________________
प्रथमः प्रकाशः ।
६५
तदाकयं वचो विप्रः क्षिप्रं दीप्रः क्रुदग्निना । यमदूत इवादाय परिधं पर्यधावत ॥ १३ ॥ सरोषराक्षसावेशात्समुत्पादितदोर्बलः । हन्तु प्रवकृते दस्यन् परिषेण पशूनिव ॥ १४ ॥ तेनावकरवत्साक्षाक्षिप्यमाणानवेक्ष्य तान् । वित्रस्यतस्तिरस्कुर्वन् दधावे तस्करेश्वरः ॥ १५ ॥ तस्यापि धावतो दैवाहुतिविघ्नविधायिनी । निरोढुं दुर्गतिमिव मार्गे गौरन्तरेऽभवत् ॥ १६ ॥ करालकरवालैकप्रहारेण वराकिकाम् । जघान नृजघन्यस्तां चण्डाल इव निघृणः ॥ १७ ॥ तस्याभ्यापततो रोरदिजातेः स शिरो भुवि । पनसद्रोः फलमिवापातयन्खड्गयष्टिना ॥ १८ ॥ पाः पाप निष्कृप कृतं किमेतदिति वादिनी । बाला मासवती तं चाभ्यगात् हिजकुटुम्बिनी ॥ १८ ॥ तस्या तक इव च्छाग्या गुविण्याः सोऽतिदारुणः । कुमाण्डदारमुदरं दारयित्वा हिधाकरोत् ॥ २० ॥ ततो जरायुमध्यस्थं तस्या गर्भ विधाकतम् । स स्फुरन्तं निरैक्षिष्ट लताया इव पल्लवम् ॥ २१ ॥ तथा सम्पश्यमानस्य तस्य विह्वलचेतसः । कपागतरूपस्यापि जज्ञे वल्कमिवाश्मनः ॥ २२ ॥ ततो हा तात तातेति हा मातर्मातरित्यपि । विलपन्तः समाजग्मुस्तकालं विजबालकाः ॥ २३ ॥