SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ८६ 'योगशास्त्रे नग्नान् भुग्नानतिक्षामान् 'श्यामानतिमलेन च । दृष्ट्वा दृढप्रहारी तान् सानुतापमचिन्तयत् ॥ २४ ॥ हहा नता निर्घृणेन दरिद्रौ दम्पती मया । अमी बाला हता स्तोयशोषे जीवन्ति किं भषाः ॥ २५ ॥ क्रूरेण कर्मणानेन नेष्यमानस्य दुर्गतिम् । अघभीतस्य मे कः स्यादुपायः शरणं च कः ॥ २६ ॥ इति सञ्चिन्तयन्नेव वैराग्यावेगभागसौ । एनोगदागदङ्कारान्साधूनुद्यानऐक्षत ॥ २७ ॥ नत्वोवाचेत्यहं पाप्मा भाष्यमाणोऽपि पाप्मने । पङ्किलः स्पृश्यमानोऽपि पतिलोकुरुते परम् ॥ २८ ॥ येषामेकतरमपि नरकायैव तान्यहम् | ब्रह्मस्त्रीभ्भ्रूणगोघातपातकान्यक्कपो व्यधात् ॥ २८ ॥ मामीदृशमपि चातुं साधवो यूयमर्हथ । I मेघानां वर्षतां स्थानमस्थानं वा न किञ्चन ॥ ३० ॥ श्रय ते साधवस्तस्मै यतिधर्ममुपादिशन् । सोऽथ च्छत्रमिवोष्णालुः पापभीरुस्तमाददे ॥ ३१ ॥ न भोक्ष्ये तत्र यत्राहि स्मरिष्याम्यस्य पाप्मनः । करिष्ये सर्वथा क्षान्तिं सोऽग्रहीदित्यभिग्रहौ ॥ ३२ ॥ पूर्वावस्कन्दिते तस्मिन्नेव ग्रामे कुशस्थले । कर्मक्षयं चिकीर्षुः स विजहार महामनाः ॥ ३३ ॥ (१) घ ङ छ दिग्धानतिमलेन च ।
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy