________________
योगशास्त्र आरक्षपुरुषैरेष ततो निर्वासितः पुरात् । व्याधहस्त मिव श्येनश्चीरपल्लौं जगाम च ॥ २ ॥ नृशंसचरितैस्तैस्तैरात्मनस्तुल्य इत्यसौ । चौरसेनाधिपतिना पुत्रत्वेनान्वमन्यत ॥ ३ ॥ चौरसेनापतौ तस्मिन्नवसानमुपयुषि । तत्पुत्र इति तत्स्थाने स बभूव महाभुजः ॥ ४ ॥ निष्कृपं प्रहरत्येष सर्वेषां प्राणिनां यतः । ततो दृढप्रहारोति नाम्ना निजगदे जनैः ॥ ५ ॥ अन्येद्युर्विश्वकुट्टाकलुण्टाकभटपटकैः । स कुशस्थलनामानं ग्रामं लुण्टयितुं ययौ ॥ ६ ॥ ब्राह्मणो देवशर्मेति तत्र दारिद्रयविद्रुतः। . अवशीफलमिव क्षीरानं याचितोऽभकैः ॥ ७ ॥ पर्यट्य सकले ग्राम क्वापि क्वापि स तन्दुलान् । क्वापि क्वापि पयोऽभ्यर्थ्य परमानमपीपचत् ॥ ८॥ नद्यां स्नातुं ययावेष यावत्तावत् तदोकसि । ते क्रूरतस्करा: पेतुर्दैवं दुर्बलघातकम् ॥ ८ ॥ तेषामेकतमो दस्युरपश्यत्तस्य पायसम् । क्षुधातुरः प्रेत इव तदादाय पलायितः ॥ १० ॥ आच्छिद्यमाने तस्मिंस्तु पायसे जीवितव्यवत् । क्रन्दन्ति डिम्मरूपाणि गत्वा पितरमूचिरे ॥ ११ ॥ व्यात्ताननानामस्माकं दस्युहन्देन पायसम् । जहें प्रसारितदृशामनिलेनेव कज्जलम् ॥ १२ ॥