं दूषयति । केवलागमगम्या अपि हि पदार्था अस्मदादिप्रमाणपरोक्षानिरपेक्षा आप्तप्रणेत्टकत्वान्न सन्देग्धुं योग्याः । यत्त्रापि मोहवशात् क्वचन संशयो भवति तत्राप्यप्रतिहतेयमर्गला । यथा १८७ "कत्थ य मइदुव्वल्लेण तव्विहायरियविरह वावि । नेयगहणत्तणेण य नाणावरणोदरणं च ॥ १ ॥ 'हेऊदाहरणासंभवे असइ सुट्टु जं न बुज्भेज्जा । : सव्वनुमयमवितहं तहावि तं चिंतए मइमं ॥ २ ॥ 'श्रणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा | 'जियरागदो समोहा य ननहा वाइणो तेणं ॥ ३ ॥ यथा वा सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः मिथ्यादृष्टिः । सूत्रं हि नः प्रमाणं जिनाभिहितम् । काङ्क्षा अन्यान्यदर्शनग्रहः । सापि सर्वविषया देशविषया च । सर्वविषया सर्वपाखण्डिधर्माकाङ्क्षारूपा | देशकाङ्क्षा त्वेकादिदर्शनविषया यथा सुगतेन (१) ख ग छ - प्रवचने । (२) क च मतिदुर्बलेन तद्दिधाचार्यविरहतो वापि । ज्ञेयगहनत्वेन च ज्ञानावरणोदयेन च ॥ (३) हेतूदाहरणासंभवे च सति सुष्ठु यन्त्र बुध्येत । सर्वज्ञमतमवितथं तथापि तच्चिन्तयति मतिमान् ॥ (४) कानुपकृतपरानुग्रहपरायणा यज्जिना जगत्प्रवराः । जितरागदोषमोहाच नान्यथा वादिनस्तेन ॥ - Page #188 -------------------------------------------------------------------------- ________________ १८८ योगशास्त्रे - भिक्षूणामक्लेशको धर्म उपदिष्टः स्नानानपानाच्छादनशयनीयादिषु सुखानुभवहारेण । यदाह मृद्दी शय्या प्रातरुत्थाय पया मध्ये भक्तं पानकं चापराहे द्राक्षाखण्डं शर्करा चाईराने मोक्षश्चान्ते शाक्यसिंहेन दृष्टः ॥ १ ॥ इति एतदपि घटमानकमेव न दूरापितम् । तथा परिवाटभौतब्राह्मणादयो विषयानुपभुञ्जाना एव परलोकेऽपि सुखेन युज्यन्त इति । साधीयानेषोऽपि धर्म इति । एवं च काङ्गापि परमार्थतो भगवदर्हप्रणीतागमानाखासरूपा सम्यक्त्वं दूषयति । विचिकित्सा चित्तविल्लवः । सा च सत्यपि युक्त्यागमोपपन्ने जिनधर्मेऽस्य महतस्तपालेशस्य सिकताकणकवलवनिस्वादस्यायत्यां फलसम्पगवित्री। अथ क्लेशमात्रमेवेदं निर्जराफलविकलमिति । उभयथा हि क्रिया दृश्यन्ते सफला अफलाश्च कृषीबलादीनामिव इयमपि तथा सम्भाव्यते। यदाह'पुव्वपुरिसा जहोइअमग्गचरा घडड तेसि फलजोगो अम्हेसु य धीसंघयणविरहो न तह तेसि फलं ॥ १ ॥ इति ॥ (१) पूर्वपुरुषा यथोचितमार्गचरा घटते तेषां फलयोगः । अस्मासु च धीसंग्रहणविरहतः न तथा तेषां फलम् ॥ Page #189 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । १८८ विचिकित्सापि भगववचनानाखासरूपत्वात्सम्यकस्य दोषः । न च शङ्कातो नेयं भिद्यते । शङ्का हि सकलासकलपदार्थभावीन ट्रव्यगुणविषया इयं तु क्रियाविषयैव । यहा विचिकित्सा निन्दा सा च सदाचारमुनिविषया यथा अनानेन प्रखेदजलक्लिनमलत्वा. दुर्गन्धिवपुष एत इति । को दोषः स्याद्यदि प्रासुकवारिणा अङ्गक्षालनं कुर्वीरविति । इयमपि तत्त्वती भगवन्मानाखासरूपत्वात् सम्यक्त्वदोषः। मिथ्या जिनागमविपरीता दृष्टिदर्शनं येषां ते मिथ्यादृष्टयस्तेषां प्रशंसनं प्रशंसा तच्च सईविषयं देशविषयं च । सर्वविषयं सर्वाण्यपि कपिलादिदर्शनानि युक्तियुक्तानीति माध्यस्थ्यसारा स्तुतिः सम्यवास्य दूषणम् । यदाचक्ष्महि स्तुती सुनिश्चितं मत्सरिणो जनस्य न नाथ मुद्रामतिशेरते ते । . माध्यस्थ्यमास्थाय परीक्षका ये मणौ च काचे च समानुबन्धाः ॥ १ ॥ देशविषयं तु इदमेव बुद्धवचनं सायकणादादिवचनं वा तत्त्वमिति। इदं तु व्यक्तमेव सम्यवदूषणम् । तैर्मिथ्यादृष्टिभिरेकत्र संवासात्परस्परालापादिजनित: परिचयः संस्तवः । एकत्रवासे हि तप्रक्रियाश्रवणात्तक्रियादर्शनाच्च दृढसम्यक्त्ववतोऽपि दृष्टिभेदः सम्भाव्यते । किमुत मन्दबुद्धेनवधर्मस्य इति संस्तवोऽपि सम्यक्त्वदूषणम् । एवं विधं च सम्यक्त्वं विशिष्टद्रव्यक्षेत्रकालभावसामग्रमा सत्यां गुरोः समीप विधिना प्रतिपद्य श्रावको यथावत्यालयति । Page #190 -------------------------------------------------------------------------- ________________ १८. - योगशास्त्रे यदाह 'समणोवासो तत्थ मिच्छत्तात्री पडिक्कमे । दव्वो भावो पुब्बिसम्मत्तं पडिवज्जए ॥ १ ॥ न कप्पए से परतित्थियाणं तहेव तेसिं चिय देवयाणं परिग्गहे ताण य चेइयाणं पहावणावंदणपूयणाई ॥ २ ॥ 'लोयाण तित्थेस सिणाणदाणं पिंडप्पयाणं हुणणं तवं च संकतिसोमग्गहणाइएसं पभूयलोयाण पवाहकिच्चं ॥ ३ ॥ एवं तावत्सागरोपमकोटीकोट्यां शेषायां किञ्चिदूनायां मिथ्यात्वमोहनीयस्थिती जन्तुः सम्यत्वं प्रतिपद्यते। सागरोपमकोटीकोव्यामप्यवशिष्टायां पल्योपमपृथक्त यदा व्यतीतं भवति तदा देशविरतिं प्रतिपद्यते । यदाह सम्मत्तम्मि उ लद्दे पलियपुहुत्तेण सावत्रो होज्जत्तिः ॥ १७ ॥ (१) श्रमणोपासकस्तत्र मिथ्यात्वात्प्रतिक्रामेत् । द्रव्यतो भावतः पूर्व सम्यक्त्व प्रतिपद्यते ॥ . (३) न कल्पते तस्य परतीथिकानां तथैव तेषामेव देवतानाम् । परियहे तेषां च चैत्यानां प्रभावनावन्दन पूजनादि ॥ (३) लोकानां तीर्थेषु स्नानदानं पिण्डप्रदानं धूननं तपश्च । . संक्रान्तिसोमपहणादिकेषु प्रभूतलोकानां प्रवाहकत्यम् ॥ (४) सम्यक्के त लब्धे पल्योपमष्टथक्वेन श्रावको भवेदिति । Page #191 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः। १८१ सम्यवामूलानि पञ्चाणुव्रतानीत्युक्तं तत्र सम्यक्त्व मभिहितमिदानीमणव्रतान्याहविरतिं स्थूल हिंसादेईिविधविविधादिना । अहिंसादीनि पञ्चाणुव्रतानि जगदुर्जिनाः ॥१८॥ स्थूला मिथ्यादृष्टीनामपि हिंसात्वेन प्रसिद्धा या हिंसा सा स्थूलहिंसा स्थूलानां वा त्रसानां जीवानां हिंसा स्थूलहिंसा । स्थूलग्रहणमुपलक्षणम् । तेन निरपराधसङ्कल्पपूर्वक हिंसानामपि ग्रहणं आदिग्रहणात् स्थूलानृतस्तेयाब्रह्मचर्यापरिग्रहाणां संग्रहः । एभ्यः स्थूल हिंसादिभ्यो या विरतिनित्तिस्तामहिंसादीनि अहिंसासूनुंतास्तेय ब्रह्मचर्यापरिग्रहान् पञ्चाणुव्रतानीति जिना. स्तीर्थकरा जगदुः प्रतिपादितवन्तः । किमविशेषेण विरतिनेत्याह। विविधत्रिविधादिना भङ्गजालेन विविधः कतकारितरूपस्त्रिविधो मनोवाकायभेदेन यत्र स विविधत्रिविध एको भङ्गः । इह यो हिंसादिभ्यो विरतिं प्रतिपद्यते । स द्विविधां कतकारितभेदां त्रिविधेन मनसा वचसा कायेन चेति । एवं च भावना स्थूल हिंसां न करोत्यात्मना न कारयत्यन्येन मनसा वचसा कायेन चेति । अस्य चानुमतिरप्रतिषिद्धा अपत्यादिपरिग्रहसद्भावात् तैहिंसादिकरणे च तस्यानुमतिप्राप्तः । अन्यथा परिग्रहापरिग्रहयोरविशेषेण प्रव्रजिताप्रव्रजितयोरभेदापत्तेः । ननु भगवत्यादावागमे त्रिविधं त्रिविधनत्यपि प्रत्याख्यानमुक्त Page #192 -------------------------------------------------------------------------- ________________ १९२ योगशास्त्रे मगारिण: । तच्च श्रुतीतत्वादनवद्यमेव तत्कस्मात्रीच्यते । उच्यते । तस्य विशेषविषयत्वात्। तथाहि यः किल प्रविवजिपुरव प्रतिमाः प्रतिपद्यते । पुत्रादिसन्ततिपालनाय यो वा विशेषं वयंभूरमणादिगतं मत्स्यादिमांसं स्थूलहिंसादिकं वा क्वचिदवस्थाविशेषे प्रत्याख्याति स एव त्रिविधं त्रिविधेनेति करोति । इत्यल्पविषयत्वात्रोच्यते। बाहुल्येन तु हिविधं त्रिविधेनेति । विविधविविध आदिर्यस्य विविधत्रिविधादेर्भङ्गजालस्य तेन ॥ विविधं दिविधेनेति द्वितीयो भङ्गः विविधमिति स्थू लहिंसा न करोति न कारयति हिविधेनेति मनसा वचसा यहा मनमा कायेन यहा वाचा कायेनेति । तत्र यदा मनमा वाचा न करोति न कारयति। तदा मनसा अभिसन्धिरहित एव वाचापि हिंसकमब्रुवन्नेव कायेनैव दुश्चेष्टितादिना असंजिवत्करोति । यदा तु मनसा कायेन न करोति न कारयति तदा मनसाभिसन्धिरहित एव कायेन दुश्चेष्टितादि परिहरनेवानाभीगाहाचैव हन्मि घातयामि वेति ब्रूते । यदा तु वाचा कायेन न करोति न कारयति । तदा मनसैवाभिसन्धिमधिकृत्य करोति कारयति च। अनुमतिस्तु विभिरपि सर्वत्रवास्ति । एवं शेषविकल्पा अपि भावनीयाः। हिविधमेकविधेनेति टतीयः विविधं करणं कारणं च एकविधन मनसा यहा वचसा यहा कायेन । एकविधं त्रिविधनेति चतुर्थः एकविधं करणं यहा कारणं मनसा वाचा कायेन च। Page #193 -------------------------------------------------------------------------- ________________ हितीयः प्रकाशः। १९३ एक विधं द्विविधनति पञ्चम: एकविध करणं यहा कारणं दिविधेन मनसा वाचा यहा मनसा कायेन यहा वाचा कायेन । ... एकविधमेकविधेनेति षष्ठः एकविधं करणं यहा कारणं एकविधेन मनसा यहा वाचा यहा कायेन । यदाह 'दुविहतिविहेण पढमो दुविहं दुविहेण बीयो होइ दुविहं एगविहेणं एगविहं चेव तिविहेण एगविहं दुविहेणं एगेग विहेण छठ्ठो होइत्ति । ___ एते च भङ्गाः करणविकेण योगत्रिकेण च विशेष्यमाणा एकोनपञ्चाशद्भवन्ति। तथाहि हिंसां न करोति मनसा १ वाचा २ कायेन ३ मनसा वाचा ४ मनसा कायेन ५ वाचा कायेन वा ६ मनसा वाचा कायेन च ७ एते करणेन सप्त भङ्गाः । ___ एवं कारणन सप्त । अनुमत्या सप्त। तथा हिंसां न करोति न कारयति च मनसा १ वाचा २ कायेन ३ मनसा वाचा ४ मनसा कायेन ५ वाचा कायेन वा ६ मनसा वाचा कायेन च ७। एते करण कारणाभ्यां सप्त भङ्गाः । (१) विविधतिविधेन प्रथमो दिविधं हिविधेन वितीयो भवति हिविधं एकविधेन एकविधं चैव विविधेन एकविधं दिविधेन एकैकविधेन षष्ठको भवतीति । २५ Page #194 -------------------------------------------------------------------------- ________________ १८४ - योगशास्त्रे ___एवं करणानुमतिभ्यां सप्त। कारणानुमतिभ्यामपि सप्त । करणकारणानुमतिभिरपि सप्त। एवं सर्वे मौलिता एकोनपञ्चाशद्भवन्ति। एते च त्रिकालविषयत्वात् प्रत्याख्यानस्य काल त्रयेण गुणिताः सप्तचत्वारिंशदधिकं शतं भवन्ति । यदाह 'सेयालं भंगसयं पञ्चवाणम्मि जस्म उवलद्धं ।। सो खलु पञ्चकवाणे कुसलो सेसा अकुसलाओ ॥ १ ॥ त्रिकालविषयता चातीतस्य निन्दया साम्प्रतिकस्य संवरणन . अनागतस्य प्रत्याख्यानेनेति । यदाह 'अइअं निंदामि पडुप्पन्नं संवरेमि अणागयं पञ्च क्वामित्ति । एते च भङ्गा अहिंसाव्रतमाश्रित्योपदर्शिताः व्रतान्तरेष्वपि द्रष्टव्याः ॥ १८॥ एवं सामान्येन हिंसादिगोचरा विरतिमुपदर्य प्रत्येक हिंसादिषु तामुपदिदर्शयिषुहिंसायां तावदाहपङ्गुकुष्ठिकुणित्वादि दृष्ट्वा हिंसाफलं सुधीः । निरागस्त्रसजन्तूनां हिंसां सङ्कल्पतस्त्यजेत् ॥१६॥ नादृष्टपापफलाः पापानिवर्तन्त इति पापफलमुपदर्शयन् (१) सप्तचत्वारिंशत्भङ्गगतं प्रत्याख्याने यस्य उपलब्धम् । सखल प्रत्याख्याने कुशलः शेषा अकुशलाः ॥ (२) अतीतं निन्दामि प्रत्युत्पन्नं संवृणोमि अनागतं प्रत्याख्यामीति । Page #195 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । १८५ हिंसाविरतिव्रतमुपदिशति । पङ्गुः सत्यपि पादे पादविहरणाक्षमः कुष्ठी त्वग्दोषी कुणिविकलपाणिः तेषां भावः पङ्ग कुष्ठोकुणित्वम् । अादिग्रहणात्पङ्गत्वोपलक्षितमधःकायवैगुण्यम् । कुष्ठित्वोपलक्षितं सकलरोगजातम् । कुणित्वोपलक्षितमुपरिकायवैगुण्यं संगृह्यते । एतहिंसाफलं दृष्ट्वा सुधौरिति बुद्धिमान् स हि शास्त्रबलेन हिंसायाः फलमेतदिति निश्चित्य हिंसां त्यजेत् । अत्र विधौ सप्तमी। केषां निरागस्त्रसजन्तूनां निरागसो निरपराधास्त्रमा हौन्द्रियादयस्तेषां सङ्कल्पेन सङ्कल्पत: आद्यादित्वात्तृतीयान्तात्तसुः । निरागस इति निरपराधजन्तुविषयां हिंसां प्रत्याचष्टे सापराधस्य तु न नियमः । त्रसग्रहणेनैकेन्द्रियविषयां हिंसां नियमयितुं न क्षम इत्याचष्टे सङ्कल्पत इति अमुं जन्तुं मांसाद्यर्थित्वेन हन्मौति सङ्कल्पपूर्वक हिंसां वर्जयेत्। प्रारम्भजा तु हिंसा अशक्यप्रत्याख्यानेति तत्र यतनामेव कुर्यादिति। अत्रान्तरलोकाः येषामेकान्तिको भेदः सम्मतो देहदेहिनोः । तेषां देहविनाशेऽपि न हिंसा देहिनो भवेत् ॥ १ ॥ अभेदैकान्तवादेऽपि स्वीकृते देहदेहिनोः । देहनाशे देहिनाशात्परलोको ऽस्तु कस्य वै ॥ २ ॥ भिन्नाभिवतया तस्माज्जीवे देहात्प्रतिश्रुते । देहनाशे भवेत्पीडा या तां हिंसां प्रचक्षते ॥ ३ ॥ दुःखोत्पत्तिर्मनालेशस्तत्पर्यायस्य च क्षयः । यस्यां स्यात्सा प्रयत्नेन हिंसा हेया विपश्चिता ॥ ४ ॥ राहनाः । Page #196 -------------------------------------------------------------------------- ________________ १८६ योगशास्त्रे प्राणी प्रमादतः कुर्याद्यत्प्राणव्यपरोपणम् । सा हिंसा जगदे प्राज्ञेर्बीजं संसारभूरुहः ॥ ५ ॥ शरीरी स्त्रियतां मा वा ध्रुवं हिंसा प्रमादिनः । सा प्राणव्यपरोपेऽपि प्रमादरहितस्य न ॥ ६ ॥ जीवस्य हिंसा न भवेन्नित्यस्यापरिणामिनः । क्षणिकस्य स्वयं नाशात्कथं हिंसोपपद्यताम् ॥ ७ ॥ नित्यानित्ये ततो जीवे परिणामिनि युज्यते । हिंसा कायवियोगेन पीडातः पापकारणम् ॥ ८ ॥ केचिद्ददन्ति हन्तव्याः प्राणिनः प्राणिघातिनः । हिंस्रस्यैकस्य घाते स्याद्रक्षणं भूयसां किल ॥ ८ ॥ तदयुक्तमशेषाणां हिंस्रत्वात्प्राणिनामिह । हन्तव्यता स्यात्तल्लाभमिच्छोर्मूलक्षतिः 'स्फुटा ॥ १० ॥ अहिंसासम्भवो धम्मंः स हिंसातः कथं भवेत् । न तोयजानि पद्मानि जायन्ते जातवेदसः ॥ ११ ॥ पापहेतुर्वधः पापं कथं छेत्तुमलं भवेत् । मृत्युहेतुः कालकूटं जीविताय न जायते ॥ १२ ॥ संसारमोचकास्त्वाहुर्दुःखिनां वध इष्यताम् । विनाशे दुःखिनां दुःखविनाशो जायते किल ॥ १३ ॥ तदप्यसाम्प्रतं ते हि हता नरकगामिनः । अनन्तेषु नियोज्यन्ते दुःखेषु स्वल्पदुःखकाः ॥ १४ ॥ (१) घ ङ छ स्फुटम् । Page #197 -------------------------------------------------------------------------- ________________ १८७ हितीयः प्रकाशः । किं च सौख्यवतां घात धम्मः स्यात्यापवारणात् । इत्यं विचार्य हेयानि वचनानि कुतीर्थिनाम् ॥ १५ ॥ चार्वाकाः प्राहुरात्मैव तावत्रास्ति कथञ्चन । तं विना कस्य सा हिंसा कस्य हिंसाफलं भवेत् ॥ १६ ॥ भूतेभ्य एव चैतन्यं पिष्टादिभ्यो यथा मदः । भूतसंहतिनाशे च पञ्चत्वमिति कथ्यते ॥ १७ ॥ आत्माभावे च तन्मूल: परलोको न युज्यते । अभावे परलोकस्य पुण्यापुण्य कथा वृथा ॥ १८॥ तपांसि यातनाश्चित्राः संयमी भोगवञ्चना । इति विप्रतिपत्तिभ्यः परेभ्यः परिभाष्यते ॥ १८ ॥ स्वसंवेदनतः सिद्धः स्वदेहे जीव इष्यताम् । अहं दुःखी सुखी वाहमिति प्रत्यययोगतः ॥ २० ॥ घटं वेद्माहमित्यत्र त्रितयं प्रतिभासते । कम्म क्रिया च कर्ता च तत्कर्ता किं निषिध्यते ॥ २१ ॥ शरीरमेव चेत्कर्तृ न कर्तृ तदचेतनम् । भूतचैतन्ययोगाच्चेञ्चेतनं तदसङ्गतम् ॥ २२ ॥ मया दृष्टं श्रुतं स्पृष्टं घ्रातमास्वादितं स्मृतम् । इत्येक कर्तृकाभावात् भूतचिद्दादिनः कथम् ॥ २३ ॥ वसंवेदनत: सिद्धे स्वदेहे चेतनात्मनि । परदेहेऽपि तत्सि हिरनुमानेन साध्यते ॥ २४ ॥ बुद्धिपूर्वी क्रियां दृष्ट्वा खदेहेऽन्यत्र तहतिः । प्रमाणबलतः सिद्धा केन नाम निवार्यते ॥ २५ ॥ Page #198 -------------------------------------------------------------------------- ________________ १८८ . . योगशास्त्रे . तत्परलोकिनः सिद्धौ परलोको न दुर्घटः । तथा च पुण्यपापादि 'सर्वमेवोपपद्यते ॥ २६ ॥ तपांसि यातनाश्चित्रा इत्याद्युन्मत्तभाषितम् । सचेतनस्य तत्कस्य नोपहासाय जायते ॥ २७ ॥ निर्बाधोऽस्ति ततो जीवः स्थित्युत्पादव्ययात्मकः । ज्ञाता द्रष्टा गुणी भोक्ता कर्ता कायप्रमाणकः ॥ २८ ॥ तदेवमात्मनः सिद्धी हिंसा किं नोपपद्यते । तदस्याः परिहारेणाहिंसाव्रतमुदीरितम् ॥ २८ ॥ १८ ॥ हिंसानियमे स्पष्टं दृष्टान्तमाहआत्मवत्सर्वभूतेषु सुखदुःखे प्रियाप्रिये। . चिन्तयनात्मनोऽनिष्टां हिंसामन्यस्य नाचरेत् ॥२०॥ सुखशब्देन सुखसाधनमनपानसक्चन्दनादि गृह्यते । दुःखशब्देन दुःखसाधनं वधबन्धमारणादि । ततो यथात्मनि दुःखसाधनमप्रियं तथा सर्वभूतेष्वपि। एवं चिन्तयन् दुःखसाधनत्वादप्रियां परस्य हिंसां न कुर्वीत। सुखग्रहणं दृष्टान्तार्थम् । यथा सुखसाधनं प्रियमेवं दुःखसाधनमप्रियम् । तथा सर्वभूतेष्वपि दुःखसाधनमप्रियमित्यर्थः । यदाहुलौकिका अपि श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मन: प्रतिकूलानि परेषां न समाचरेत् ॥१॥ इति ॥२०॥ (१) क च खयमे-। Page #199 -------------------------------------------------------------------------- ________________ द्वितीयः प्रकाशः । ननु प्रतिषिद्धाचरणे दोषः प्रतिषिद्धा च चसजीवविषया हिंसा स्थावरेषु त्वप्रतिषिद्धहिंसेषु यथेष्टं चेष्टन्तां गृहस्था इत्याह निरर्थिकां न कुर्वीत जीवेषु स्थावरेष्वपि । हिंसामहिंसाधर्मज्ञः काङ्क्षन्मोक्षमुपासकः ॥ २१ ॥ १८८ स्थावराः 'पृथिव्यम्बु तेजोवायुवनस्पतयस्तेष्वपि जीवेषु हिंसां न कुर्वीत । किं विशिष्टां निरर्थिकां प्रयोजनरहितां शरीरकुटुम्ब - निर्वाहनिमित्तं हि स्थावरेषु हिंसा न प्रतिषिद्धा या त्वनर्थिका शरीरकुटुम्बादिप्रयोजनरहिता तादृशीं हिंसां न कुर्वीत । उपासकः श्रावकः किं विशिष्टः अहिंसाधर्मज्ञः अहिंसालक्षणं धर्मं जानातीति अहिंसाधर्मज्ञः । न हि प्रतिषिद्धवस्तुविषये वाहिंसाधर्मः । किन्त्वप्रतिषिद्धेष्वपि सा यतनारूपा । ततश्च तथाविधं धर्मं जानन् स्थावरेष्वपि निरर्थिकां हिंसां न विदधीत । ननु प्रतिषिद्धविषयैवाहिंसास्तु किमनया सूक्ष्मेचिकया इत्याह । काङ्क्षन्मोक्षं स हि मोचाकाङ्क्षी यतिवत् कथं निरर्थिकां हिंसामाचरेत् ॥ २१॥ ननु निरन्तरहिंसापरोऽपि सर्वस्वं दक्षिणां दत्त्वा पापविशुद्धिं विदध्यात् किमनेन हिंसापरिहारक्लेशेन इत्याहप्राणी प्राणितलोभेन यो राज्यमपि मुञ्चति । तद्दधोत्यमघं सर्वोर्वीदानेऽपि न शाम्यति ॥ २२ ॥ (१) ग च ज ष्टथिव्यप्तेजो- । Page #200 -------------------------------------------------------------------------- ________________ २०० योगशास्त्रे प्राणी जन्तुः प्राणितं जीवितव्यं तस्य लोभन राज्यमपि तत्कालोपस्थितं परिहरति। यदाह मार्यमाणस्य हेमाद्रिं राज्यं वाथ प्रयच्छतु । तदनिष्टं परित्यज्य जीवो जीवितुमिच्छति ॥ १ ॥ तत्तथाविधप्राणितप्रियप्राणिवधसम्भवं पापं सकलपृथ्वीदानेनापि न शाम्यति । भूदानं हि सकलदानेभ्योऽभ्यधिकमिति श्रुतिः ॥ २२ ॥ __ अथ श्लोकचतुष्टयेन हिंसाक निन्दामाहवने निरपराधानां वायुतोयटणाशिनाम् । निघ्नन् मृगाणां मांसार्थों विशिष्येत कथं शुनः ॥२३॥ मृगाणामिति “निप्रेभ्यो नः” ॥ २ । २ । १५ ॥ इति कर्मत्वप्रतिषेधाच्छेषे षष्ठी। वने वनवासिनां नतु परस्वीकृतभूमिवासिनां तथाविधा अपि सापराधाः स्युरित्याह । निरपराधानां परधनहरणपरग्रहभङ्गपरमारणाद्यपराधरहितानां निरपराधत्वे हेतुमाह। वायुतोयलणाशिनाम् । न हि वायुतोयटणानि परधनानि येन तद्भक्षणामापराधत्वं स्वात् । मांसार्थीति अत्रापि मृगाणामिति सम्बध्यते । मृगाणां यन्मांसं तदर्थयते मृगग्रहण नाटविकाः प्राणिनो गृह्यन्ते। एवंविधमृगमांसार्थी मृगवधपरायणो निरपराधमानुषपिचण्डिका मांसलुब्धाच्छुनः कथं विशिष्येत श्वेत्यर्थः ॥ २३ ॥ Page #201 -------------------------------------------------------------------------- ________________ e :::: 010 ::::::: COCO :::: ܚ ܗܘ ܗ :::::::::::: ܗܟ ܘܘ ܝܕ ܦܘ ܗܘ ܘ ܚ ܒܨ ܚ ܝܕܝ ܢ *Nirukta, Vol. IV, Fasc. 1-8 @ /10/ each 5 0 *Nitisara, Fasc. 2-5 @ /10/ each 28 Nityācărapaddhatih, Fasc. 1--7 @ /10/ each Nityācārapradipah Fasc. 1.-8 @ /10/ eaeh Nyayabindutika, Fasc. 1 @ /10/ each *Nyāya Kusiimäñjali Prakarana Vol. I, Fasc. 2-6; Vol. II, Fasc. 1--3 @ /10/ each Padumawati, Fasc. 1.-5 @ 21 Pariçista Parvan, Faxc. 1--5 @ /10/ each Prakrita-Paingalam, Fasc. 1-7 @ /10/ each Prithiviraj Rása. Part II, Fasc. 1--5 @ 110/ each ... Ditto (English) Part II, Fasc. 1 @ 1/- ... Prākrta Laksanam Fasc. 1 @ 1/8/ each .... Parāçara Smrti, Vol. I, Fasc. 1-8; Vol. II, Fasc. 1-6; Vol. UI, Fasc. 1-6 @ /10/ each ... Parāçara, Institutes of (English) @ 1/- each Prabandhacintămani (English) Fasc. )--3 @ 1/41 each Saddarsana-Samuccaya, Fasc. 1, @ /10/ each Sama Vēda Sainhita, Vols. 1, Fasc. II, 1-6; II, 1--7; IV, 1.-6; V, 1-8, @ /10/ each Sankhya Sūtra Vrtti, Fasc. 1-4 @./10/ each Ditto. .(English) Fasc. 1-3 @ 1/- each Sankara Vejaya, Fasc. 2-3 @ /10/ each Sraddha Kriyš Kaumudi, Fasc. 1-6 @ /10/ each Srauta Sutra Latyayan, Fasc. 1-9 @ /10/ ench . .. Asbalayana, Fasc. 1.11 @ /10/ each ... Suçruta Saibhita, Eng.) Fasc. 1 @ 1/- each Suddhikaumudi, Fasc, 1.4 @ /10/ each ... *Taittreya Brahmana, Fasc. 3.25 @ /10/ ench . Pratisakhya, Fasc. 1-3 @ /10/ each Taitteriya Sainhita, Fasc. 22-45 @ /10/ each 15 0 Tåndya Brahmana, Fasc. 1-19 @ /10/ each ... 11 Tantra Varteka (English) Fisc. 1-6 @ 1/1/ each ... 7 8 l'attva Cintamani, Vol. I, Farc. 1-9, Vol 1, Fane. 2-10. Vol. III, Fasc. 1-2. Vol. IV, Fasc. 1, Vol. V, Fasc. 1--5, Part IV. Vol. II, Fasc. 1-12 @ /10/ each 23 Tattvārthadhigama Sutram, fasc. 1-3 @ /10/ each ... Trikānda-Mandanam, Fasc. 1-3 @ /10/ each Tul'si Satsai, Fasc. 1.-5 @ /10/ each ... Upamita-bhava-prapanca-kathā, l'asc. 1-11 @ /10/ each Uvāsagadasão, (Text and English) Fasc. 1.-6 1/. each Vallāla Carita, Fasc 1 @ /10/ Varsa Kriya Kaumudi, Fasc 1.-6 @ /10/ cach *Vāyu' Purana, Vol. I, Fasc. 2-6; Vol. II, Fisc. 1 --7, @/10/ each Vidhāra Pārijata, Fasc. 1-8 VolII. Fasc. I @ /10/ each Vivādaratnākara, Fasc. 1.-7 @ /10/ each Vrhat Svayambhu Purāna, Fasc. 1.-6 @ /10/ each ... *Yoga Aphorisms of Patanjali, Fasc. 2-5 @ /20/ each Tibetan Series. Pag-Sam Thi S'in, Fagc. 1-4 @ 1) cach .... Sher-Phyin, Vol. I, Fasc. 1-5; Vol. II, Fasc. 1-3; Vol. III, Fasc. 1-6, @ 1/ each 11 0 Rtogs brjod dpag Akhri S'in ( Tib. & Sans. Avadāna Kalpalata ) Vol. 1, Fasc. 1--0'; Vol. II. Fasc. 1--5 @ 1/ each Arabic and Persian Series. Alamgirnimah, with Index, (Text) Fasc. 1.-13 @ /10/ each ... ... 8 Al-Muqaddasi (English) Vol. I. Fase. 1--3 @ 1/- cach Ain-l-Akbari, Fasc. 1-22 @ 1/8/ each Ditto (English) Vol. I, Fasc. 1--7, Vol. II, Fasc. 1.-5, Vol. Fasc. 1.-5. @ 2/- each ... Akbarnămab, with Index, Fasc. 1-37 @ 1/8/ ench ... Ditto (English) Vol. I, Fasc. 1-8 ; Vol. II, Fasc. 1.4 @ 1/4/ each 15 0 Arabic Bibliography, by Dr. A. Sprenger, @ /10/ ... ... 0 10 *Bidshāhnimah, with Index, Fasc. 1--19 @ /10/ each ... 11 11 Conquest of Syria, Fasc. 1-9 @ /10/ each ... 5 10 Catalogue of Arabic Books and Manuscripts, 1-2 @ 1/. each ... Catalogue of the Persian Books and Manuscripts in the Library of the Asiatic Society of Bengal. Fasc. 1--3 @ 1/ each ... ... 3 F 0 Dictionary of Arabic Technical Terms, and Appendix, Fasc. 1-21 @ 1/8/ each 31 8 Farhang-i-Rashidi, Fasc. 1-14 @ 1/8/ each ... 21 0 . . ::::::::: ܝܢ ܝܪ ܩܘ ܗ ܗ ܗ ܟܝܫ ܕܘ ܤ ܟܝ ܟ.܂ 0 ... 33 ... 31 . each The other Fasciculi of these works are out of stock, and complete copies cannot be supplied. Page #202 -------------------------------------------------------------------------- ________________ Fihrist-i-Tisi. or, Tusy's list of Shy'ah Books, Fasc. 1.-4 @ 1/- each: Futuh-ush-Sham of Waqidi, Fasc. !..9 @ /10/ each Ditto of Azadi, Fasc. 1- 1@ /10/ each ... Haft Asman, History of the Persian Masnawi, Fasc. 1 @ /12/ each History of the Caliphs, (English) Faso. 1 --6 @1/4/ each Iqbalnamah-i-Jahargiri, Faso. 1--3 @ /10/ euch ... Isabali, with Supplement, 51 Fasc. @1/- each ... Mazsir-ul-Umara, Vol. I, Fasc. 1--9, Vol. II, Fasc. 1--9; Voi. II!, 1-10 Index to Vol. I, Fasc. 10-11 ; Index to Vol. II, Fasc. 10-12; Index to Vol. III, Fasc. 11-12 @ /1/ each Maghazi of Waqidi, Fasc. 1--5 @ /10/ each Muntakhabit-t-Tawarikh, Fasc. 1--15 @ /10/ each ... Ditto (English) Vol. I, Fasc. 1.-7 Fusc. 1.-5 and 3 Indexes ; Vol. III, Fasc, 1 @ 1/ each ... Muntakhabu-l-Lubab, Fasc. 1-19 @ /10/ each Maayir-i-'Alamgiri, Fasc. 1.-6 @ /10/ each Nukhbatu--Fikr, Fasc. 1 @ /107 Nizami's Khiradnamah-i-Iskandari, Fasc. 1-2 @ /12/ each Riyagu-s-Salatin, Fasc. 1.-5 @ /10/ each ... Ditto (English) Fasc. 1.-5 @ 1/ Tabaquat Naziri, Fasc. 1.-5 @ /10/ each...' Ditto (English) Fasc. 1--14 @ 1/ each ... Ditto Index Tarikh-i-Firuz Shahi of Ziyau-d-din Barni Fasc. 1.-7 @ /10/ each Tarikh-i-Firuzshabi, of Shams-i-Siraj Aif, Fasc. 1 - 6 /10/ each Ten Ancient Arabic Poems, Fasc. 1--2 @ 1/8/ each ... Wis o Ramin, Fasc. 1.-5 @ 710/ each Zafarnamah, Vol. I, Fasc. 1--9, Vol. II, Fasc. 1-.8 @ /10/ each ... Tuzuk-i-Jahangiri, (Eng) Fasc. 1 @ 1/ ... 0 wicies 0 ASIATIC SOCIETY'S PUBLICATIONS. 1. ASIATIC RESEARCHES. Vols. XIX and XX @ 10/ each ... ... 20 2. PROCEEDINGS of the Asiatic Society from 1870 tu 1904 @ /8/ per No. JOURNAL of the Assiatic Society for 1870 (8), 1871 (7). 1872 (8), 1873 (8), 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1380 (8), 1881 (7), 1882 (6), 1883 (5), 1884 (6), 1885 (6), 1886 (8), 1887 (7). 1888 17). 1889 (10, 1890 (11), 1891 (7), 1892 (8), 1893 (11), 1894 (8), 1895 (7), 1996 (8), 1897 (8), 1898 (8), 1899 (8), 1900 (7), 1901 (7), 1902 (9), 1903 (8), 1304 (16), @ 1/8 per No. to Members and @ 2/ per No. to Non-Members N. B.-The figures encloscd, in brakets give the number of Nos. in cacl Volume, 4. Journal and Proceedings, NS., 1905, to date, @ 1-8 per No. to Members and Rs, 2 per No. to Non-Members. u. Memoirs, 1905, to date. Prica varies from number to number. Discount of 25% to Members. 6. Centenary Review of the Researches of the Society from 1784-1883 ... 3 A sketch of the Turki language as spoken in Eastern Turkistan, by R. B. Shaw (Extra No., J.A.S.B., 1878) Catalogue of Mammals and Birds of Burmah, by E. Blyth (Extra No., J.A.S.B., 1875) 7. Catalogue of the Library of the Asiatic Society, Bengal, 1884. 8. Mahabharata, Vols. III and IV, @ 20/ each ... 40 Moore and Hewitson's Descriptions of New Indian Lepidoptera, Parts I-III, with 8 coloured Plates, 4to. @ 6/ each Tibetan Dictionary, by Csoma de Koros .. 11. Ditto Grammar 12. Kasmiracabdampta, Parts I & II @'1/81 A descriptive catalogue of the paintings, statues, &c., in the rooms of the Asiatic Society of Bengal by C. R. Wilson... 14. Memoir on maps illustrating the Ancient Geography of Kasmir, by M. A. Stein Ph.D., JI. Extra No. 2 of 1899 15. Persian Translation of Haji Baba of Ispahan, by Haji Shaikh Ahmad-i-Kirmasi, and edited with notes by Major D. C. Phillott. ... 10 10. 13. ".. 33 0 Notices of Sanskrit Manuscripts, Fasc. 1-33 @ 1/ each ... Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra W.B.-All Cheques, Money Orders, &c., must be made payable to the "Treasures Siatic Society," only. 22-11-07. Books are supplied by V. P. P.